Mantra 1
स॒मं ज्योतिः॒ सूर्ये॒णाह्ना॒ रात्री॑ स॒माव॑ती। कृ॑णोमि स॒त्यमू॒तये॑ऽर॒साः स॑न्तु॒ कृत्व॑रीः ॥
स॒मम् । ज्योति॑: । सूर्ये॑ण । अह्ना॑ । रात्री॑ । स॒मऽव॑ती । कृ॒णोमि॑। स॒त्यम् । ऊ॒तये॑ । अ॒र॒सा: । स॒न्तु॒ । कृत्व॑री: ॥१८.१॥
Mantra 2
यो दे॑वाः कृ॒त्यां कृ॒त्वा हरा॒दवि॑दुषो गृ॒हम्। व॒त्सो धा॒रुरि॑व मा॒तरं॒ तं प्र॒त्यगुप॑ पद्यताम् ॥
य: । दे॒वा॒: । कृ॒त्याम् । कृ॒त्वा । हरा॑त् । अवि॑दुष: । गृ॒हम् । व॒त्स: । धा॒रु:ऽइ॑व । मा॒तर॑म् । तम् । प्र॒त्यक् । उप॑ । प॒द्य॒ता॒म् ॥१८.२॥
Mantra 3
अ॒मा कृ॒त्वा पा॒प्मानं॒ यस्तेना॒न्यं जिघां॑सति। अश्मा॑न॒स्तस्यां॑ द॒ग्धायां॑ बहु॒लाः फट्क॑रिक्रति ॥
अ॒मा । कृ॒त्वा । पा॒प्मान॑म् । य: । तेन॑ । अ॒न्यम् । जिघां॑सति । अश्मा॑न: । तस्या॑म् । द॒ग्धाया॑म् । ब॒हु॒ला: । फट् । क॒रि॒क्र॒ति॒ ॥१८.३॥
Mantra 4
सह॑स्रधाम॒न्विशि॑खा॒न्विग्री॑वां छायया॒ त्वम्। प्रति॑ स्म च॒क्रुषे॑ कृ॒त्यां प्रि॒यां प्रि॒याव॑ते हर ॥
सह॑स्रऽधामन् । विऽशि॑खान् । विऽग्री॑वान् । शा॒य॒य॒ । त्वम् । प्रति॑ । स्म॒ । च॒क्रुषे॑ । कृ॒त्याम् । प्रि॒याम् । प्रि॒यऽव॑ते । ह॒र॒ ॥१८.४॥
Mantra 5
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्। यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥
अ॒नया॑ । अ॒हम् । ओष॑ध्या । सर्वा॑: । कृ॒त्या: । अ॒दू॒दु॒ष॒म् । याम् । क्षेत्रे॑ । च॒क्रु: । याम् । गोषु॑ । याम् । वा॒ । ते॒ । पुरु॑षेषु ॥१८.५॥
Mantra 6
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्। च॒कार॑ भ॒द्रम॒स्मभ्य॑मा॒त्मने॒ तप॑नं॒ तु सः ॥
य: । च॒कार॑ । न । श॒शाक॑ । कर्तु॑म् । श॒श्रे । पाद॑म् । अ॒ङ्गुरि॑म् । च॒कार॑ । भ॒द्रम् । अ॒स्मभ्य॑म् । आ॒त्मने॑ । तप॑नम् । तु । स: ॥१८.६॥
Mantra 7
अ॑पामा॒र्गोऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः। अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ॥
अ॒पा॒मा॒र्ग: । अप॑ । मा॒र्ष्टु॒ । क्षे॒त्रि॒यम् । श॒पथ॑: । च॒ । य: ।अप॑ । अह॑ । या॒तु॒ऽधा॒नी: । अप॑ । सर्वा॑: । अ॒रा॒य्य᳡: ॥१८.७॥
Mantra 8
अ॑प॒मृज्य॑ यातु॒धाना॒नप॒ सर्वा॑ अरा॒य्यः॑। अपा॑मार्ग॒ त्वया॑ व॒यं सर्वं॒ तदप॑ मृज्महे ॥
अ॒प॒ऽमृज्य॑ । या॒तु॒ऽधाना॑न् । अप॑ । सर्वा॑: । अ॒रा॒य्य᳡: । अपा॑मार्ग: । त्वया॑ । व॒यम् । सर्व॑म् । तत् । अप॑ । मृ॒ज्म॒हे॒॥१८.८॥