Mantra 1
बृ॒हन्नेषामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति। यस्ता॒यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ॥
बृ॒हन् । ए॒षा॒म् । अ॒धि॒ऽस्था॒ता । अ॒न्ति॒कात्ऽइ॑व । प॒श्य॒ति॒ । य: । स्ता॒यत् । मन्य॑ते । चर॑न् । सर्व॑म् । दे॒वा: । इ॒दम् । वि॒दु॒: ॥१६.१॥
Mantra 2
यस्तिष्ठ॑ति॒ चर॑ति॒ यश्च॑ वञ्चति॒ यो नि॒लायं॒ चर॑ति॒ यः प्र॒तङ्क॑म्। द्वौ सं॑नि॒षद्य॒ यन्म॒न्त्रये॑ते॒ राजा॒ तद्वे॑द॒ वरु॑णस्तृ॒तीयः॑ ॥
य: । तिष्ठ॑ति । चर॑ति । य: । च॒ । वञ्च॑ति । य: । नि॒ऽलाय॑म् । चर॑ति । य: । प्र॒ऽङ्क॑म् । द्वौ । स॒म्ऽनि॒षद्य॑ । यत् । म॒न्त्रय॑ते॒ । इति॑ । राजा॑ । तत् । वे॒द॒ । वरु॑ण: । तृ॒तीय॑: ॥१६.२॥
Mantra 3
उ॒तेयं भूमि॒र्वरु॑णस्य॒ राज्ञ॑ उ॒तासौ द्यौर्बृ॑ह॒ती दूरेअन्ता। उ॒तो स॑मु॒द्रौ वरु॑णस्य कु॒क्षी उ॒तास्मिन्नल्प॑ उद॒के निली॑नः ॥
उ॒त । इ॒यम् । भूमि॑: । वरु॑णस्य । राज्ञ॑: । उ॒त । अ॒सौ । द्यौ: । बृ॒ह॒ती । दू॒रेऽअ॑न्ता । उ॒तो इति॑ । स॒मु॒द्रौ । वरु॑णस्य । कु॒क्षी इति॑ । उ॒त । अ॒स्मिन् । अल्पे॑ । उ॒द॒के । निऽली॑न: ॥१६.३॥
Mantra 4
उ॒त यो द्याम॑ति॒सर्पा॑त्प॒रस्ता॒न्न स मु॑च्यातै॒ वरु॑णस्य॒ राज्ञः॑। दि॒व स्पशः॒ प्र च॑रन्ती॒दम॑स्य सहस्रा॒क्षा अति॑ पश्यन्ति॒ भूमि॑म् ॥
उ॒त । य: । द्याम् । अ॒ति॒ऽसर्पा॑त् । प॒रस्ता॑त् । न । स: । मु॒च्या॒तै॒ । वरु॑णस्य। राज्ञ॑: । दि॒व: । स्पश॑: । प्र । च॒र॒न्ति॒ । इ॒दम् । अ॒स्य॒ । स॒ह॒स्र॒ऽअ॒क्षा: । अति॑ । प॒श्य॒न्ति॒ । भूमि॑म् ॥१६.४॥
Mantra 5
सर्वं॒ तद्राजा॒ वरु॑णो॒ वि च॑ष्टे॒ यद॑न्त॒रा रोद॑सी॒ यत्प॒रस्ता॑त्। संख्या॑ता अस्य नि॒मिषो॒ जना॑नाम॒क्षानि॑व श्व॒घ्नी नि मि॑नोति॒ तानि॑ ॥
सर्व॑म् । तत् । राजा॑ । वरु॑ण: । वि । च॒ष्टे॒ । यत् । अ॒न्त॒रा । रोद॑सी इति॑ । यत् । प॒रस्ता॑त् । सम्ऽख्या॑ता: । अ॒स्य॒ । नि॒ऽमिष॑: । जना॑नाम् । अ॒क्षान्ऽइ॑व । श्व॒ऽघ्नी । नि । मि॒नो॒ति॒ । तानि॑ ॥१६.५॥
Mantra 6
ये ते॒ पाशा॑ वरुण स॒प्तस॑प्त त्रे॒धा तिष्ठ॑न्ति॒ विषि॑ता॒ रुष॑न्तः। छि॒नन्तु॒ सर्वे॒ अनृ॑तं॒ वद॑न्तं॒ यः स॑त्यवा॒द्यति॒ तं सृ॑जन्तु ॥
ये । ते॒ । पाशा॑: । व॒रु॒ण॒ । स॒प्तऽस॑प्त । त्रे॒धा। तिष्ठ॑न्ति । विऽसि॑ता: । रुश॑न्त: । छि॒नन्तु॑ । सर्वे॑ । अनृ॑तम् । वद॑न्तम् । य: । स॒त्य॒ऽवा॒दी । अति॑ । तम् । सृ॒ज॒न्तु॒ ॥१६.६॥
Mantra 7
श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ्नृ॑चक्षः। आस्तां॑ जा॒ल्म उ॒दरं॑ श्रंसयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ॥
श॒तेन॑ । पाशै॑: । अ॒भि । धे॒हि॒ । व॒रु॒ण॒ । ए॒न॒म् । मा । ते॒ । मो॒चि॒ । अ॒नृ॒त॒ऽवाक् । नृ॒ऽच॒क्ष॒: । आस्ता॑म् । जा॒ल्म: । उ॒दर॑म् । श्रं॒श॒यि॒त्वा । कोश॑:ऽइव । अ॒ब॒न्ध: । प॒रि॒ऽकृ॒त्यमा॑न: ॥१६.७॥
Mantra 8
यः स॑मा॒म्यो॒ वरु॑णो॒ यो व्या॒म्यो॒ यः सं॑दे॒श्यो॒ वरु॑णो॒ यो वि॑दे॒श्यः। यो दै॒वो वरु॑णो॒ यश्च॒ मानु॑षः ॥
य: । स॒म्ऽआ॒भ्य᳡: । वरु॑ण: । य: । वि॒ऽआ॒भ्य᳡: । य: । स॒म्ऽदे॒श्य᳡: । वरु॑ण: । य: । वि॒ऽदे॒श्य᳡: । य: । दै॒व: । वरु॑ण: । य: । च॒ । मानु॑ष: ॥१६.८॥
Mantra 9
तैस्त्वा॒ सर्वै॑र॒भि ष्या॑मि॒ पाशै॑रसावामुष्यायणामुष्याः पुत्र। तानु॑ ते॒ सर्वा॑ननु॒संदि॑शामि ॥
तै: । त्वा॒ । सर्वै॑: । अ॒भि । स्या॒मि॒ । पाशै॑: । अ॒सौ॒ । आ॒मु॒ष्या॒य॒ण॒ । अ॒मु॒ष्या॒: । पु॒त्र॒ । तान् । ऊं॒ इति॑ । ते॒ । सर्वा॑न् । अ॒नु॒ऽसंदि॑शामि ॥१६.९॥