Mantra 1
स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥
स॒म्ऽउत्प॑तन्तु । प्र॒ऽदिश॑: । नभ॑स्वती: । सम् । अ॒भ्राणि॑ । वात॑ऽजूतानि । य॒न्तु॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑त: । नभ॑स्वत: । वा॒श्रा: । आप॑: । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.१॥
Mantra 2
समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ऽपां रसा॒ ओष॑धीभिः सचन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥
सम् । ई॒क्ष॒य॒न्तु॒ । त॒वि॒षा: । सु॒ऽदान॑व: । अ॒पाम् । रसा॑: । ओष॑धीभि: । स॒च॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । ओष॑धय: । वि॒श्वऽरू॑पा: ॥१५.२॥
Mantra 3
समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद्वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥
सम् । ई॒क्ष॒य॒स्व॒ । गाय॑त: । नभां॑सि । अ॒पाम् । वेगा॑स: । पृथ॑क् । उत् । वि॒ज॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । वी॒रुध॑: । वि॒श्वऽरू॑पा: ॥१५.३॥
Mantra 4
ग॒णास्त्वोप॑ गायन्तु॒ मारु॑ताः पर्जन्य घो॒षिणः॒ पृथ॑क्। सर्गा॑ व॒र्षस्य॒ वर्ष॑तो॒ वर्ष॑न्तु पृथि॒वीमनु॑ ॥
ग॒णा । त्वा॒ । उप॑ । गा॒य॒न्तु॒ । मारु॑ता: । प॒र्ज॒न्य॒ । घो॒षिण॑: । पृथ॑क् । सर्गा॑: । व॒र्षस्य॑ । वर्ष॑त: । वर्ष॑न्तु । पृ॒थि॒वीम् । अनु॑ ॥१५.४॥
Mantra 5
उदी॑रयत मरुतः समुद्र॒तस्त्वे॒षो अ॒र्को नभ॒ उत्पा॑तयाथ। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥
उत् । ई॒र॒य॒त॒ । म॒रु॒त॒: । स॒मु॒द्र॒त: । त्वे॒ष: । अ॒र्क: । नभ॑: । उत् । पा॒त॒या॒थ॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑त: । नभ॑स्वत: । वा॒श्रा: । आप॑: । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.५॥
Mantra 6
अ॒भि क्र॑न्द स्त॒नया॒र्दयो॑द॒धिं भूमिं॑ पर्जन्य॒ पय॑सा॒ सम॑ङ्धि। त्वया॑ सृ॒ष्टं ब॑हु॒लमैतु॑ व॒र्षमा॑शारै॒षी कृ॒शगु॑रे॒त्वस्त॑म् ॥
अ॒भि । क्र॒न्द॒ । स्त॒नय॑ । अ॒र्दय॑ । उ॒द॒ऽधिम् । भूमि॑म् । प॒र्ज॒न्य॒ । पय॑सा । सम् । अ॒ङ्धि॒ । त्वया॑ । सृ॒ष्टम् । ब॒हु॒लम् । आ । ए॒तु॒ । व॒र्षम् । आ॒शा॒र॒ऽए॒षी । कृ॒शऽगु॑: । ए॒तु॒ । अस्त॑म् ॥१५.६॥
Mantra 7
सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घा वर्ष॑न्तु पृथि॒वीमनु॑ ॥
सम् । व॒: । अ॒व॒न्तु॒ । सु॒ऽदान॑व: । उत्सा॑: । अ॒ज॒ग॒रा: । उ॒त । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । वर्ष॑न्तु । पृ॒थि॒वीम् । अनु॑ ॥१५.७॥
Mantra 8
आशा॑माशां॒ वि द्यो॑ततां॒ वाता॑ वान्तु दि॒शोदि॑शः। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः सं य॑न्तु पृथि॒वीमनु॑ ॥
आशा॑म्ऽआाशाम् । वि । द्यो॒त॒ता॒म् । वाता॑: । वा॒न्तु॒ । दि॒श:ऽदि॑श: । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । सम् । य॒न्तु॒ । पृ॒थि॒वीम् । अनु॑ ॥१५.८॥
Mantra 9
आपो॑ वि॒द्युद॒भ्रं व॒र्षं सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः प्राव॑न्तु पृथि॒वीमनु॑ ॥
आप॑: । वि॒ऽद्युत् । अ॒भ्रम् । व॒र्षम् । सम् । व॒: । अ॒व॒न्तु॒ । सु॒ऽदान॑व: । उत्सा॑: । अ॒ज॒ग॒रा: । उ॒त । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । प्र । अ॒व॒न्तु॒ । पृ॒थि॒वीम् । अनु॑ ॥१५.९॥
Mantra 10
अ॒पाम॒ग्निस्त॒नूभिः॑ संविदा॒नो य ओष॑धीनामधि॒पा ब॒भूव॑। स नो॑ व॒र्षं व॑नुतां जा॒तवे॑दाः प्रा॒णं प्र॒जाभ्यो॑ अ॒मृतं॑ दि॒वस्परि॑ ॥
अ॒पाम् । अ॒ग्नि: । त॒नूभि॑: । स॒म्ऽवि॒दा॒न: । य: । ओष॑धीनाम् । अ॒धि॒ऽपा । ब॒भूव॑ । स: । न॒: । व॒र्षम् । व॒नु॒ता॒म् । जा॒तऽवे॑दा: । प्रा॒णम् । प्र॒ऽजाभ्य॑: । अ॒मृत॑म् । दि॒व: । परि॑॥१५.१०॥
Mantra 11
प्र॒जाप॑तिः सलि॒लादाः स॑मु॒द्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति। प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ऽर्वाङे॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥
प्र॒जाऽप॑ति: । स॒लि॒लात् । आ । स॒मु॒द्रात् । आप॑: । ई॒रय॑न् । उ॒द॒ऽधिम् । अ॒र्द॒या॒ति॒ । प्र । प्या॒य॒ता॒म् । वृष्ण॑: । अश्व॑स्य । रेत॑: । अ॒वाङ् । ए॒तेन॑ । स्त॒न॒यि॒त्नुना॑ । आ । इ॒हि॒॥१५.११॥
Mantra 12
अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज। वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ॥
अ॒प: । नि॒ऽसि॒ञ्चन् । असु॑र: । पि॒ता । न॒: । श्वस॑न्तु । गर्ग॑रा: । अ॒पाम् । व॒रु॒ण॒ । अव॑ । नीची॑: । अ॒प: । सृ॒ज॒ । वद॑न्तु । पृश्नि॑ऽबाहव: । म॒ण्डूका॑: । इरि॑णा । अनु॑ ॥१५.१२॥
Mantra 13
सं॑वत्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑। वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥
स॒म्ऽव॒त्स॒रम् । श॒श॒या॒ना: । ब्रा॒ह्म॒णा: । व्र॒त॒ऽचा॒रिण॑: । वाच॑म् । प॒र्जन्य॑ऽजिन्विताम् । प्र । म॒ण्डूका॑: । अ॒वा॒दि॒षु॒: ॥१५.१३॥
Mantra 14
उ॑प॒प्रव॑द मण्डूकि व॒र्षमा आ व॑द तादुरि। मध्ये॑ ह्र॒दस्य॑ प्लवस्व वि॒गृह्य॑ च॒तुरः॑ प॒दः ॥
उ॒प॒ऽप्रव॑द । म॒ण्डू॒कि॒ । व॒र्षम् । आ । व॒द॒ । ता॒दु॒रि॒ । मध्ये॑ । हृ॒दस्य॑ । प्ल॒व॒स्व॒ । वि॒ऽगृह्य॑ । च॒तुर॑: । प॒द: ॥१५.१४॥
Mantra 15
ख॑ण्व॒खा३इ॑ खैम॒खा३इ॒ मध्ये॑ तदुरि। व॒र्षं व॑नुध्वं पितरो म॒रुतां॒ मन॑ इच्छत ॥
खण्व॒खा३इ॑ । खैम॒खा३इ॑ । मध्ये॑ । त॒दु॒रि॒ । व॒र्षम् । व॒नु॒ध्व॒म् । पि॒त॒र॒: । म॒रुता॑म् । मन॑: । इ॒च्छ॒त॒ ॥१५.१५॥
Mantra 16
म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑। त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥
म॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । अ॒भि । सि॒ञ्च॒ । स॒ऽवि॒द्यु॒तम् । भ॒व॒तु॒ । वातु॑ । वात॑: । त॒न्वता॑म् । य॒ज्ञम् । ब॒हु॒ऽधा । विऽसृ॑ष्टा: । आ॒ऽन॒न्दिनी॑: । ओष॑धय: । भ॒व॒न्तु॒ ॥१५.१६॥