Mantra 1
अ॒जो ह्यग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑। तेन॑ दे॒वा दे॒वता॒मग्र॑ आय॒न्तेन॒ रोहा॑न्रुरुहु॒र्मेध्या॑सः ॥
अ॒ज: । हि । अ॒ग्ने: । अज॑निष्ट । शोका॑त् । स: । अ॒प॒श्य॒त् । ज॒नि॒तार॑म् । अग्ने॑ । तेन॑ । दे॒वा: । दे॒वता॑म् । अग्रे॑ । आ॒य॒न् । तेन॑ । रोहा॑न् । रु॒रु॒हु॒: । मेध्या॑स: ॥१४.१॥
Mantra 2
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥
क्रम॑ध्वम् । अ॒ग्निना॑ । नाक॑म् । उख्या॑न् । हस्ते॑षु । बिभ्र॑त: । दि॒व: । पृ॒ष्ठम् । स्व᳡: । ग॒त्वा । मि॒श्रा: । दे॒वेभि॑: । आ॒ध्व॒म् ॥१४.२॥
Mantra 3
पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ॥
पृ॒ष्ठात् । पृ॒थि॒व्या: । अ॒हम् । अ॒न्तरि॑क्षम् । आ । अ॒रु॒ह॒म् । अ॒न्तरि॑क्षात् । दिव॑म् । आ । अ॒रु॒ह॒म् । दि॒व: । नाक॑स्य । पृ॒ष्ठात् । स्व᳡: । ज्योति॑: । अ॒गा॒म् । अ॒हम् ॥१३.३॥
Mantra 4
स्वर्यन्तो॒ नापे॑क्षन्त॒ आ द्यां रो॑हन्ति॒ रोद॑सी। य॒ज्ञं ये वि॒श्वतो॑धारं॒ सुवि॑द्वांसो वितेनि॒रे ॥
स्व᳡: । यन्त॑: । न । अप॑ । ई॒क्ष॒न्ते॒ । आ । द्याम् । रो॒ह॒न्ति॒ । रोदसी॒ इति॑ । य॒ज्ञम् । ये । वि॒श्वत॑:ऽधारम् । सुऽवि॑द्वांस: । वि॒ऽते॒नि॒रे ॥१४.४॥
Mantra 5
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षाणाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥
अग्ने॑ । प्र । इ॒हि॒ । प्र॒थ॒म: । दे॒वता॑नाम् । चक्षु॑: । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् । इय॑क्षमाणा: । भृगु॑ऽभि: । स॒ऽजोषा॑: । स्व᳡: । य॒न्तु॒ । यज॑माना: स्व॒स्ति ॥१४.५॥
Mantra 6
अ॒जम॑नज्मि॒ पय॑सा घृ॒तेन॑ दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्व॑रा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ॥
अ॒जम् । अ॒न॒ज्मि॒ । पय॑सा । घृ॒तेन॑ । दि॒व्यम् । सु॒ऽप॒र्णम् । प॒य॒सम् । बृ॒हन्त॑म् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । स्व᳡: । आ॒ऽरोह॑न्त: । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् ॥१४.६॥
Mantra 7
पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्दर्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम्। प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम् ॥
पञ्च॑ऽओदनम् । प॒ञ्चऽभि॑: । अ॒ङ्गुलि॑ऽभि: । दर्व्या॑ । उत् । ह॒र॒ । प॒ञ्च॒ऽधा । ए॒तम् । ओ॒द॒नम् । प्राच्या॑म् । दि॒शि । शिर॑: । अ॒जस्य॑ । धे॒हि॒ । दक्षि॑णायाम् । दि॒शि । दक्षि॑णम् । धे॒हि॒ । पा॒र्श्वम् ॥१४.७॥
Mantra 8
प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्। ऊ॒र्ध्वायां॑ दि॒श्यजस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्य॑म॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ॥
प्र॒तीच्या॑म् । दि॒शि । भ॒सद॑म् । अ॒स्य॒ । धे॒हि॒ । उत्त॑रस्याम् । दि॒शि । उत्त॑रम् । धे॒हि॒ । पा॒र्श्वम् । ऊ॒र्ध्वाया॑म् । दि॒शि । अ॒जस्य॑ । अनू॑कम् । धे॒हि॒ । दि॒शि । ध्रु॒वाया॑म् । धे॒हि॒ । पा॒ज॒स्य᳡म् । अ॒न्तरि॑क्षे । म॒ध्य॒त: । मध्य॑म् । अ॒स्य॒ ॥१४.८॥
Mantra 9
शृ॒तम॒जं शृ॒तया॒ प्रोर्णु॑हि त्व॒चा सर्वै॒रङ्गैः॒ संभृ॑तं वि॒श्वरू॑पम्। स उत्ति॑ष्ठे॒तो अ॑भि॒ नाक॑मुत्त॒मं प॒द्भिश्च॒तुर्भिः॒ प्रति॑ तिष्ठ दि॒क्षु ॥
शृ॒तम् । अ॒जम् । शृ॒तया॑ । प्र । ऊ॒र्णु॒हि॒ । त्व॒चा । सर्वै॑: । अङ्गै॑: । सम्ऽभृ॑तम् । वि॒श्वऽरू॑पम् । स: । उत् । ति॒ष्ठ॒ । इ॒त: । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् । प॒त्ऽभि: । च॒तु:ऽभि॑: । प्रति॑ । ति॒ष्ठ॒ । दि॒क्षु॒ ॥१४.९॥