Mantra 1
अ॑न॒ड्वान्दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान्दा॑धारो॒र्वन्तरि॑क्षम्। अ॑न॒ड्वान्दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान्विश्वं॒ भुव॑न॒मा वि॑वेश ॥
अ॒न॒ड्वान् । दा॒धा॒र॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । अ॒न॒ड्वान् । दा॒धा॒र॒ । उ॒रु । अ॒न्तरि॑क्षम् । अ॒न॒ड्वान । दा॒धा॒र॒ । प्र॒ऽदिश॑: । षट् । उ॒र्वी: । अ॒न॒ड्वान् । विश्व॑म् । भुव॑नम् । आ । वि॒वे॒श॒ ॥११.१॥
Mantra 2
अ॑न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः। भू॒तं भ॑वि॒ष्यद्भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑ ॥
अ॒न॒ड्वान् । इन्द्र॑: । स: । प॒शुऽभ्य॑: । वि । च॒ष्टे॒ । त्र॒यान् । श॒क्र: । वि । मि॒मी॒ते॒ । अध्व॑न: । भू॒तम् । भ॒वि॒ष्यत् । भुव॑ना । दुहा॑न: । सर्वा॑ । दे॒वाना॑म् । च॒र॒ति॒ । व्र॒तानि॑ ॥११.२॥
Mantra 3
इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः। सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ॥
इन्द्र॑: । जा॒त: । म॒नु॒ष्ये᳡षु । अ॒न्त: । घ॒र्म: । त॒प्त: । च॒र॒ति॒ । शोशु॑चान: । सु॒ऽप्र॒जा: । सन् । स: । उ॒त्ऽआ॒रे । न । स॒र्ष॒त् । य: । न । अ॒श्नी॒यात् । अ॒न॒डुह॑: । वि॒ऽजा॒नन् ॥११.३॥
Mantra 4
अ॑न॒ड्वान्दु॑हे सुकृ॒तस्य॑ लो॒क एनं॑ प्याययति॒ पव॑मानः पु॒रस्ता॑त्। प॒र्जन्यो॒ धारा॑ म॒रुत॒ ऊधो॑ अस्य य॒ज्ञः पयो॒ दक्षि॑णा॒ दोहो॑ अस्य ॥
अ॒न॒ड्वान् । दु॒हे॒ । सु॒ऽकृ॒तस्य॑ । लो॒के । आ । ए॒न॒म् । प्या॒य॒य॒ति॒ । पव॑मान: । पु॒रस्ता॑त् । प॒र्जन्य॑: । धारा॑: । म॒रुत॑: । ऊध॑: । अ॒स्य॒ । य॒ज्ञ: । पय॑: । दक्षि॑णा । दोह॑: । अ॒स्य॒ ॥११.४॥
Mantra 5
यस्य॑ नेशे य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दातेशे॒ न प्र॑तिग्रही॒ता। यो वि॑श्व॒जिद्वि॑श्व॒भृद्वि॒श्वक॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात् ॥
यस्य॑ । न । ईशे॑ । य॒ज्ञऽप॑ति: । न । य॒ज्ञ: । न । अ॒स्य॒ । दा॒ता । ईशे॑ । न । प्र॒ति॒ऽग्र॒ही॒ता । य: । वि॒श्व॒ऽजित् । वि॒श्व॒ऽभृत् । वि॒श्वऽक॑र्मा । घ॒र्मम् । न॒: । ब्रू॒त॒ । य॒त॒म: । चतु॑:ऽपात् ॥११.५॥
Mantra 6
येन॑ दे॒वाः स्व॑रारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑ ॥
येन॑ । दे॒वा: । स्व᳡: । आ॒ऽरु॒रु॒हु: । हि॒त्वा । शरी॑रम् । अ॒मृत॑स्य । नाभि॑म् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । घ॒र्मस्य॑ । व्र॒तेन॑ । तप॑सा । य॒श॒स्यव॑: ॥११.६॥
Mantra 7
इन्द्रो॑ रू॒पेणा॒ग्निर्वहे॑न प्र॒जाप॑तिः परमे॒ष्ठी वि॒राट्। वि॒श्वान॑रे अक्रमत वैश्वान॒रे अ॑क्रमतान॒डुह्य॑क्रमत। सोऽदृं॑हयत॒ सोऽधा॑रयत ॥
इन्द्र॑: । रू॒पेण॑ । अ॒ग्नि: । वहे॑न । प्र॒जाऽप॑ति: । प॒र॒मे॒ऽस्थी । वि॒ऽराट् । वि॒श्वान॑रे । अ॒क्र॒म॒त॒ । वै॒श्वा॒न॒रे । अ॒क्र॒म॒त॒ । अ॒न॒डुहि॑ । अ॒क्र॒म॒त॒ । स: । अ॒दृं॒ह॒य॒त॒ । स: । अ॒धा॒र॒य॒त॒ ॥११.७॥
Mantra 8
मध्य॑मे॒तद॑न॒डुहो॒ यत्रै॒ष वह॒ आहि॑तः। ए॒ताव॑दस्य प्रा॒चीनं॒ यावा॑न्प्र॒त्यङ्स॒माहि॑तः ॥
मध्य॑म् । ए॒तत् । अ॒न॒डुह॑: । यत्र॑ । ए॒ष: । वह॑: । आऽहि॑त: । ए॒ताव॑त् । अ॒स्य॒ । प्रा॒चीन॑म् । यावा॑न् । प्र॒त्यङ् । स॒म्ऽआहि॑त: ॥११.८॥
Mantra 9
यो वेदा॑न॒डुहो॒ दोहा॑न्स॒प्तानु॑पदस्वतः। प्र॒जां च॑ लो॒कं चा॑प्नोति॒ तथा॑ सप्तऋ॒षयो॑ विदुः ॥
य: । वेद॑ । अ॒न॒डुह॑: । दोहा॑न् । स॒प्त । अनु॑पऽदस्वत: । प्र॒ऽजाम् । च॒ । लो॒कम् । च॒ । आ॒प्नो॒ति॒ । तथा॑ । स॒प्त॒ऽऋ॒षय॑: ॥११.९॥
Mantra 10
प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन्। श्रमे॑णान॒ड्वान्की॒लालं॑ की॒नाश॑श्चा॒भि ग॑छतः ॥
प॒त्ऽभि: । से॒दिम् । अ॒व॒ऽक्राम॑न् । इरा॑म् । जङ्घा॑भि: । उ॒त्ऽखि॒दन् । श्रमे॑ण । अ॒न॒ड्वान् । की॒लाल॑म् । की॒नाश॑: । च॒ । अ॒भि । ग॒च्छ॒त॒: ॥११.१०॥
Mantra 11
द्वाद॑श॒ वा ए॒ता रात्री॒र्व्रत्या॑ आहुः प्र॒जाप॑तेः। तत्रोप॒ ब्रह्म॒ यो वेद॒ तद्वा अ॑न॒डुहो॑ व्र॒तम् ॥
द्वाद॑श । वै । ए॒ता: । रात्री॑: । व्रत्या॑: । आ॒हु॒: । प्र॒जाऽप॑ते: । तत्र॑ । उप॑ । ब्रह्म॑ । य: । वेद॑ । तत् । वै । अ॒न॒डुह॑: । व्र॒तम् ॥११.११॥
Mantra 12
दु॒हे सा॒यं दु॒हे प्रा॒तर्दु॒हे म॒ध्यंदि॑नं॒ परि॑। दोहा॒ ये अ॑स्य सं॒यन्ति॒ तान्वि॒द्मानु॑पदस्वतः ॥
दु॒हे । सा॒यम् । दु॒हे । प्रा॒त: । दु॒हे । म॒ध्यंदि॑नम् । परि॑ । दोहा॑: । ये । अ॒स्य॒ । स॒म्ऽयन्ति॑ । तान् । वि॒द्म॒ । अनु॑पऽदस्वत ॥११.१२॥