Mantra 1
आ त्वा॑ गन्रा॒ष्ट्रं स॒ह वर्च॒सोदि॑हि॒ प्राङ्वि॒शां पति॑रेक॒राट्त्वं वि रा॑ज। सर्वा॑स्त्वा राजन्प्र॒दिशो॑ ह्वयन्तूप॒सद्यो॑ नम॒स्यो॑ भवे॒ह ॥
आ । त्वा॒ । ग॒न् । रा॒ष्ट्रम् । स॒ह । वर्च॑सा । उत् । इ॒हि॒ । प्राङ् । वि॒शाम् । पति॑: । ए॒क॒ऽराट् । त्वम् । वि । रा॒ज॒ ।सर्वा॑: । त्वा॒ । रा॒ज॒न् । प्र॒ऽदिश॑: । ह्व॒य॒न्तु॒ । उ॒प॒ऽसद्य॑: । न॒म॒स्य᳡: । भ॒व॒ । इ॒ह ॥४.१॥
Mantra 2
त्वां विशो॑ वृणतां रा॒ज्या॑य॒ त्वामि॒माः प्र॒दिशः॒ पञ्च॑ दे॒वीः। वर्ष्म॑न्रा॒ष्ट्रस्य॑ क॒कुदि॑ श्रयस्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥
त्वाम् । विश॑: । वृ॒ण॒ता॒म् । रा॒ज्या᳡य । त्वाम् । इ॒मा: । प्र॒ऽदिश॑: । पञ्च॑ । दे॒वी: । वर्ष्म॑न् । रा॒ष्ट्रस्य॑ । क॒कुदि॑ । श्र॒य॒स्व॒ । तत॑: । न॒: । उ॒ग्र: । वि । भ॒ज॒ । वसू॑नि ॥४.२॥
Mantra 3
अच्छ॑ त्वा यन्तु ह॒विनः॑ सजा॒ता अ॒ग्निर्दू॒तो अ॑जि॒रः सं च॑रातै। जा॒याः पु॒त्राः सु॒मन॑सो भवन्तु ब॒हुं ब॒लिं प्रति॑ पश्यासा उ॒ग्रः ॥
अच्छ॑ । त्वा॒ । य॒न्तु॒ । ह॒विन॑: । स॒ऽजा॒ता: । अ॒ग्नि: । दू॒त: । अ॒जि॒र: । सम् । च॒रा॒तै॒ ।जा॒या: । पु॒त्रा: । सु॒ऽमन॑स: । भ॒व॒न्तु॒ । ब॒हुम् । ब॒लिम् । प्रति॑ । प॒श्या॒सै॒ । उ॒ग्र: ॥४.३॥
Mantra 4
अ॒श्विना॒ त्वाग्रे॑ मि॒त्रावरु॑णो॒भा विश्वे दे॒वा म॒रुत॒स्त्वा ह्व॑यन्तु। अधा॒ मनो॑ वसु॒देया॑य कृणुष्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥
अ॒श्विना॑ । त्वा॒ । अग्रे॑ । मि॒त्रावरु॑णा । उ॒भा । विश्वे॑ । दे॒वा: । म॒रुत॑: । त्वा॒ । ह्व॒य॒न्तु॒ । अध॑ । मन॑: । व॒सु॒ऽदेया॑य । कृ॒णु॒ष्व॒ । तत॑: । न॒: । उ॒ग्र: । वि । भ॒ज॒ । वसू॑नि ॥४.४॥
Mantra 5
आ प्र द्र॑व पर॒मस्याः॑ परा॒वतः॑ शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म्। तद॒यं राजा॒ वरु॑ण॒स्तथा॑ह॒ स त्वा॒यम॑ह्व॒त्स उ॑पे॒दमेहि॑ ॥
आ । प्र । द्र॒व॒ । प॒र॒मस्या॑: । प॒रा॒ऽवत॑: । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् । तत् । अ॒यम् । राजा॑ । वरु॑ण: । तथा॑ । आ॒ह॒ । स: । त्वा॒ । अ॒यम् । अ॒ह्व॒त् । स: । उप॑ । इ॒दम् । आ । इ॒हि॒ ॥४.५॥
Mantra 6
इन्द्रे॑न्द्र मनु॒ष्याः परे॑हि॒ सं ह्यज्ञा॑स्था॒ वरु॑णैः संविदा॒नः। स त्वा॒यम॑ह्व॒त्स्वे स॒धस्थे॒ स दे॒वान्य॑क्ष॒त्स उ॑ कल्पया॒द्विशः॑ ॥
इन्द्र॑ऽइन्द्र । म॒नु॒ष्या᳡: । परा॑ । इ॒हि॒ । सम् । हि । अज्ञा॑स्था: । वरु॑णै: । स॒म्ऽवि॒दा॒न: ।स: । त्वा॒ । अ॒यम् । अ॒ह्व॒त् । स्वे । स॒धऽस्थे॑ । स: । दे॒वान् । य॒क्ष॒त् । स: । ऊं॒ इति॑ । क॒ल्प॒या॒त् । विश॑: ॥४.६॥
Mantra 7
प॒थ्या॑ रे॒वती॑र्बहु॒धा विरू॑पाः॒ सर्वाः॑ सं॒गत्य॒ वरी॑यस्ते अक्रन्। तास्त्वा॒ सर्वाः॑ संविदा॒ना ह्व॑यन्तु दश॒मीमु॒ग्रः सु॒मना॑ वशे॒ह ॥
प॒थ्या᳡: । रे॒वती॑: । ब॒हु॒ऽधा । विऽरू॑पा: । सर्वा॑: । स॒म्ऽगत्य॑ । वरी॑य: । ते॒ । अ॒क्र॒न् । ता: । त्वा॒ । सर्वा॑: । स॒म्ऽवि॒दा॒ना: । ह्व॒य॒न्तु॒ । द॒श॒मीम् । उ॒ग्र: । सु॒ऽमना॑: । व॒श॒ । इ॒ह ॥४.७॥