Mantra with Swara
व्य॑स्यै मित्रावरुणौ हृ॒दश्चि॒त्तान्य॑स्यतम्। अथै॑नामक्र॒तुं कृ॒त्वा ममै॒व कृ॑णुतं॒ वशे॑ ॥
वि । अ॒स्यै॒ । मि॒त्रा॒व॒रु॒णौ॒ । हृ॒द: । चि॒त्तानि॑ । अ॒स्य॒त॒म् । अथ॑ । ए॒ना॒म् । अ॒क्र॒तुम् । कृ॒त्वा । मम॑ । ए॒व । कृ॒णु॒त॒म् । वशे॑ ॥२५.६॥
Mantra without Swara
व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम्। अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥
वि । अस्यै । मित्रावरुणौ । हृद: । चित्तानि । अस्यतम् । अथ । एनाम् । अक्रतुम् । कृत्वा । मम । एव । कृणुतम् । वशे ॥२५.६॥
