Mantra with Swara
यानि॑ भ॒द्राणि॒ बीजा॑न्यृष॒भा ज॒नय॑न्ति च। तैस्त्वं पु॒त्रं वि॑न्दस्व॒ सा प्र॒सूर्धेनु॑का भव ॥
यानि॑ । भ॒द्राणि॑ । बीजा॑नि । ऋ॒ष॒भा: । ज॒नय॑न्ति । च॒ । तै: । त्वम् । पु॒त्रम् । वि॒न्द॒स्व॒ । सा । प्र॒ऽसू: । धेनु॑का । भ॒व॒ ॥२३.४॥
Mantra without Swara
यानि भद्राणि बीजान्यृषभा जनयन्ति च। तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥
यानि । भद्राणि । बीजानि । ऋषभा: । जनयन्ति । च । तै: । त्वम् । पुत्रम् । विन्दस्व । सा । प्रऽसू: । धेनुका । भव ॥२३.४॥
