Mantra with Swara
पुमां॑सं पु॒त्रं ज॑नय॒ तं पुमा॒ननु॑ जायताम्। भवा॑सि पु॒त्राणां॑ मा॒ता जा॒तानां॑ ज॒नया॑श्च॒ यान् ॥
पुमां॑सम् । पु॒त्रम् । ज॒न॒य॒ । तम् । पुमा॑न् । अनु॑ । जा॒य॒ता॒म् । भवा॑सि । पु॒त्राणा॑म् । मा॒ता । जा॒ताना॑म् । ज॒नया॑: । च॒ । यान् ॥२३.३॥
Mantra without Swara
पुमांसं पुत्रं जनय तं पुमाननु जायताम्। भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥
पुमांसम् । पुत्रम् । जनय । तम् । पुमान् । अनु । जायताम् । भवासि । पुत्राणाम् । माता । जातानाम् । जनया: । च । यान् ॥२३.३॥
