Mantra with Swara
आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न्बाण॑ इवेषु॒धिम्। आ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ॥
आ । ते॒ । योनि॑म् । गर्भ॑: । ए॒तु॒ । पुमा॑न् । बाण॑:ऽइव । इ॒षु॒ऽधिम् । आ । वी॒र: । अत्र॑ । जा॒य॒ता॒म् । पु॒त्र: । ते॒ । दश॑ऽमास्य: ॥२३.२॥
Mantra without Swara
आ ते योनिं गर्भ एतु पुमान्बाण इवेषुधिम्। आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥
आ । ते । योनिम् । गर्भ: । एतु । पुमान् । बाण:ऽइव । इषुऽधिम् । आ । वीर: । अत्र । जायताम् । पुत्र: । ते । दशऽमास्य: ॥२३.२॥
