Mantra with Swara
येन॑ ह॒स्ती वर्च॑सा संब॒भूव॒ येन॒ राजा॑ मनु॒ष्ये॑ष्व॒प्स्वन्तः। येन॑ दे॒वा दे॒वता॒मग्र॒ आय॒न्तेन॒ माम॒द्य वर्च॒साग्ने॑ वर्च॒स्विनं॑ कृणु ॥
येन॑ । ह॒स्ती । वर्च॑सा । स॒म्ऽब॒भूव॑ । येन॑ । राजा॑ । म॒नु॒ष्ये᳡षु । अ॒प्ऽसु । अ॒न्त: । येन॑ । दे॒वा: । दे॒वता॑म् । अग्रे॑ । आय॑न् । तेन॑ । माम् । अ॒द्य । वर्च॑सा । अग्ने॑ । व॒र्च॒स्विन॑म् । कृ॒णु॒ ॥२२.३॥
Mantra without Swara
येन हस्ती वर्चसा संबभूव येन राजा मनुष्येष्वप्स्वन्तः। येन देवा देवतामग्र आयन्तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥
येन । हस्ती । वर्चसा । सम्ऽबभूव । येन । राजा । मनुष्येषु । अप्ऽसु । अन्त: । येन । देवा: । देवताम् । अग्रे । आयन् । तेन । माम् । अद्य । वर्चसा । अग्ने । वर्चस्विनम् । कृणु ॥२२.३॥
