Mantra 1
संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्यं बल॑म्। संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॑मस्मि पु॒रोहि॑तः ॥
सम्ऽशि॑तम् । मे॒ । इ॒दम् । ब्रह्म॑ । सम्ऽशि॑तम् । वी॒र्य᳡म् । बल॑म् । सम्ऽशि॑तम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु: । येषा॑म् । अस्मि॑ । पु॒र:ऽहि॑त:॥१९.१॥
Mantra 2
सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्यं बल॑म्। वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम् ॥
सम् । अ॒हम् । ए॒षाम् । रा॒ष्ट्रम् । स्या॒मि॒ । सम् । ओज॑: । वी॒र्य᳡म् । बल॑म् । वृ॒श्चामि॑ । शत्रू॑णाम् । बा॒हून् । अ॒नेन॑ । ह॒विषा॑ । अ॒हम् ॥१९.२॥
Mantra 3
नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्। क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम् ॥
नी॒चै: । प॒द्य॒न्ता॒म् । अध॑रे । भ॒व॒न्तु॒ । ये । न॒: । सू॒रिम् । म॒घऽवा॑नम् । पृ॒त॒न्यान् । क्षि॒णामि॑ । ब्रह्म॑णा । अ॒मित्रा॑न् । उत् । न॒या॒मि॒ । स्वान् । अ॒हम् ॥१९.३॥
Mantra 4
तीक्ष्णी॑यांसः पर॒शोर॒ग्नेस्ती॒क्ष्णत॑रा उ॒त। इन्द्र॑स्य॒ वज्रा॒त्तीक्ष्णी॑यांसो॒ येषा॒मस्मि॑ पु॒रोहि॑तः ॥
तीक्ष्णी॑यांस: । प॒र॒शो: । अ॒ग्ने: । ती॒क्ष्णऽत॑रा: । उ॒त । इन्द्र॑स्य । वज्रा॑त् । तीक्ष्णी॑यांस: । येषा॑म् । अस्मि॑ । पु॒र:ऽहि॑त: ॥१९.४॥
Mantra 5
ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सु॒वीरं॑ वर्धयामि। ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः ॥
ए॒षाम् । अ॒हम् । आयु॑धा । सम् । स्या॒मि॒। ए॒षाम् । रा॒ष्ट्रम् । सु॒ऽवीर॑म् । व॒र्ध॒या॒मि॒ । ए॒षाम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु । ए॒षाम् । चि॒त्तम् । विश्वे॑ । अ॒व॒न्तु॒ । दे॒वा: ॥१९.५॥
Mantra 6
उद्ध॑र्षन्तां मघव॒न्वाजि॑ना॒न्युद्वी॒राणां॒ जय॑तामेतु॒ घोषः॑। पृथ॒ग्घोषा॑ उलु॒लयः॑ केतु॒मन्त॒ उदी॑रताम्। दे॒वा इन्द्र॑ज्येष्ठा म॒रुतो॑ यन्तु॒ सेन॑या ॥
उत् । ह॒र्ष॒न्ता॒म् । म॒घ॒ऽव॒न् । वाजि॑नानि । उत् । वी॒राणा॑म् । जय॑ताम् । ए॒तु॒ । घोष॑: ।पृथ॑क् ।घोषा॑: । उ॒लु॒लय॑: । के॒तु॒ऽमन्त॑: । उत् । ई॒र॒ता॒म् । दे॒वा: । इन्द्र॑ऽज्येष्ठा: । म॒रुत॑: । य॒न्तु॒ । सेन॑या ॥१९.६॥
Mantra 7
प्रेता॒ जय॑ता नर उ॒ग्रा वः॑ सन्तु बा॒हवः॑। ती॒क्ष्णेष॑वोऽब॒लध॑न्वनो हतो॒ग्रायु॑धा अब॒लानु॒ग्रबा॑हवः ॥
प्र । इ॒त॒ । जय॑त । न॒र॒: । उ॒ग्रा: । व॒: । स॒न्तु॒ । बा॒हव॑: । ती॒क्ष्णऽइ॑षव: । अ॒ब॒लऽध॑न्वन: । ह॒त॒ । उ॒ग्रऽआ॑युधा: । अ॒ब॒लान् । उ॒ग्रऽबा॑हव: ॥१९.७॥
Mantra 8
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते। जया॒मित्रा॒न्प्र प॑द्यस्व ज॒ह्ये॑षां॒ वरं॑वरं॒ मामीषां॑ मोचि॒ कश्च॒न ॥
अव॑ऽसृष्टा । परा॑ । प॒त॒ । शर॑व्ये । ब्रह्म॑ऽसंशिते । जय॑ । अ॒मित्रा॑न् । प्र । प॒द्य॒स्व॒ । ज॒हि । ए॒षा॒म् । वर॑म्ऽवरम् । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥१९.८॥