Available Bhashyas

Bhashyas

Choose the bhashyas to show on this mantra page.

Atharvaveda - Mantra 5

Atharvaveda 3/19/5

31 Sukta
8 Mantra
3/19/5
Devata- विश्वेदेवाः, चन्द्रमाः, इन्द्रः Rishi- वसिष्ठः Chhanda- त्रिष्टुप् Suktam- अजरक्षत्र
Mantra with Swara
ए॒षाम॒हमायु॑धा॒ सं स्या॑म्ये॒षां रा॒ष्ट्रं सु॒वीरं॑ वर्धयामि। ए॒षां क्ष॒त्रम॒जर॑मस्तु जि॒ष्ण्वे॒षां चि॒त्तं विश्वे॑ऽवन्तु दे॒वाः ॥

ए॒षाम् । अ॒हम् । आयु॑धा । सम् । स्या॒मि॒। ए॒षाम् । रा॒ष्ट्रम् । सु॒ऽवीर॑म् । व॒र्ध॒या॒मि॒ । ए॒षाम् । क्ष॒त्रम् । अ॒जर॑म् । अ॒स्तु॒ । जि॒ष्णु । ए॒षाम् । चि॒त्तम् । विश्वे॑ । अ॒व॒न्तु॒ । दे॒वा: ॥१९.५॥

Mantra without Swara
एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि। एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥

एषाम् । अहम् । आयुधा । सम् । स्यामि। एषाम् । राष्ट्रम् । सुऽवीरम् । वर्धयामि । एषाम् । क्षत्रम् । अजरम् । अस्तु । जिष्णु । एषाम् । चित्तम् । विश्वे । अवन्तु । देवा: ॥१९.५॥

Meaning
१. (एषाम्) = इनके आयुधा आयुधों को (अहम्) = मैं (संस्यामि) = तीक्ष्ण बनाता हूँ। (एषाम्) = इनके (राष्ट्रम्)- राष्ट्र को (सुवीरम्) = उत्तम वीरोंवाला बनाता हुआ (वर्धयामि) = बढ़ाता हूँ। वस्तुतः पुरोहित को ही राष्ट्र में वीरता का सञ्चार करना होता है। २. (ऐषाम्) = इनका (क्षत्रम्) = राष्ट्र को क्षतों से बचानेवाला बल (अजरम् अस्तु) = कभी जीर्ण होनेवाला न हो। इनका यह बल (जिष्णु) = सदा विजयशील हो। (विश्वेदेवाः) = राष्ट्र के सब (विद्वान् एषां चित्तम् अवन्तु) = इनके चित्त का रक्षण करें-इनके चित्तों में उत्साह की कमी न आने दें।
Essence
पुरोहित का कर्तव्य है कि राष्ट्ररक्षक वीर क्षत्रियों में विद्वानों के द्वारा सदा उत्साह का सञ्चार कराता रहे।
Subject
राष्ट्र के वीरों में उत्साह का सञ्चार

We are thankful to https://vedicscriptures.in for providing us a substantial amount of data for this section of the Vedas.