Mantra 1
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क्। धीरा॑ दे॒वेषु॑ सुम्न॒यौ ॥
सीरा॑ । यु॒ञ्ज॒न्ति॒ । क॒वय॑: । यु॒गा । वि । त॒न्व॒ते॒ । पृथ॑क् । धीरा॑: । दे॒वेषु॑ । सु॒म्न॒ऽयौ ॥१७.१॥
Mantra 2
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्। वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमा य॑वन् ॥
यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नो॒त॒ । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् । वि॒ऽराज॑: । श्नुष्टि॑: । सऽभ॑रा: । अ॒स॒त् । न॒: । नेदी॑य: । इत् । सृ॒ण्य᳡: । प॒क्वम् । आ । य॒व॒न् ॥१७.२॥
Mantra 3
लाङ्ग॑लं पवी॒रव॑त्सु॒शीमं॑ सोम॒सत्स॑रु। उदिद्व॑पतु॒ गामविं॑ प्र॒स्थाव॑द्रथ॒वाह॑नं॒ पीब॑रीं च प्रफ॒र्व्य॑म् ॥
लाङ्ग॑लम् । प॒वी॒रऽव॑त् । सु॒ऽशीम॑म् । सो॒म॒सत्ऽस॑रु । उत् । इत् । व॒प॒तु॒ । गाम् । अवि॑म् । प्र॒स्थाऽव॑त् । र॒थ॒ऽवाह॑नम् । पीब॑रीम् । च॒ । प्र॒ऽफ॒र्व्य᳡म् ॥१७.३॥
Mantra 4
इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षाभि र॑क्षतु। सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥
इन्द्र॑: । सीता॑म् । नि । गृ॒ह्णा॒तु॒ । ताम् । पू॒षा । अ॒भि । र॒क्ष॒तु॒ । सा । न॒: । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥१७.४॥
Mantra 5
शु॒नं सु॑फा॒ला वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॒ अनु॑ यन्तु वा॒हान्। शुना॑सीरा ह॒विषा॒ तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तम॒स्मै ॥
शु॒नम् । सु॒ऽफा॒ला: । वि । तु॒द॒न्तु॒ । भूमि॑म् । शु॒नम् । की॒नाशा॑: । अनु॑ । य॒न्तु॒ । वा॒हान् । शुना॑सीरा । ह॒विषा॑ । तोश॑माना । सु॒ऽपि॒प्प॒ला: । ओष॑धी: । क॒र्त॒म् । अ॒स्मै ॥१७.५॥
Mantra 6
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥
शु॒नम् । वा॒हा: । शु॒नम् । नर॑: । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् । शु॒नम् । व॒र॒त्रा: । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥१७.६॥
Mantra 7
शुना॑सीरे॒ह स्म॑ मे जुषेथाम्। यद्दि॒वि च॒क्रथुः॒ पय॒स्तेनेमामुप॑ सिञ्चतम् ॥
शुना॑सीरा । इ॒ह । स्म॒ । मे॒ । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथु॑: । पय॑: । तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥१७.७॥
Mantra 8
सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव। यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुफ॒ला भुवः॑ ॥
सीते॑ । वन्दा॑महे । त्वा॒ । अर्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । यथा॑ । न॒: । सु॒ऽमना॑: । अस॑: । यथा॑ । न॒: । सु॒ऽफ॒ला । भुव॑: ॥१७.८॥
Mantra 9
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भिः॑। सा नः॑ सीते॒ पय॑सा॒भ्याव॑वृ॒त्स्वोर्ज॑स्वती घृ॒तव॒त्पिन्व॑माना ॥
घृतेन॑ । सीता॑ । मधु॑ना । सम्ऽअ॑क्ता । विश्वै॑: । दे॒वै: । अनु॑ऽमता । म॒रुत्ऽभि॑: । सा । न॒: । सी॒ते॒ । पय॑सा । अ॒भि॒ऽआव॑वृत्स्व । ऊर्ज॑स्वती । घृ॒तऽव॑त् । पिन्व॑माना ॥१७.९॥