Mantra 1
इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु। नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ॥
इन्द्र॑म् । अ॒हम् । व॒णिज॑म् । चो॒द॒या॒मि॒ । स: । न॒: । आ । ए॒तु॒ । पु॒र॒:ऽए॒ता । न॒: । अ॒स्तु॒ । नु॒दन् । अरा॑तिम् । प॒रि॒ऽप॒न्थिन॑म् । मृ॒गम् । स: । ई॒शा॑न: । ध॒न॒ऽदा: । अ॒स्तु॒ । मह्य॑म् ॥१५.१॥
Mantra 2
ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति। ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ॥
ये । पन्था॑न: । ब॒हव॑:। दे॒व॒ऽयाना॑: । अ॒न्त॒रा । द्यावा॑पृथि॒वी इति॑ । स॒म्ऽचर॑न्ति । ते । मा॒ । जु॒ष॒न्ता॒म् । पय॑सा । घृ॒तेन॑ । यथा॑ । क्री॒त्वा । धन॑म् । आ॒ऽहरा॑णि ॥१५.२॥
Mantra 3
इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य। याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीम् ॥
इ॒ध्मेन॑ । अ॒ग्ने॒ । इ॒च्छमा॑न: । घृ॒तेन॑ । जु॒होमि॑ । ह॒व्यम् । तर॑से । बला॑य । याव॑त् । ईशे॑ । ब्रह्म॑णा । वन्द॑मान: । इ॒माम् । धिय॑म् । श॒त॒ऽसेया॑य । दे॒वीम् ॥१५.३॥
Mantra 4
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः फ॒लिनं॑ मा कृणोतु। इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥
इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒ष॒: । न॒: । यम् । अध्वा॑नम् । अगा॑म । दू॒रम् । शु॒नम् । न॒: । अ॒स्तु॒ । प्र॒ऽप॒ण: । वि॒ऽक्रय । च॒ । प्र॒ति॒ऽप॒ण: । फ॒लिन॑म् । मा॒ । कृ॒णो॒तु॒ । इ॒दम् । ह॒व्यम् । स॒म्ऽवि॒दा॒नौ । जु॒षे॒था॒म् । शु॒नम् । न॒: । अ॒स्तु॒ । च॒रि॒तम् । उत्थि॑तम् । च॒ ॥१५.४॥
Mantra 5
येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः। तन्मे॒ भूयो॑ भवतु॒ मा कनी॒योऽग्ने॑ सात॒घ्नो दे॒वान्ह॒विषा॒ नि षे॑ध ॥
येन॑ । धने॑न । प्र॒ऽप॒णम् । चरा॑मि । धने॑न । दे॒वा॒: । धन॑म् । इ॒च्छमा॑न: । तत् । मे॒ । भूय॑: । भ॒व॒तु॒ । मा । कनी॑य: । अग्ने॑ । सा॒त॒ऽघ्न: । दे॒वान् । ह॒विषा॑ । नि । से॒ध॒ । १५.५॥
Mantra 6
येन॒ धने॑न प्रप॒णं चरा॑मि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः। तस्मि॑न्म॒ इन्द्रो॒ रुचि॒मा द॑धातु प्र॒जाप॑तिः सवि॒ता सोमो॑ अ॒ग्निः ॥
येन॑ । धने॑न । प्र॒ऽप॒णम् । चरा॑मि । धने॑न । दे॒वा॒: । धन॑म् । इ॒च्छमा॑न: । तस्मि॑न् । मे॒ । इन्द्र॑: । रुचि॑म् । आ । द॒धा॒तु॒ । प्र॒जाऽप॑ति: । स॒वि॒ता । सोम॑:। अ॒ग्नि: ॥१५.६॥
Mantra 7
उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः। स नः॑ प्र॒जास्वा॒त्मसु॒ गोषु॑ प्रा॒णेषु॑ जागृहि ॥
उप॑ । त्वा॒ । नम॑सा । व॒यम् । होत॑: । वै॒श्वा॒न॒र । स्तु॒म: । स: । न॒: । प्र॒ऽजासु॑ । आ॒त्मऽसु॑ । गोषु॑ । प्रा॒णेषु॑ । जा॒गृ॒हि॒ ॥१५.७॥
Mantra 8
वि॒श्वाहा॑ ते॒ सद॒मिद्भ॑रे॒माश्वा॑येव॒ तिष्ठ॑ते जातवेदः। रा॒यस्पोषे॑ण॒ समि॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रिषाम ॥
वि॒श्वाहा॑ । ते॒ । सद॑म् । इत् । भ॒रे॒म॒ । अश्वा॑यऽइव । तिष्ठ॑ते । जा॒त॒ऽवे॒द॒: । रा॒य: । पोषे॑ण । सम् । इ॒षा । मद॑न्त: । मा । ते॒ । अ॒ग्ने॒ । प्रति॑ऽवेशा: । रि॒षा॒म॒ ॥१५.८॥