Mantra with Swara
एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥
एक॑: । व॒: । दे॒व: । अपि॑ । अ॒ति॒ष्ठ॒त् । स्यन्द॑माना: । य॒था॒ऽव॒शम् । उत् । आ॒नि॒षु॒: । म॒ही: । इति॑ । तस्मा॑त् । उ॒द॒कम्: । उ॒च्य॒ते॒ ॥१३.४॥
Mantra without Swara
एको वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम्। उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥
एक: । व: । देव: । अपि । अतिष्ठत् । स्यन्दमाना: । यथाऽवशम् । उत् । आनिषु: । मही: । इति । तस्मात् । उदकम्: । उच्यते ॥१३.४॥
