Mantra 1
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा॑जय॒क्ष्मात्। ग्राहि॑र्ज॒ग्राह॒ यद्ये॒तदे॑नं॒ तस्या॑ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ॥
मु॒ञ्चामि॑ । त्वा॒ । ह॒विषा॑ । जीव॑नाय । कम् । अ॒ज्ञा॒त॒ऽय॒क्ष्मात् । उ॒त । रा॒ज॒ऽय॒क्ष्मात् । ग्राहि॑: । ज॒ग्राह॑ । यदि॑ । ए॒तत् । ए॒न॒म् । तस्या॑: । इ॒न्द्रा॒ग्नी॒ इति॑ । प्र । मु॒मु॒क्त॒म् । ए॒न॒म् ॥११.१॥
Mantra 2
यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नी॑त ए॒व। तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्षमेनं श॒तशा॑रदाय ॥
यदि॑ । क्षि॒तऽआ॑यु: । यदि॑ । वा॒ । परा॑ऽइत: । यदि॑ । मृ॒त्यो: । अ॒न्ति॒कम् । निऽइ॑त: । ए॒व । तम् । आ । ह॒रा॒मि॒ । नि:ऽऋ॑ते: । उ॒पस्था॑त् । अस्पा॑र्शम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥११.२॥
Mantra 3
स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्। इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥
स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽवी॑र्येण । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् । इन्द्र॑: । यथा॑ । ए॒न॒म् । श॒रद॑: । नया॑ति । अति॑ । विश्व॑स्य । दु॒:ऽइ॒तस्य॑ । पा॒रम् ॥११.३॥
Mantra 4
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥
श॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।श॒तम् । ते॒ । इन्द्र॑: । अ॒ग्नि: । स॒वि॒ता । बृह॒स्पति॑: । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥११.४॥
Mantra 5
प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्। व्य॒१॒॑न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
प्र । वि॒श॒त॒म् । प्रा॒णा॒पा॒नौ॒ । अ॒न॒ड्वाहौ॑ऽइव । व्र॒जम् । वि । अ॒न्ये । य॒न्तु॒ । मृ॒त्यव॑: । यान् । आ॒हु: । इत॑रान् । श॒तम् ॥११.५॥
Mantra 6
इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्। शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥
इ॒ह । ए॒व । स्त॒म् । प्रा॒णा॒पा॒नौ॒ । मा । अप॑ । गा॒त॒म् । इ॒त: । यु॒वम् । शरी॑रम् । अ॒स्य॒ । अङ्गा॑नि । ज॒रसे॑ । व॒ह॒त॒म् । पुन॑: ॥११.६॥
Mantra 7
ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा। ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॒१॒॑न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
ज॒रायै॑ । त्वा॒ । परि॑ । द॒दा॒मि॒ । ज॒रायै॑ । नि । धु॒वा॒मि॒ । त्वा॒ । ज॒रा । त्वा॒ । भ॒द्रा । ने॒ष्ट॒ । वि । अ॒न्ये । य॒न्तु॒ । मृ॒त्यव॑: । यान् । आ॒हु: । इत॑रान् । श॒तम् ॥११.७॥
Mantra 8
अ॒भि त्वा॑ जरि॒माहि॑त॒ गामु॒क्षण॑मिव॒ रज्ज्वा॑। यस्त्वा॑ मृ॒त्युर॒भ्यध॑त्त॒ जाय॑मानं सुपा॒शया॑। तं ते॑ स॒त्यस्य॒ हस्ता॑भ्या॒मुद॑मुञ्च॒द्बृह॒स्पतिः॑ ॥
अ॒भि । त्वा॒ । ज॒रि॒मा । अ॒हि॒त । गाम् । उ॒क्षण॑म्ऽइव । रज्ज्वा॑ । य: । त्वा॒ । मृ॒त्यु: । अ॒भि॒ऽअध॑त्त । जाय॑मानम् । सु॒ऽपा॒शया॑ । तम् । ते॒ । स॒त्यस्य॑ । हस्ता॑भ्याम् । उत् । अ॒मु॒ञ्च॒त् । बृह॒स्पति॑: ॥११.८॥