Mantra with Swara
प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्। ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क्स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम् ॥
प्रऽसू॑त: । इन्द्र: । प्र॒ऽवता॑ । हरि॑ऽभ्याम् । प्र । ते॒ । वज्र॑: । प्र॒ऽमृ॒णन् । ए॒तु॒ । शत्रू॑न् ।ज॒हि । प्र॒तीच॑: । अ॒नूच॑: । परा॑च: । विष्व॑क् । स॒त्यम् । कृ॒णु॒हि॒ । चि॒त्तम् । ए॒षा॒म्॥१.४॥
Mantra without Swara
प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून्। जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥
प्रऽसूत: । इन्द्र: । प्रऽवता । हरिऽभ्याम् । प्र । ते । वज्र: । प्रऽमृणन् । एतु । शत्रून् ।जहि । प्रतीच: । अनूच: । पराच: । विष्वक् । सत्यम् । कृणुहि । चित्तम् । एषाम्॥१.४॥
