Mantra with Swara
असि॒ हि वी॑र॒ सेन्यो॑ऽसि॒ भूरि॑ पराद॒दिः। असि॑ द॒भ्रस्य॑ चिद्वृ॒धो य॑जमानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥
असि॑ । हि । वी॒र॒: । सेन्य॑: । असि॑ । भूरि॑ । प॒रा॒ऽद॒दि: ॥ असि॑ । द॒भ्रस्य॑ । चि॒त् । वृ॒ध: । यज॑मानाय । शि॒क्ष॒सि॒ । सुन्व॒ते । भूरि॑ । ते॒ । वसु॑ ॥५६.२॥
Mantra without Swara
असि हि वीर सेन्योऽसि भूरि पराददिः। असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥
असि । हि । वीर: । सेन्य: । असि । भूरि । पराऽददि: ॥ असि । दभ्रस्य । चित् । वृध: । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥५६.२॥
