Mantra with Swara
ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑। सु॑दी॒तयो॑ वो अ॒द्रुहो॑ऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥
ने॒मिम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒षम् । विप्रा॑: । अ॒भि॒ऽस्वरा॑ ॥ सु॒ऽदी॒तय॑:। व॒: । अ॒द्रुह॑: । अपि॑ । कर्णे॑ । त॒र॒स्विन॑: । सम् । ऋक्व॑ऽभि: ॥५४.३॥
Mantra without Swara
नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा। सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥
नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्रा: । अभिऽस्वरा ॥ सुऽदीतय:। व: । अद्रुह: । अपि । कर्णे । तरस्विन: । सम् । ऋक्वऽभि: ॥५४.३॥
