Mantra 1
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत्। यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥
य:। जा॒त: । ए॒व । प्र॒थ॒म: । मन॑स्वान् । दे॒व: । दे॒वान् । क्रतु॑ना । प॒रि॒ऽअभू॑षत् ॥ यस्य॑ । शुष्मा॑त् । रोद॑सी॒ इति॑ । अभ्य॑सेताम् । नृ॒म्णस्य॑ । म॒ह्ना । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१॥
Mantra 2
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात्। यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्या॒मस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥
य: । पृ॒थि॒वीम् । व्यथ॑मानाम् । अदृं॑हत् । य: । पर्व॑तान् । प्र । कु॑पितान् । अर॑म्णात् ॥ य: । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑य: । य: । द्याम् । अस्त॑भ्नात् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.२॥
Mantra 3
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑। यो अश्म॑नोर॒न्तर॒ग्निं ज॑जान सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥
य: । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । य: । गा: । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ ॥ य: । अश्म॑नो: । अ॒न्त: । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.३॥
Mantra 4
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑। श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥
येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । य: । दास॑म् । वर्ण॑म् । अध॑रम् । गुहा॑ । अक॒रित्यक॑: ॥ श्व॒घ्नीऽइ॑व । य: । जि॒गी॒वान् । ल॒क्षम् । आद॑त् । अ॒र्य: । पु॒ष्टानि॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.४॥
Mantra 5
यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम्। सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥
यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । स: । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हु॒: । न । ए॒ष: । अ॒स्ति॒ । इति॑ । ए॒न॒म् ॥ स: । अ॒र्य: । पु॒ष्टी: । विज॑:ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.५॥
Mantra 6
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः। यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥
य: । र॒ध्रस्य॑ । चो॒दि॒ता: । य: । कृ॒शस्य॑ । य: । ब्र॒ह्मण॑: । नाध॑मानस्य । की॒रे: ॥ यु॒क्तऽग्रा॑व्ण: । य: । अ॒वि॒ता । सु॒शि॒प्र: । सु॒तऽसो॑मस्य । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.६॥
Mantra 7
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः। यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥
यस्य॑ । अश्वा॑स: । प्र॒ऽदिशि॑ । यस्य॑ । गाव॑: । यस्य॑ । ग्रामा॑: । यस्य॑ । विश्वे॑ । रथा॑स: ॥ य: । सूर्य॑म् । य: । उ॒षस॑म् । ज॒जान॑ । य:। अ॒पाम् । ने॒ता । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३३.७॥
Mantra 8
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑। स॑मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥
यम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ । वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भया॑: । अ॒मित्रा॑: ॥ स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.८॥
Mantra 9
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते। यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ॥
यस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑स: । यम् । युध्य॑माना: । अव॑से । हव॑न्ते ॥ य: । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । य: । अ॒च्यु॒त॒ऽच्युत् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.९॥
Mantra 10
यः शश्व॑तो॒ मह्ये॑नो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑। यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥
य: । शश्व॑त: । महि॑ । एन॑: । दधा॑नात् । अम॑न्यमानान् । शुर्वा॑ । ज॒घान॑ ॥ य: । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शृ॒ध्याम् । य: । दस्यो॑: । ह॒न्ता । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१०॥
Mantra 11
यः श्म्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत्। ओ॑जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ॥
य: । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ । अ॒नु॒ऽअवि॑न्दत् ॥ ओ॒जा॒यमा॑नम् । य: । अहि॑म् । ज॒घान॑ । दानु॑म् । शया॑नम् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.११॥
Mantra 12
यः श॑म्ब॑रं प॒र्यत॑र॒त्कसी॑भि॒र्योऽचा॑रुका॒स्नापि॑बत्सु॒तस्य॑। अ॒न्तर्गि॒रौ यज॑मानं ब॒हुं जनं॒ यस्मि॒न्नामू॑र्छ॒त्स ज॑नास॒ इन्द्रः॑ ॥
य: । शम्ब॑रम् । परि॑ । अत॑र॒त् । क॑सीभि॒: । य: । अचा॑रु । का॒स्ना । अपि॑बत् । सु॒तस्य॑ ॥ अ॒न्त: । गि॒रौ । यज॑मानम् । ब॒हुम् । जन॒म् । यस्मि॑न् । आमू॑र्च्छ॒त् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१२॥
Mantra 13
यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न्। यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्रः॑ ॥
य: । स॒प्तऽर॑श्मि: । वृ॒ष॒भ: । तुवि॑ष्मान् । अ॒व॒ऽअसृ॑जत् । सर्त॑वे । स॒प्त । सिन्धू॑न् ॥ य: । रौ॒हि॒णम् । अस्फु॑रत् । वज्र॑बाहु: । द्याम् । आ॒ऽरोह॑न्तम् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१३॥
Mantra 14
द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते। यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ॥
द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ता: । भ॒य॒न्ते॒ । य: । सो॒म॒ऽपा: । नि॒ऽचि॒त: । वज्र॑बाहु: । य: । वज्र॑ऽहस्त: । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१४॥
Mantra 15
यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती। यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥
य: । सु॒न्वन्त॑म् । अव॑ति । य: । पच॑न्तम् । य: । शंस॑न्तम् । य: । श॒श॒मा॒नम् । ऊ॒ती ॥ यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोम॑: । यस्य॑ । इ॒दम् । राध॑: । स: । ज॒ना॒स॒: । इन्द्र॑:॥३४.१५॥
Mantra 16
जा॒तो व्यख्यत्पि॒त्रोरु॒पस्थे॒ भुवो॒ न वे॑द जनि॒तुः पर॑स्य। स्त॑वि॒ष्यमा॑णो॒ नो यो अ॒स्मद्व्र॒ता दे॒वानां॒ स ज॑नास॒ इन्द्रः॑ ॥
जा॒त: । वि । अ॒ख्य॒त् । पि॒त्रो: । उ॒पस्थे॑ । भु॒व॒: । न । वे॒द॒ । जनि॒तु: । परस्य॑ ॥ स्त॒वि॒ष्यमा॑ण: । नो इति॑ । य: । अ॒स्मत् । व्र॒ता । दे॒वाना॑म् । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१६॥
Mantra 17
यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द्रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑। यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ॥
य: । सोम॑ऽकाम॒: । हरि॑ऽअश्व: । सू॒रि: । यस्मा॑त् । रेज॑न्ते । भुव॑नानि । विश्वा॑ ॥ य: । ज॒घान॑ । शम्ब॑रम् । य: । च॒ । शुष्ण॑म् । य: । ए॒क॒ऽवी॒र: । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१७॥
Mantra 18
यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः। व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
य: । सु॒न्व॒ते । पच॑ते । दु॒ध्र: । आ । चि॒त् । वाज॑म् । दर्द॑र्षि । स: । किल॑ । अ॒सि॒ । स॒त्य: ॥ व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यास॑: । सु॒ऽवीरा॑स: । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥३४.१८॥