Mantra with Swara
ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे। एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिन्छू॑र॒ सव॑ने मादयस्व ॥
ते । त्वा॒ । मदा॑: । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे ॥ एक॑: । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥१२.५॥
Mantra without Swara
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे। एको देवत्रा दयसे हि मर्तानस्मिन्छूर सवने मादयस्व ॥
ते । त्वा । मदा: । इन्द्र । मादयन्तु । शुष्मिणम् । तुविऽराधसम् । जरित्रे ॥ एक: । देवऽत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥१२.५॥
