Mantra with Swara
अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गन्। श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ॥
अधि॑ऽइती: । अधि॑ । अ॒गा॒त् । अ॒यम् । अधि॑ । जी॒व॒ऽपु॒रा: । अ॒ग॒त् । श॒तम् । हि । अ॒स्य॒ । भि॒षज॑: । स॒हस्र॑म् । उ॒त । वी॒रुध॑: ॥९.३॥
Mantra without Swara
अधीतीरध्यगादयमधि जीवपुरा अगन्। शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥
अधिऽइती: । अधि । अगात् । अयम् । अधि । जीवऽपुरा: । अगत् । शतम् । हि । अस्य । भिषज: । सहस्रम् । उत । वीरुध: ॥९.३॥
