Mantra with Swara
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः। वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥
ये । ग्रा॒म्या: । प॒शव॑: । वि॒श्वऽरू॑पा: । विऽरू॑पा: । सन्त॑: । ब॒हु॒ऽधा । एक॑ऽरूपा: । वा॒यु: । तान् । अग्रे॑ । प्र । मु॒मो॒क्तु॒ । दे॒व: । प्र॒जाऽप॑ति: । प्र॒ऽजया॑ । स॒म्ऽर॒रा॒ण: ॥३४.४॥
Mantra without Swara
ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः। वायुष्टानग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥
ये । ग्राम्या: । पशव: । विश्वऽरूपा: । विऽरूपा: । सन्त: । बहुऽधा । एकऽरूपा: । वायु: । तान् । अग्रे । प्र । मुमोक्तु । देव: । प्रजाऽपति: । प्रऽजया । सम्ऽरराण: ॥३४.४॥
