Mantra with Swara
अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि। यक्ष्मं॑ त्वच॒स्यं॑ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥
अङ्गे॑ऽअङ्गे । लोम्नि॑ऽलोम्नि । य: । ते॒ । पर्व॑णिऽपर्वणि । यक्ष्म॑म् । त्व॒च॒स्य᳡म् । ते॒ । व॒यम् । क॒श्यप॑स्य । वि॒ऽब॒र्हेण॑ । विष्व॑ञ्चम् । वि । वृ॒हा॒म॒सि॒ ॥३३.७॥
Mantra without Swara
अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि। यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥
अङ्गेऽअङ्गे । लोम्निऽलोम्नि । य: । ते । पर्वणिऽपर्वणि । यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥३३.७॥
