Mantra with Swara
ये क्रिम॑यः॒ पर्व॑तेषु॒ वने॒ष्वोष॑धीषु प॒शुष्व॒प्स्व॑१न्तः। ये अ॒स्माकं॑ त॒न्व॑माविवि॒शुः सर्वं॒ तद्ध॑न्मि॒ जनि॑म॒ क्रिमी॑णाम् ॥
ये क्रिम॑य: । पर्व॑तेषु । वने॑षु । ओष॑धीषु । प॒शुषु॑ । अ॒प्ऽसु । अ॒न्त: । ये । अ॒स्माक॑म् । त॒न्व᳡म् । आ॒ऽवि॒वि॒शु: । सर्व॑म् । तत् । ह॒न्मि॒ । जनि॑म । क्रिमी॑णाम् ॥३१.५॥
Mantra without Swara
ये क्रिमयः पर्वतेषु वनेष्वोषधीषु पशुष्वप्स्व१न्तः। ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥
ये क्रिमय: । पर्वतेषु । वनेषु । ओषधीषु । पशुषु । अप्ऽसु । अन्त: । ये । अस्माकम् । तन्वम् । आऽविविशु: । सर्वम् । तत् । हन्मि । जनिम । क्रिमीणाम् ॥३१.५॥
