Mantra with Swara
इन्द्र॑ ए॒तां स॑सृजे वि॒द्धो अग्र॑ ऊ॒र्जां स्व॒धाम॒जरां॒ सा त॑ ए॒षा। तया॒ त्वं जी॑व श॒रदः॑ सु॒वर्चा॒ मा त॒ आ सु॒स्रोद्भि॒षज॑स्ते अक्रन् ॥
इन्द्र॑: । ए॒ताम् । स॒सृ॒जे॒ । वि॒ध्द: । अग्रे॑ । ऊ॒र्जाम् । स्व॒धाम् । अ॒जरा॑म् । सा । ते॒ । ए॒षा । तया॑ । त्वम् । जी॒व॒ । श॒रद॑: । सु॒ऽवर्चा॑: । मा । ते॒ । आ । सु॒स्रो॒त् । भि॒षज॑: । ते॒ । अ॒क्र॒न् ॥२९.७॥
Mantra without Swara
इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा। तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥
इन्द्र: । एताम् । ससृजे । विध्द: । अग्रे । ऊर्जाम् । स्वधाम् । अजराम् । सा । ते । एषा । तया । त्वम् । जीव । शरद: । सुऽवर्चा: । मा । ते । आ । सुस्रोत् । भिषज: । ते । अक्रन् ॥२९.७॥
