Mantra with Swara
शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑। स॑वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥
शि॒वाभि॑: । ते॒ । हृद॑यम् । त॒र्प॒या॒मि॒ । अ॒न॒मी॒व: । मो॒दि॒षी॒ष्ठा॒: । सु॒ऽवर्चा॑: । स॒ऽवा॒सिनौ॑ । पि॒ब॒ता॒म् । म॒न्थम् । ए॒तम् । अ॒श्विनो॑: । रू॒पम् । प॒रि॒ऽधाय॑ । मा॒याम् ॥२९.६॥
Mantra without Swara
शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः। सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥
शिवाभि: । ते । हृदयम् । तर्पयामि । अनमीव: । मोदिषीष्ठा: । सुऽवर्चा: । सऽवासिनौ । पिबताम् । मन्थम् । एतम् । अश्विनो: । रूपम् । परिऽधाय । मायाम् ॥२९.६॥
