Mantra with Swara
ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्। ऊर्ज॑म॒स्मै द्याव॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥
ऊर्ज॑म् । अ॒स्मै॒ । ऊ॒र्ज॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । पय॑: । अ॒स्मै॒ । प॒य॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । ऊर्ज॑म् । अ॒स्मै । द्यावा॑पृथि॒वी इति॑ । अ॒धा॒ता॒म् । विश्वे॑ । दे॒वा: । म॒रुत॑: । ऊर्ज॑म् । आप॑: ॥२९.५॥
Mantra without Swara
ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम्। ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥
ऊर्जम् । अस्मै । ऊर्जस्वती इति । धत्तम् । पय: । अस्मै । पयस्वती इति । धत्तम् । ऊर्जम् । अस्मै । द्यावापृथिवी इति । अधाताम् । विश्वे । देवा: । मरुत: । ऊर्जम् । आप: ॥२९.५॥
