Mantra with Swara
अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑। तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ॥
अ॒सौ । य: । अ॒ध॒रात् । गृ॒ह: । तत्र॑ । स॒न्तु॒ । अ॒रा॒य्य᳡: । तत्र॑ । से॒दि: । नि । उ॒च्य॒तु॒ । सर्वा॑: । च॒ । या॒तु॒ऽधा॒न्य᳡: ॥१४.३॥
Mantra without Swara
असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः। तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥
असौ । य: । अधरात् । गृह: । तत्र । सन्तु । अराय्य: । तत्र । सेदि: । नि । उच्यतु । सर्वा: । च । यातुऽधान्य: ॥१४.३॥
