Mantra 1
द्यावा॑पृथि॒वी उ॒र्व॑१न्तरि॑क्षं॒ क्षेत्र॑स्य॒ पत्न्यु॑रुगा॒योऽद्भु॑तः। उ॑ता॒न्तरि॑क्षमु॒रु वात॑गोपं॒ त इ॒ह त॑प्यन्तां॒ मयि॑ त॒प्यमा॑ने ॥
द्यावा॑पृथि॒वी इति॑ । उ॒रु । अ॒न्तरि॑क्षम् । क्षेत्र॑स्य । पत्नी॑ । उ॒रु॒ऽगा॒य: । अद्भु॑त: । उ॒त । अ॒न्तरि॑क्षम् । उ॒रु । वात॑ऽगोपम् । ते । इ॒ह । त॒प्य॒न्ता॒म् । मयि॑ । त॒प्यमा॑ने ॥१२.१॥
Mantra 2
इ॒दं दे॑वाः शृणुत॒ ये य॒ज्ञिया॒ स्थ भ॒रद्वा॑जो॒ मह्य॑मु॒क्थानि॑ शंसति। पाशे॒ स ब॒द्धो दु॑रि॒ते नि यु॑ज्यतां॒ यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥
इ॒दम् । दे॒वा॒: । शृ॒णु॒त॒ । ये । य॒ज्ञिया॑: । स्थ । भ॑रत्-वा॑ज: । मह्य॑म् । उ॒क्थानि॑ ।शं॒स॒ति॒ । पाशे॑ । स: । ब॒ध्द: । दु॒:ऽइ॒ते । नि । यु॒ज्य॒ता॒म् । य: । अ॒स्माक॑म् । मन॑: । इ॒दम् । हि॒नस्ति॑ ॥१२.२॥
Mantra 3
इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि। वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥
इ॒दम् । इ॒न्द्र॒ । शृ॒णु॒हि॒ । सो॒म॒ऽप॒ । यत् । त्वा॒ । हृ॒दा । शोच॑ता । जोह॑वीमि । वृ॒श्चामि॑ । तम् । कुलि॑शेनऽइव । वृ॒क्षम् । य: । अ॒स्माक॑म् । मन॑: । इ॒दम् । हि॒नस्ति॑ ॥१२.३॥
Mantra 4
अ॑शी॒तिभि॑स्ति॒सृभिः॑ साम॒गेभि॑रादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः। इ॑ष्टापू॒र्तम॑वतु नः पितॄ॒णामामुं द॑दे॒ हर॑सा॒ दैव्ये॑न ॥
अ॒शी॒तिऽभि॑: । ति॒सृभि॑: । सा॒म॒ऽगेभि॑: । आ॒दि॒त्येभि॑: । वसु॑ऽभि: । अङ्गि॑र:ऽभि: । इ॒ष्टा॒पू॒र्तम् । अ॒व॒तु॒ । न॒: । पि॒तृ॒णाम् । आ । अ॒मुम् । द॒दे॒ । हर॑सा । दैव्ये॑न ॥१२.४॥
Mantra 5
द्यावा॑पृथिवी॒ अनु॒ मा दी॑धीथां॒ विश्वे॑ देवासो॒ अनु॒ मा र॑भध्वम्। अङ्गि॑रसः॒ पित॑रः॒ सोम्या॑सः पा॒पमार्छ॑त्वपका॒मस्य॑ क॒र्ता ॥
द्यावा॑पृथिवी॒ इति॑ । अनु॑ । मा॒ । आ । दी॒धी॒था॒म् । विश्वे॑ । दे॒वा॒स॒: । अनु॑ । मा॒ । आ । र॒भ॒ध्व॒म् । अङ्गि॑रस: । पित॑र: । सोम्या॑स: । पा॒पम् । आ । ऋ॒च्छ॒तु॒ । अ॒प॒ऽका॒मस्य॑ । क॒र्ता ॥१२.५॥
Mantra 6
अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत्क्रि॒यमा॑णम्। तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति ॥
अति॑ऽइव । य: । म॒रु॒त॒: । मन्य॑ते । न॒: । ब्रह्म॑ । वा॒ । य: । निन्दि॑षत् । क्रि॒यमा॑णम् । तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । द्यौ : । अ॒भि॒ऽसंत॑पाति ॥१२.६॥
Mantra 7
स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा। अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥
स॒प्त । प्रा॒णान् । अ॒ष्टौ । म॒न्य: । तान् । ते॒ । वृ॒श्चा॒मि॒ । ब्रह्म॑णा । अया॑: । य॒मस्य॑ । सद॑नम् । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥१२.७॥
Mantra 8
आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि। अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गच्छतु ॥
आ । द॒धा॒मि॒ । ते॒ । प॒दम् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । अ॒ग्नि: । शरी॑रम् । वे॒वे॒ष्टु॒ । असु॑म् । वाक् । अपि॑ । ग॒च्छ॒तु॒ ॥१२.८॥