Mantra 1
आ रो॑हत॒जनि॑त्रीं जातवेदसः पितृ॒याणैः॒ सं व॒ आ रो॑हयामि। अवा॑ड्ढ॒व्येषि॒तो ह॑व्यवा॒हई॑जा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के ॥
आ । रो॒ह॒त॒ । जनि॑त्रीम् । जा॒तऽवे॑दस: । पि॒तृऽयानै॑: । सम् । व॒: । आ । रो॒ह॒या॒मि॒ । अवा॑ट् । ह॒व्या । इ॒षि॒त: । ह॒व्य॒ऽवाह॑: । ई॒जा॒नम् । यु॒क्ता: । सु॒ऽकृता॑म् । ध॒त्त॒ ।लो॒के ॥४.१॥
Mantra 2
दे॒वाय॒ज्ञमृ॒तवः॑ कल्पयन्ति ह॒विः पु॑रो॒डाशं॑ स्रु॒चो य॑ज्ञायु॒धानि॑।तेभि॒र्याहि॑ प॒थिभि॑र्देव॒यानै॒र्यैरी॑जा॒नाः स्व॒र्गं य॑न्ति लो॒कम् ॥
दे॒वा: । य॒ज्ञम् । ऋ॒तव॑: । क॒ल्प॒य॒न्ति॒ । ह॒वि: । पु॒रो॒डाश॑म् । स्रु॒च: । य॒ज्ञ॒ऽआ॒यु॒धानि॑ । तेभि॑: । या॒हि॒ । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । यै: । ई॒जा॒ना: । स्व॒:ऽगम् । यन्ति॑ । लो॒कम् ॥४.२॥
Mantra 3
ऋ॒तस्य॒पन्था॒मनु॑ पश्य सा॒ध्वङ्गि॑रसः सु॒कृतो॒ येन॒ यन्ति॑। तेभि॒र्याहि॑ प॒थिभिः॑स्व॒र्गं यत्रा॑दि॒त्या मधु॑ भ॒क्षय॑न्ति तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व॥
ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । प॒श्य॒ । सा॒धु । अङ्गि॑रस: । सु॒ऽकृत॑: । येन॑ । यन्ति॑ । तेभि॑: । या॒हि॒ । प॒थिऽभि॑: । स्व॒:ऽगम् । यत्र॑ । आ॒दि॒त्या: । मधु॑ । भ॒क्षय॑न्ति । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒स्व॒ ॥४.३॥
Mantra 4
त्रयः॑ सुप॒र्णाउप॑रस्य मा॒यू नाक॑स्य पृ॒ष्ठे अधि॑ वि॒ष्टपि॑ श्रि॒ताः। स्व॑र्गा लो॒काअ॒मृते॑न वि॒ष्ठा इष॒मूर्जं॒ यज॑मानाय दुह्राम् ॥
त्रय॑: । सु॒ऽप॒र्णा: । उप॑रस्य । मा॒यू इति॑ । नाक॑स्य । पृ॒ष्ठे । अधि॑ । वि॒ष्टपि॑ । श्रि॒ता: । स्व॒:ऽगा: । लो॒का: । अ॒मृते॑न । वि॒ऽस्था: । इष॑म् । ऊर्ज॑म् । यज॑मानाय । दु॒ह्रा॒म् ॥४.४॥
Mantra 5
जु॒हूर्दा॑धार॒द्यामु॑प॒भृद॒न्तरि॑क्षं ध्रु॒वा दा॑धार पृथि॒वीं प्र॑ति॒ष्ठाम्। प्रती॒मांलो॒का घृ॒तपृ॑ष्ठाः स्व॒र्गाः कामं॑कामं॒ यज॑मानाय दुह्राम् ॥
जु॒हू: । दा॒धा॒र॒ । द्याम् । उ॒प॒ऽभृत् । अ॒न्तरि॑क्षम् । ध्रु॒वा । दा॒धा॒र॒ । पृ॒थि॒वीम् । प्र॒ति॒ऽस्थाम् । प्रति॑ । ई॒माम् । लो॒का: । घृ॒तऽपृ॑ष्ठा: । स्व॒:ऽगा: । काम॑म्ऽकामम् । यज॑मानाय । दु॒ह्ना॒म् ॥४.५॥
Mantra 6
ध्रुव॒ आ रो॑हपृथि॒वीं वि॒श्वभो॑जसम॒न्तरि॑क्षमुप॒भृदा क्र॑मस्व। जुहु॒ द्यां ग॑च्छ॒ यज॑मानेनसा॒कं स्रु॒वेण॑ व॒त्सेन॒ दिशः॒ प्रपी॑नाः॒ सर्वा॑ धु॒क्ष्वाहृ॑णीयमानः ॥
ध्रुवे॑ । आ । रो॒ह॒ । पृ॒थि॒वीम् । वि॒श्वऽभो॑जसम् । अ॒न्तरि॑क्षम् । उ॒प॒ऽभृ॒त् । आ । क्र॒म॒स्व॒ । जुहु॑ । द्याम् । ग॒च्छ॒ । यज॑मानेन । सा॒कम् । स्रु॒वेण॑ । व॒त्सेन॑ । दिश॑: । प्रऽपी॑ना: । सर्वा॑: । धु॒क्ष्व॒ । अहृ॑णीयमान: ॥४.६॥
Mantra 7
ती॒र्थैस्त॑रन्तिप्र॒वतो॑ म॒हीरिति॑ यज्ञ॒कृतः॑ सु॒कृतो॒ येन॒ यन्ति॑। अत्रा॑दधु॒र्यज॑मानायलो॒कं दिशो॑ भू॒तानि॒ यदक॑ल्पयन्त ॥
ती॒र्थै: । त॒र॒न्ति॒ । प्र॒ऽवत॑: । म॒ही: । इति॑ । य॒ज्ञ॒ऽकृत॑: । सु॒ऽकृत॑: । येन॑ । यन्ति॑ । अत्र॑ । अ॒द॒धु॒: । यज॑मानाय । लो॒कम् । दिश॑: । भू॒तानि॑ । यत् । अक॑ल्पयन्त ॥४.७॥
Mantra 8
अङ्गि॑रसा॒मय॑नं॒पूर्वो॑ अ॒ग्निरा॑दि॒त्याना॒मय॑नं॒ गार्ह॑पत्यो॒ दक्षि॑णाना॒मय॑नं दक्षिणा॒ग्निः। म॑हि॒मान॑म॒ग्नेर्विहि॑तस्य॒ ब्रह्म॑णा॒ सम॑ङ्गः॒ सर्व॒ उप॑ याहि श॒ग्मः॥
अङ्गि॑रसाम् । अय॑नम् । पूर्व॑: । अ॒ग्नि । आ॒दि॒त्याना॑म् । अय॑नम् । गार्ह॑ऽपत्य । दक्षि॑णानाम् । अय॑नम् । द॒क्षि॒ण॒ऽअ॒ग्नि: । म॒हि॒मान॑म् । अ॒ग्ने: । विऽहि॑तस्य । ब्रह्म॑णा । सम्ऽअ॑ङ्ग: । सर्व॑: । उप॑ । या॒हि॒ । श॒ग्म: ॥४.८॥
Mantra 9
पूर्वो॑अ॒ग्निष्ट्वा॑ तपतु॒ शं पु॒रस्ता॒च्छं प॒श्चात्त॑पतु॒ गार्ह॑पत्यः।द॑क्षिणा॒ग्निष्टे॑ तपतु॒ शर्म॒ वर्मो॑त्तर॒तो म॑ध्य॒तोअ॒न्तरि॑क्षाद्दि॒शोदि॑शो अग्ने॒ परि॑ पाहि घो॒रात् ॥
पूर्व॑: । अ॒ग्नि: । त्वा॒ । त॒प॒तु॒ । शम् । पु॒रस्ता॑त् । शम् । प॒श्चात् । त॒प॒तु॒ । गार्ह॑ऽपत्य: । द॒क्षि॒ण॒ऽअ॒ग्नि: । ते॒ । त॒प॒तु॒ । शर्म॑ । वर्म॑ । उ॒त्त॒र॒त: । म॒ध्य॒त: । अ॒न्तरि॑क्षात् । दि॒श:ऽदि॑श: । अ॒ग्ने॒ । परि॑ । पा॒हि॒। घो॒रात् ॥४.९॥
Mantra 10
यू॒यम॑ग्नेशन्तमाभिस्त॒नूभि॑रीजा॒नम॒भि लो॒कं स्व॒र्गम्। अश्वा॑ भू॒त्वा पृ॑ष्टि॒वाहो॑वहाथ॒ यत्र॑ दे॒वैः स॑ध॒मादं॒ मद॑न्ति ॥
यू॒यम् । अ॒ग्ने॒ । शम्ऽत॑माभि: । त॒नूभि॑: । ई॒जा॒नम् । अ॒भि । लो॒कम् । स्व॒:ऽगम् । अश्वा॑: ।भू॒त्वा । पृ॒ष्टि॒ऽवाह॑: । व॒हा॒थ॒ । यत्र॑ । दे॒वै: । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥४.१०॥
Mantra 11
शम॑ग्नेप॒श्चात्त॑प॒ शं पु॒रस्ता॒च्छमु॑त्त॒राच्छम॑ध॒रात्त॑पैनम्। एक॑स्त्रे॒धाविहि॑तो जातवेदः स॒म्यगे॑नं धेहि सु॒कृता॑मु लो॒के ॥
शम् । अ॒ग्ने॒ । प॒श्चात् । त॒प॒ । शम् । पु॒रस्ता॑त् । शम् । उ॒त्त॒रात् । शम् । अ॒ध॒रात् । त॒प॒ । ए॒न॒म् । एक॑: । त्रे॒धा । विऽहि॑त: । जा॒त॒ऽवे॒द॒: । स॒म्यक् । ए॒न॒म् । धे॒हि॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒के ॥४.११॥
Mantra 12
शम॒ग्नयः॒समि॑द्धा॒ आ र॑भन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः। शृ॒तं कृ॒ण्वन्त॑ इ॒हमाव॑ चिक्षिपन् ॥
शम् । अ॒ग्नय॑: । सम्ऽइ॑ध्दा: । आ । र॒भ॒न्ता॒म् । प्रा॒जा॒ऽप॒त्यम् । मेध्य॑म् । जा॒तऽवे॑दस: । शृ॒तम् । कृ॒ण्वन्त॑: । इ॒ह । मा । अव॑ । चि॒क्षि॒पा॒न् ॥४.१२॥
Mantra 13
य॒ज्ञ ए॑ति॒वित॑तः॒ कल्प॑मान ईजा॒नम॒भि लो॒कं स्व॒र्गम्। तम॒ग्नयः॒ सर्व॑हुतं जुषन्तांप्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः। शृ॒तं कृ॒ण्वन्त॑ इ॒हमाव॑ चिक्षिपन् ॥
य॒ज्ञ: । ए॒ति॒ । विऽत॑त: । कल्प॑मान: । ई॒जा॒नम् । अ॒भि । लो॒कम् । स्व॒:ऽगम् । तम् । अ॒ग्नय॑: । सर्व॑ऽहुतम् । जु॒ष॒न्ता॒म् । प्रा॒जा॒ऽप॒त्यम् । मेध्य॑म् । जा॒तऽवे॑दस: । शृ॒तम् । कृ॒ण्वन्त॑: । इ॒ह । मा । अव॑ । चि॒क्षि॒प॒न् ॥४.१३॥
Mantra 14
ई॑जा॒नश्चि॒तमारु॑क्षद॒ग्निं नाक॑स्य पृ॒ष्ठाद्दिव॑मुत्पति॒ष्यन्। तस्मै॒ प्रभा॑ति॒ नभ॑सो॒ ज्योति॑षीमान्त्स्व॒र्गः पन्थाः॑ सु॒कृते॑ देव॒यानः॑ ॥
ई॒जा॒न: । चि॒तम् । आ । अ॒रु॒क्ष॒त् । अ॒ग्निम् । नाक॑स्य । पृ॒ष्ठात् । दिव॑म् । उ॒त्ऽप॒ति॒ष्यन् । तस्मै॑ । प्र । भा॒ति॒। नभ॑स: । ज्योति॑षीऽमान् । स्व॒:ऽग: । पन्था॑ । सु॒ऽकृते॑ । दे॒व॒ऽयान॑: ॥४.१४॥
Mantra 15
अ॒ग्निर्होता॑ध्व॒र्युष्टे॒ बृह॒स्पति॒रिन्द्रो॑ ब्र॒ह्मा द॑क्षिण॒तस्ते॑ अस्तु। हु॒तोऽयं संस्थि॑तो य॒ज्ञ ए॑ति॒ यत्र॒ पूर्व॒मय॑नं हु॒ताना॑म् ॥
अ॒ग्नि: । होता॑ । अ॒ध्व॒र्यु: । ते॒ । बृह॒स्पति॑: । इन्द्र॑: । ब्र॒ह्मा । द॒क्षि॒ण॒त: । ते॒ । अ॒स्तु॒ । हु॒त: । अ॒यम् । सम्ऽस्थि॑त: । य॒ज्ञ: । ए॒ति॒ । यत्र॑ । पूर्व॑म् । अय॑नम् । हु॒ताना॑म् ॥४.१५॥
Mantra 16
अ॑पू॒पवा॑न्क्षी॒रवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । क्षी॒रऽवा॑न् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥ ४.१६॥
Mantra 17
अ॑पू॒पवा॒न्दधि॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । दधि॑ऽवान् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒। ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.१७॥
Mantra 18
अ॑पू॒पवा॑न्द्र॒प्सवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । द्र॒प्सऽवा॑न्। च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.१८॥
Mantra 19
अ॑पू॒पवा॑न्घृ॒तवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । घृ॒तऽवा॑न् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.१९॥
Mantra 20
अ॑पू॒पवा॑न्मां॒सवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । मां॒सऽवा॑न् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.२०॥
Mantra 21
अपू॒पवा॒नन्न॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । अन्न॑ऽवान् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.२१॥
Mantra 22
अ॑पू॒पवा॒न्मधु॑मांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । मधु॑ऽमान् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.२२॥
Mantra 23
अ॑पू॒पवा॒न्रस॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । रस॑ऽवान् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥४.२३॥
Mantra 24
अ॑पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥
अ॒पू॒पऽवा॑न् । अप॑ऽवान् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ । ४.२४॥
Mantra 25
अ॑पू॒पापि॑हितान्कु॒म्भान्यांस्ते॑ दे॒वा अधा॑रयन्। ते ते॑ सन्तु स्व॒धाव॑न्तो॒मधु॑मन्तो घृत॒श्चुतः॑ ॥
अ॒पू॒पऽअ॑पिहितान् । कु॒म्भान् । यान् । ते॒ । दे॒वा: । अधा॑रयन् । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽमन्त: । घृ॒त॒ऽश्चुत॑: ॥४.२५॥
Mantra 26
यास्ते॑ धा॒नाअ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तू॒द्भ्वीःप्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ॥
या: । ते॒ । धा॒ना: । अ॒नु॒ऽकि॒रामि । ति॒लऽमि॑श्रा: । स्व॒धाऽव॑ती: । ता: । ते॒ । स॒न्तु॒ । उ॒त्ऽभ्वी: । प्र॒ऽभ्वी: । ता: । ते॒ । य॒म: । राजा॑ । अनु॑ । म॒न्य॒ता॒म् ॥४.२६॥
Mantra 27
अक्षि॑तिं॒भूय॑सीम् ॥
अक्षि॑तिम् । भूय॑सीम् ॥४.२७॥
Mantra 28
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑। स॑मा॒नंयोनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥
द्र॒प्स: । च॒स्क॒न्द॒: । पृ॒थि॒वीम् । अनु॑ । द्याम् । इ॒मम् । च॒ । योनि॑म् । अनु॑ । य॒: । च॒ । पूर्व॑: । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचर॑न्तम् । द्र॒प्सम् । जु॒हो॒मि॒ । अनु॑ । स॒प्त । होत्रा॑: ॥४.२८॥
Mantra 29
श॒तधा॑रंवा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्। ये पृ॒णन्ति॒ प्रच॒ यच्छ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्षि॑णां स॒प्तमा॑तरम् ॥
श॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्व॒:ऽविद॑म् । नृ॒ऽचक्ष॑स: । ते । अ॒भि । च॒क्ष॒ते॒ । र॒यिम् । ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒र्व॒दा । ते । दु॒ह्न॒ते॒ । दक्षि॑णाम् । स॒प्तऽमा॑तरम् ॥४.२९॥
Mantra 30
कोशं॑ दुहन्तिक॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑। ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्योमन् ॥
कोश॑म् । दु॒ह॒न्ति॒ । क॒लश॑म् । चतु॑:ऽबिलम् । इडा॑म् । धे॒नुम् । मधु॑ऽमतीम् । स्व॒स्तये॑ । ऊर्ज॑म् । मद॑न्तीम् । अदि॑तिम् । जने॑षु । अग्ने॑ । मा । हिं॒सी॒: । प॒र॒मे । विऽओ॑मन् ॥४.३०॥
Mantra 31
ए॒तत्ते॑ दे॒वःस॑वि॒ता वासो॑ ददाति॒ भर्त॑वे। तत्त्वं॑ य॒मस्य॒ राज्ये॒ वसा॑नस्ता॒र्प्यं चर॥
ए॒तत् । ते॒ । दे॒व: । स॒वि॒ता । वास॑: । द॒दा॒ति॒ । भर्त॑वे । तत् । त्वम् । य॒मस्य॑ । राज्ये॑ । वसा॑न: । ता॒र्प्य॑म् । च॒र॒ ॥४.३१॥
Mantra 32
धा॒नाधे॒नुर॑भवद्व॒त्सो अ॑स्यास्ति॒लोऽभ॑वत्। तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑जीवति ॥
धा॒ना: । धे॒नु: । अ॒भ॒व॒त् । व॒त्स: । अ॒स्या॒: । ति॒ल: । अ॒भ॒व॒त् । ताम् । वै । य॒मस्य॑ । राज्ये॑ । अक्षि॑ताम् । उप॑ । जी॒व॒ति॒ ॥४.३२॥
Mantra 33
ए॒तास्ते॑ असौधे॒नवः॑ काम॒दुघा॑ भवन्तु। एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑तिष्ठन्तु॒ त्वात्र॑ ॥
ए॒ता: । ते॒ । अ॒सौ॒ । धे॒नव॑: । का॒म॒ऽदुघा॑: । भ॒व॒न्तु॒ । एनी॑: । श्येनी॑: । सऽरू॑पा: । विऽरू॑पा: । ति॒लऽव॑त्सा: । उप॑ । ति॒ष्ठ॒न्तु॒ । त्वा॒ । अत्र॑ ॥४.३३॥
Mantra 34
एनी॑र्धा॒नाहरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते। ति॒लव॑त्सा॒ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ स॒न्त्वन॑पस्पुरन्तीः ॥
एनी॑: । धा॒ना: । हरि॑णी: । श्येनी॑: । अ॒स्य॒ । कृ॒ष्णा: । धा॒ना: । रोहि॑णी: । धे॒नव॑: । ते॒ । ति॒लऽव॑त्सा: ।ऊर्ज॑म् । अ॒स्मै । दुहा॑ना: । वि॒श्वाहा॑ । स॒न्तु॒ । अ॒न॒प॒ऽस्फुर॑न्ती: ॥४.३४॥
Mantra 35
वै॑श्वान॒रेह॒विरि॒दं जु॑होमि साह॒स्रं श॒तधा॑र॒मुत्स॑म्। स बि॑भर्ति पि॒तरं॑पिताम॒हान्प्र॑पिताम॒हान्बि॑भर्ति॒ पिन्व॑मानः ॥
वै॒श्वा॒न॒रे । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ । सा॒ह॒स्रम् । श॒तऽधा॑रम् । उत्स॑म् । स: । बि॒भ॒र्ति॒ । पि॒तर॑म् । पि॒ता॒म॒हान् । प्र॒ऽपि॒ता॒म॒हान् । बि॒भ॒र्ति॒ । पिन्व॑मान: ॥४.३५॥
Mantra 36
स॒हस्र॑धारंश॒तधा॑र॒मुत्स॒मक्षि॑तं व्य॒च्यमा॑नं सलि॒लस्य॑ पृ॒ष्ठे। ऊर्जं॒दुहा॑न॒मन॑पस्पुरन्त॒मुपा॑सते पि॒तरः॑ स्व॒धाभिः॑ ॥
स॒हस्र॑ऽधारम् । श॒तऽधा॑रम् । उत्स॑म् । अक्षि॑तम् । वि॒ऽअ॒च्यमा॑नम् । स॒लि॒लस्य॑ । पृ॒ष्ठे । ऊर्ज॑म् । दुहा॑नम् । अ॒न॒प॒ऽस्फुर॑न्तम् । उप॑ । आ॒स॒ते॒ । पि॒तर॑: । स्व॒धाभि॑: ॥४.३६॥
Mantra 37
इ॒दं कसा॑म्बु॒चय॑नेन चि॒तं तत्स॑जाता॒ अव॑ पश्य॒तेत॑। मर्त्यो॒ऽयम॑मृत॒त्वमे॑ति॒ तस्मै॑गृ॒हान्कृ॑णुत याव॒त्सब॑न्धु ॥
इ॒दम् । कसा॑म्बु । चय॑नेन । चि॒तम् । तत् । स॒ऽजा॒ता॒: । अव॑ । प॒श्य॒त॒ । आ । इ॒त॒ । मर्त्य॑: । अ॒यम् । अ॒मृ॒त॒ऽत्वम् । ए॒ति॒ । तस्मै॑ । गृ॒हान् । कृ॒णु॒त॒ । या॒व॒त्ऽसब॑न्धु ॥४.३७॥
Mantra 38
इ॒हैवैधि॑धन॒सनि॑रि॒हचि॑त्त इ॒हक्र॑तुः। इ॒हैधि॑ वी॒र्यवत्तरो वयो॒धा अप॑राहतः ॥
इ॒ह । ए॒धि । वी॒र्य॑वत्ऽतर: । व॒य॒:ऽधा: । अप॑राऽहत: ॥४.३८॥
Mantra 39
पु॒त्रंपौत्र॑मभित॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः। स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒दुहा॑ना॒ आपो॑ दे॒वीरु॒भयां॑स्तर्पयन्तु ॥
पु॒त्रम् । पौत्र॑म् । अ॒भि॒ऽत॒र्पय॑न्ती: । आप॑: । मधु॑ऽमती: । इ॒मा: । स्व॒धाम् । पि॒तृऽभ्य॑: । अ॒मृत॑म् । दुहा॑ना: । आप॑: । उ॒भया॑न् । त॒र्प॒य॒न्तु॒ ॥ ४.३९॥
Mantra 40
आपो॑ अ॒ग्निं प्रहि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्। आसी॑ना॒मूर्ज॒मुप॒ येसच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान् ॥
आप॑: । अ॒ग्निम् । प्र । हि॒णु॒त॒ । पि॒तॄन् । उप॑ । इ॒मम् । य॒ज्ञम् । पि॒तर॑: । मे॒ । जु॒ष॒न्ता॒म् । आसी॑नाम् । उर्ज॑म् । उप॑ । ये । सच॑न्ते । ते । न॒: । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छा॒न् ॥४.४०॥
Mantra 41
समि॑न्धते॒अम॑र्त्यं हव्य॒वाहं॑ घृत॒प्रिय॑म्। स वे॑द॒ निहि॑तान्नि॒धीन्पि॒तॄन्प॑रा॒वतो॑ग॒तान् ॥
सम् । इ॒न्ध॒ते॒ । अम॑र्त्यम् । ह॒व्य॒ऽवाह॑म् । घृ॒त॒ऽप्रिय॑म् । स: । वे॒द॒ । निऽहि॑तान् । नि॒ऽधीन् । पि॒तॄन् । परा॒ऽवत॑: । ग॒तान् ॥४.४१॥
Mantra 42
यं ते॑ म॒न्थंयमो॑द॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते। ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तोघृत॒श्चुतः॑ ॥
यम् । ते॒ । म॒न्थम् । यम् । ओ॒द॒नम् । यत् । मां॒सम् । नि॒ऽपृ॒णामि॑ । ते॒ । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽवन्त: । घृ॒त॒ऽश्चुत॑: ॥४.४२॥
Mantra 43
यास्ते॑ धा॒नाअ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तू॒द्भ्वीःप्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ॥
या: । ते॒ । धा॒ना: । अ॒नु॒ऽकि॒रामि॑ । ति॒लऽमि॑श्रा:। स्व॒धाऽव॑ती: । ता: । ते॒ । स॒न्तु॒ । उ॒त्ऽभ्वी: । ता: । ते॒ । य॒म: । राजा॑ । अनु॑ । म॒न्य॒ता॒म् ॥४.४३॥
Mantra 44
इ॒दं पूर्व॒मप॑रंनि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः। पु॑रोग॒वा ये अ॑भि॒शाचो॑ अस्य॒ तेत्वा॑ वहन्ति सु॒कृता॑मु लो॒कम् ॥
इ॒दम् । पूर्व॑म् । अप॑रम् । नि॒ऽयान॑म् । येन॑ । ते॒ । पूर्वे॑ । पि॒तर॑: । परा॑ऽइता: । पु॒र॒:ऽग॒वा: । ये । अ॒भि॒ऽशाच॑: । अ॒स्य॒ । ते । त्वा॒ । व॒ह॒न्ति॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥४.४४॥
Mantra 45
सर॑स्वतींदेव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने। सर॑स्वतीं सु॒कृतो॑ हवन्ते॒सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥
सर॑स्वतीम् । दे॒व॒ऽयन्त॑: । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒ध्व॒रे । ता॒यमा॑ने । सर॑स्वतीम् । सु॒ऽकृत॑: । ह॒व॒न्ते॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥४.४५॥
Mantra 46
सर॑स्वतींपि॒तरो॑ हवन्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः। आ॒सद्या॒स्मिन्ब॒र्हिषि॑मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥
सर॑स्वतीम् । पि॒तर॑: । ह॒व॒न्ते॒ । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणा: । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् । अ॒न॒मी॒वा: । इष॑: । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥४.४६॥
Mantra 47
सर॑स्वति॒ यास॒रथं॑ य॒याथो॒क्थैः स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती। स॑हस्रा॒र्घमि॒डोअत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानाय धेहि ॥
सर॑स्वति । या । स॒ऽरथ॑म् । य॒याथ॑ । उ॒क्थै: । स्व॒धाभि॑: । दे॒वि॒ । पि॒तृऽभि॑: । मद॑न्ती । स॒ह॒स्र॒ऽअ॒र्घम् । इ॒ड: । अत्र॑ । भा॒गम् । रा॒य: । पोष॑म् । यज॑मानाय । धे॒हि॒ ॥४.४७॥
Mantra 48
पृ॑थि॒वीं त्वा॑पृथि॒व्यामा वे॑शयामि दे॒वो नो॑ धा॒ता प्र ति॑रा॒त्यायुः॑। परा॑परैतावसु॒विद्वो॑ अ॒स्त्वधा॑ मृ॒ताः पि॒तृषु॒ सं भ॑वन्तु ॥
पृ॒थि॒वीम् । त्वा॒ । पृ॒थि॒व्याम् । आ । वे॒श॒या॒मि॒ । दे॒व: । न॒: । धा॒ता । प्र । त॒र॒ति॒ । आयु॑: । परा॑ऽपरैता । व॒सु॒ऽवित् । व: । अ॒स्तु॒ । अध॑ । मृ॒ता: । पि॒तृषु॑ । सम् । भ॒व॒न्तु॒ ॥४.४८॥
Mantra 49
आ प्रच्य॑वेथा॒मप॒ तन्मृ॑जेथां॒ यद्वा॑मभि॒भा अत्रो॒चुः। अ॒स्मादेत॑म॒घ्न्यौतद्वशी॑यो दा॒तुः पि॒तृष्वि॒हभो॑जनौ॒ मम॑ ॥
आ । प्र । च्य॒वे॒था॒म् । अप॑ । तत् । मृ॒जे॒था॒म् । यत् । वा॒म् । अभि॒ऽभा: । अत्र॑ । ऊ॒चु: । अ॒स्मात् । आ । इ॒त॒म् । अघ्न्यौ । तत् । वशी॑य: । दा॒तु: । पि॒तृषु॑ । इ॒हऽभो॑जनौ । मम॑ ॥४.४९॥
Mantra 50
एयम॑ग॒न्दक्षि॑णाभद्र॒तो नो॑ अ॒नेन॑ द॒त्ता सु॒दुघा॑ वयो॒धाः। यौव॑ने जी॒वानु॑पपृञ्च॒ती ज॒रापि॒तृभ्य॑ उपसं॒परा॑णयादि॒मान् ॥
आ । इ॒यम् । अ॒ग॒न् । दक्षि॑णा । भ॒द्र॒त: । न॒: । अ॒नेन॑ । द॒त्ता । सु॒ऽदुघा॑ । व॒य॒:ऽधा: । यौव॑ने । जी॒वान् । उ॒प॒ऽपृञ्च॑ती । ज॒रा । पि॒तृऽभ्य॑: । उ॒प॒ऽसंप॑रानयात् । इ॒मान् ॥४.५०॥
Mantra 51
इ॒दं पि॒तृभ्यः॒प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि। तदा रो॑ह पुरुष॒ मेध्यो॒भव॒न्प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम् ॥
इ॒दम् । पि॒तृऽभ्य॑: । प्र । भ॒रा॒मि॒ । ब॒र्हि:। जीवम् । दे॒वेभ्य॒: । उत्ऽत॑रम् । स्तृ॒णा॒मि॒। तत् । आ । रो॒ह॒ । पु॒रु॒ष॒ । मेध्य॑: । भव॑न् । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् ॥४.५१॥
Mantra 52
एदं ब॒र्हिर॑सदो॒मेध्यो॑ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्। य॑थाप॒रु त॒न्वं संभ॑रस्व गात्राणि ते॒ ब्रह्म॑णा कल्पयामि ॥
आ । इ॒दम् । ब॒र्हि: । अ॒स॒द॒: । मेध्य॑: । अ॒भू॒: । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् । य॒था॒ऽप॒रु । त॒न्व॑म् । सम् । भ॒र॒स्व॒ । गात्रा॑णि । ते॒ । ब्रह्म॑णा । क॒ल्प॒या॒मि॒ ॥४.५२॥
Mantra 53
प॒र्णोराजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्। आयु॑र्जी॒वेभ्यो॒विद॑धद्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
प॒र्ण: । राजा॑ । अ॒पि॒ऽधान॑म् । च॒रू॒णाम् । ऊ॒र्ज: । बल॑म् । सह॑ । ओज॑: । न॒: । आ । अ॒ग॒न् । आयु॑: । जी॒वेभ्य॑: । विऽद॑धत् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ॥४.५३॥
Mantra 54
ऊ॒र्जो भा॒गो यइ॒मं ज॒जानाश्मान्ना॑ना॒माधि॑पत्यं ज॒गाम॑। तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ सनो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ॥
ऊ॒र्ज: । भा॒ग: । य: । इ॒मम् । ज॒जान॑ । अश्मा॑ । अन्ना॑नाम् । आधि॑ऽपत्यम् । ज॒गाम॑ । तम् । अ॒र्च॒त॒ । वि॒श्वऽमि॑त्रा: । ह॒वि:ऽभि॑: । स: । न॒:। य॒म: । प्र॒ऽत॒रम् । जी॒वसे॑ । धा॒त् ॥४.५४॥
Mantra 55
यथा॑ य॒माय॑ह॒र्म्यमव॑प॒न्पञ्च॑ मान॒वाः। ए॒वा व॑पामि ह॒र्म्यं यथा॑ मे॒ भूर॒योऽस॑त॥
यथा॑ । य॒माय॑ । ह॒र्म्यम् । अव॑पन् । पञ्च॑ । मा॒न॒वा: । ए॒व । व॒पा॒मि॒ । ह॒र्म्यम् । यथा॑ । मे॒ । भूर॑य: । अस॑त ॥४.५५॥
Mantra 56
इ॒दं हिर॑ण्यंबिभृहि॒ यत्ते॑ पि॒ताबि॑भः पु॒रा। स्व॒र्गं य॒तः पि॒तुर्हस्तं॒ निर्मृ॑ड्ढि॒दक्षि॑णम् ॥
इ॒दम् । हिर॑ण्यम् । बि॒भृ॒हि॒ । यत् । ते॒ । पि॒ता । अबि॑भ: । पु॒रा । स्व॒:ऽगम् । य॒त: । पि॒तु: । हस्त॑म् नि: । मृ॒ड्ढि॒ । दक्षि॑णम् ॥४.५६॥
Mantra 57
ये च॑ जी॒वा येच॑ मृ॒ता ये जा॒ता ये च॑ य॒ज्ञियाः॑। तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैतु॒ मधु॑धाराव्युन्द॒ती ॥
ये । च॒ । जी॒वा: । ये । च॒ । मृ॒ता: । ये । जा॒ता: । ये । च॒ । य॒ज्ञिया॑: । तेभ्य॑: । घृ॒तस्य॑ । कु॒ल्या॑ । ए॒तु॒ । मधु॑ऽधारा । वि॒ऽउ॒द॒न्ती ॥४.५७॥
Mantra 58
वृषा॑ मती॒नांप॑वते विचक्ष॒णः सूरो॒ अह्नां॑ प्र॒तरी॑तो॒षसां॑ दि॒वः। प्रा॒णः सिन्धू॑नांक॒लशाँ॑ अचिक्रद॒दिन्द्र॑स्य॒ हार्दि॑मावि॒शन्म॑नी॒षया॑ ॥
वृषा॑ । म॒ती॒नाम् । प॒व॒ते॒ । वि॒ऽच॒क्ष॒ण: । सूर॑: । अह्ना॑म् । प्र॒ऽतरी॑ता । उ॒षसा॑म् । दि॒व: । प्रा॒ण: । सिन्धू॑नाम् । क॒लशा॑न् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । हार्दि॑म् । आ॒ऽवि॒शन् । म॒नी॒षया॑ ॥४.५८॥
Mantra 59
त्वे॒षस्ते॑ धू॒मऊ॑र्णोतु दि॒वि षं छु॒क्र आत॑तः। सूरो॒ न हि द्यु॒ता त्वं॑ कृ॒पा पा॑वक॒ रोच॑से॥
त्वे॒ष: । ते॒ । धू॒म: । ऊ॒र्णो॒तु॒ । दि॒वि । सन् । शु॒क्र: । आऽत॑त: । सुर॑: । न । हि । द्यु॒ता । त्वम् । कृपा । पा॒व॒क॒ । रोच॑से ॥४.५९॥
Mantra 60
प्र वाए॒तीन्दु॒रिन्द्र॑स्य॒ निष्कृ॑तिं॒ सखा॒ सख्यु॒र्न प्र मि॑नाति संगि॒रः। मर्य॑इव॒ योषाः॒ सम॑र्षसे॒ सोमः॑ क॒लशे॑ श॒तया॑मना प॒था ॥
प्र । वै । ए॒ति॒ । इन्दु॑: । इन्द्र॑स्य । नि:ऽकृ॑तिम् । सखा॑ । सख्यु॑: । न । प्र । मि॒ना॒ति॒ । स॒म्ऽगि॒र: । मर्य॑:ऽइव । योषा॑: । सम् । अ॒र्ष॒से॒ । सोम॑: । क॒लशे॑ । श॒तऽया॑मना । प॒था ॥४.६०॥
Mantra 61
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒याँ अ॑धूषत। अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒यवि॑ष्ठा ईमहे ॥
अक्ष॑न् । अमी॑मदन्त । हि । अव॑ । प्रि॒यान् । अ॒धू॒ष॒त॒ । अस्तो॑षत । स्वऽभा॑नव: । विप्रा॑: । यवि॑ष्ठा: । ई॒म॒हे॒ ॥४.६१॥
Mantra 62
आ या॑त पितरःसो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पितृ॒याणैः॑। आयु॑र॒स्मभ्यं॒ दध॑तः प्र॒जां च॑रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम् ॥
आ । या॒त॒ । पि॒त॒र॒: । सो॒म्यास॑: । ग॒म्भी॒रै: । प॒थिऽभि॑: । पि॒तृ॒ऽयानै॑: । आयु॑: । अ॒स्मभ्य॑म् । दध॑त: । प्र॒ऽजाम् । च॒ । रा॒य: । च॒ । पोषै॑: । अ॒भि । न॒: । स॒च॒ध्व॒म् ॥४.६२॥
Mantra 63
परा॑ यात पितरःसो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पू॒र्याणैः॑। अधा॑ मासि॒ पुन॒रा या॑त नोगृ॒हान्ह॒विरत्तुं॑ सुप्र॒जसः॑ सु॒वीराः॑ ॥
परा॑ । या॒त॒ । पि॒त॒र॒: । सो॒म्यास॑: । ग॒म्भी॒रै: । प॒थिऽभि॑: । पू॒:ऽयानै॑: । अध॑ । मा॒सि । पुन॑: । आ । या॒त॒ । न॒: । गृ॒हान् । ह॒वि: । अत्तु॑म् । सु॒ऽप्र॒जस॑: । सु॒ऽवीरा॑: ॥४.६३॥
Mantra 64
यद्वो॑अ॒ग्निरज॑हा॒देक॒मङ्गं॑ पितृलो॒कं ग॒मयं॑ जा॒तवे॑दाः। तद्व॑ ए॒तत्पुन॒राप्या॑ययामि सा॒ङ्गाः स्व॒र्गे पि॒तरो॑ मादयध्वम् ॥
यत् । व॒: । अ॒ग्नि: । अज॑हात् । एक॑म् । अङ्ग॑म् । पि॒तृऽलो॒कम् । ग॒मय॑न् । जा॒तऽवे॑दा: । तत् । व॒: । ए॒तत् । पुन॑: । आ । प्या॒य॒या॒मि॒ । स॒ऽअ॒ङ्गा । स्व॒:ऽगे । पि॒तर॑: । मा॒द॒य॒ध्व॒म् ॥४.६४॥
Mantra 65
अभू॑द्दू॒तःप्रहि॑तो जा॒तवे॑दाः सा॒यं न्यह्न॑ उप॒वन्द्यो॒ नृभिः॑। प्रादाः॑ पि॒तृभ्यः॑स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥
अभू॑त् । दू॒त: । प्रऽहि॑त: । जा॒तऽवे॑दा: । सा॒यम् । नि॒ऽअह्ने॑ । उ॒प॒ऽवन्द्य॑: । नृऽभि॑: । प्र । अ॒दा॒: । पि॒तृऽभ्य॑: । स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒ध्दि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥४.६५॥
Mantra 66
असौ॒ हा इ॒ह ते॒मनः॒ ककु॑त्सलमिव जा॒मयः॑। अ॒भ्येनं भूम ऊर्णुहि ॥
अ॒सौ । है । इ॒ह । ते॒ । मन॑: । ककु॑त्सलम्ऽइव । जा॒मय॑: । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥४.६६॥
Mantra 67
शुम्भ॑न्तांलो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑ने त्वा लो॒क आ सा॑दयामि ॥
शुम्भ॑न्ताम् । लो॒का: । पि॒तृ॒ऽसद॑ना:। पि॒तृ॒ऽसद॑ने । त्वा॒ । लो॒के । आ । सा॒द॒या॒मि॒ ॥४.६७॥
Mantra 68
ये॒स्माकं॑पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि ॥
ये । अ॒स्माक॑म् । पि॒तर॑: । तेषा॑म् । ब॒र्हि: । अ॒सि॒ ॥४.६८॥
Mantra 69
उदु॑त्त॒मंव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय। अधा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तयेस्याम ॥
उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ । अध॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गस: । अदि॑तये । स्या॒म॒ ॥४.६९॥
Mantra 70
प्रास्मत्पाशा॑न्वरुण मुञ्च॒ सर्वा॒न्यैः स॑मा॒मे ब॒ध्यते॒ यैर्व्या॒मे। अधा॑जीवेम श॒रदं॑ शतानि॒ त्वया॑ राजन्गुपि॒ता रक्ष॑माणाः ॥
प्र । अ॒स्मत् । पाशा॑न् । व॒रु॒ण॒ । मु॒ञ्च॒ । सर्वा॑न् । यै: । स॒म्ऽआ॒मे । ब॒ध्यते॑ । यै: । वि॒ऽआ॒मे । अध॑ । जी॒वे॒म॒ । श॒रद॑म् । श॒तानि॑ । त्वया॑ । रा॒ज॒न् । गु॒पि॒ता: । रक्ष॑माणा: ॥४.७०॥
Mantra 71
अ॒ग्नये॑कव्य॒वाह॑नाय स्व॒धा नमः॑ ॥
अ॒ग्नये॑ । क्र॒व्य॒ऽवाह॑नाय । स्व॒धा । नम॑:॥४.७१॥
Mantra 72
सोमा॑य पितृ॒मते॑स्व॒धा नमः॑ ॥
सोमा॑य । पि॒तृ॒ऽम॑ते । स्व॒धा । नम॑: ॥४.७२॥
Mantra 73
पि॒तृभ्यः॒सोम॑वद्भ्यः स्व॒धा नमः॑ ॥
पि॒तृऽभ्य॑: । सोम॑वत्ऽभ्य: । स्व॒धा । नम॑: ॥४.७३॥
Mantra 74
य॒माय॑ पितृ॒मते॑स्व॒धा नमः॑ ॥
य॒माय॑ । पि॒तृऽम॑ते । स्व॒धा । नम॑: ॥४.७४॥
Mantra 75
ए॒तत्ते॑प्रततामह स्व॒धा ये च॒ त्वामनु॑ ॥
ए॒तत् । ते॒ । प्र॒ऽत॒ता॒म॒ह॒ । स्व॒धा । ये । च॒ । त्वाम् । अनु॑ ॥४.७५॥
Mantra 76
ए॒तत्ते॑ ततामहस्व॒धा ये च॒ त्वामनु॑ ॥
ए॒तत् । ते॒ । त॒ता॒म॒ह॒ । स्व॒धा । ये । च॒ । त्वाम् । अनु॑ ॥४.७६॥
Mantra 77
ए॒तत्ते॑ ततस्व॒धा ॥
ए॒तत् । ते॒ । त॒त॒ । स्व॒धा ॥४.७७॥
Mantra 78
स्व॒धापि॒तृभ्यः॑ पृथिवि॒षद्भ्यः॑ ॥
स्व॒धा । पि॒तृऽभ्य॑: । पृ॒थि॒वि॒सत्ऽभ्य॑: ॥४.७८॥
Mantra 79
स्व॑धापि॒तृभ्यो॑ अन्तरिक्ष॒सद्भ्यः॑ ॥
स्व॒धा । पि॒तृऽभ्य॑: । अ॒न्त॒रि॒क्ष॒सत्ऽभ्य॑: ॥४.७९॥
Mantra 80
स्व॒धापि॒तृभ्यो॑ दिवि॒षद्भ्यः॑ ॥
स्व॒धा । पि॒तृऽभ्य॑:। दि॒वि॒सत्ऽभ्य॑: ॥४.८०॥
Mantra 81
नमो॑ वः पितरऊ॒र्जे नमो॑ वः पितरो॒ रसा॑य ॥
नम॑: । व॒: । पि॒त॒र॒: । ऊ॒र्जे। नम॑:। व॒: । पि॒त॒र॒: । रसा॑य ॥४.८१॥
Mantra 82
नमो॑ वः पितरो॒भामा॑य॒ नमो॑ वः पितरो म॒न्यवे॑ ॥
नम॑: । व॒: । पि॒त॒र॒: । भामा॑य । नम॑: । व॒: । पि॒त॒र॒: । म॒न्यवे॑ ॥४.८२॥
Mantra 83
नमो॑ वः पितरो॒यद्घो॒रं तस्मै॒ नमो॑ वः पितरो॒ यत्क्रू॒रं तस्मै॑ ॥
नम॑:। व॒: । पि॒त॒र॒: । यत् । घो॒रम् । तस्मै॑ । नम॑: । व॒: । पि॒त॒र॒: । यत् । क्रू॒रम् । तस्मै॑ ॥४.८३॥
Mantra 84
नमो॑ वः पितरो॒यच्छि॒वं तस्मै॒ नमो॑ वः पितरो॒ यत्स्यो॒नं तस्मै॑ ॥
नम॑:। व॒: । पि॒त॒र॒: । यत् । शि॒वम् । तस्मै॑ । नम॑: । व॒: । पि॒त॒र॒: । यत् । स्यो॒नम् । तस्मै॑ ॥४.८४॥
Mantra 85
नमो॑ वः पितरःस्व॒धा वः॑ पितरः ॥
नम॑: । व॒: । पि॒त॒र॒: । स्व॒धा । व॒: । पि॒त॒र॒: ॥४.८५॥
Mantra 86
येऽत्र॑ पि॒तरः॑पि॒तरो॒ येऽत्र॑ यू॒यं स्थ यु॒ष्मांस्तेऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ॥
ये । अत्र॑ । पि॒तर॑: । पि॒तर॑: । ये । अत्र॑ । यू॒यम् । स्थ । यु॒ष्मान् । ते । अनु॑ । यू॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्थ॒ ॥४.८६॥
Mantra 87
य इ॒ह पि॒तरो॑जी॒वा इ॒ह व॒यं स्मः॑। अ॒स्माँस्तेऽनु॑ व॒यं तेषां॒ श्रेष्ठा॑ भूयास्म ॥
ये । इ॒ह । पि॒तर॑: । जी॒वा: । इ॒ह । व॒यम् । स्म॒: । अ॒स्मान् । ते । अनु॑ । व॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्म॒ ॥४.८७॥
Mantra 88
आ त्वा॑ग्नइधीमहि द्यु॒मन्तं॑ देवा॒जर॑म्। यद्घ॒ सा ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवि॑।इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
आ । त्वा॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् । यत् । घ॒ । सा । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्य॑: । आ । भ॒र॒ ॥ ४.८८॥
Mantra 89
च॒न्द्रमा॑अ॒प्स्वन्तरा सु॑प॒र्णो धा॑वते दि॒वि। न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्तिविद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
च॒न्द्रमा॑: । अ॒प्ऽसु । अ॒न्त:। आ । सु॒ऽप॒र्ण: । धा॒व॒ते॒ । दि॒वि । न । व॒:। हि॒र॒ण्य॒ऽने॒म॒य॒: । प॒दम् । वि॒न्द॒न्ति॒ । वि॒ऽद्यु॒त॒: । वि॒त्तम् । मे॒ । अ॒स्य॒ । रो॒द॒सी॒ इति॑ ॥४.८९॥