Mantra 1
इ॒यं नारी॑पतिलो॒कं वृ॑णा॒ना नि प॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म्। धर्मं॑पुरा॒णम॑नुपा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि ॥
इ॒यम् । नारी॑ । प॒ति॒ऽलो॒कम् । वृ॒णा॒ना । नि । प॒द्य॒ते॒ । उप॑ । त्वा॒ । म॒र्त्य॒ । प्रऽइ॑तम् । धर्म॑म् । पु॒रा॒णम् । अ॒नु॒ऽपा॒लय॑न्ती । तस्यै॑ । प्र॒ऽजाम् । द्रवि॑णम् । च॒ । इ॒ह । धे॒हि॒ ॥३.१॥
Mantra 2
उदी॑र्ष्वनार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑। ह॑स्तग्रा॒भस्य॑ दधि॒षोस्तवे॒दंपत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ॥
उत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒ऽलो॒कम् । ग॒तऽअ॑सुम् । ए॒तम् । उप॑ । शे॒षे॒ । आ । इ॒हि॒ । ह॒स्त॒ऽग्रा॒भस्य॑ । द॒धि॒षो: । तव॑ । इ॒दम् । पत्यु॑: । ज॒नि॒ऽत्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥३.२॥
Mantra 3
अप॑श्यं युव॒तिंनी॒यमा॑नां जी॒वां मृ॒तेभ्यः॑ परिणी॒यमा॑नाम्। अ॒न्धेन॒ यत्तम॑सा॒प्रावृ॒तासी॑त्प्रा॒क्तो अपा॑चीमनयं॒ तदे॑नाम् ॥
अप॑श्यम् । यु॒व॒तिम् । नी॒यमा॑नाम् । जी॒वाम् । मृ॒तेभ्य॑: । प॒रि॒ऽनी॒यमा॑नाम् । अ॒न्धेन॑ । यत् । तम॑सा । प्रावृ॑ता । आसी॑त् । प्रा॒क्त: । अपा॑चीम् । अ॒न॒य॒म् । तत् । ए॒ना॒म् ॥३.३॥
Mantra 4
प्र॑जान॒त्यघ्न्ये जीवलो॒कं दे॒वानां॒ पन्था॑मनुसं॒चर॑न्ती। अ॒यं ते॒गोप॑ति॒स्तं जु॑षस्व स्व॒र्गं लो॒कमधि॑ रोहयैनम् ॥
प्र॒ऽजा॒न॒ती । अ॒घ्न्ये॒ । जी॒व॒ऽलो॒कम् । दे॒वाना॑म् । पन्था॑म् । अ॒नु॒ऽसं॒चर॑न्ती ।अ॒यम् । ते॒ । गोऽप॑ति: । तम् । जु॒ष॒स्व॒ । स्व॒:ऽगम् । लो॒कम् । अधि॑ । रो॒ह॒य॒ । ए॒न॒म् ॥३.४॥
Mantra 5
उप॒ द्यामुप॑वेत॒समव॑त्तरो न॒दीना॑म्। अग्ने॑ पि॒त्तम॒पाम॑सि ॥
उप॑ । द्याम् । उप॑ । वे॒त॒सम् । अव॑त्ऽतर: । न॒दीना॑म् । अग्ने॑ । पि॒त्तम् । अ॒पाम् । अ॒सि॒ ॥३.४॥
Mantra 6
यं त्वम॑ग्नेस॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑। क्याम्बू॒रत्र॑ रोहतु शाण्डदू॒र्वा व्यल्कशा॥
यम् । त्वम् । अ॒ग्ने॒ । स॒म्ऽअद॑ह: । तम् । ऊं॒ इति॑ । नि: । वा॒प॒य॒ । पुन॑: । क्याम्बू॑: । अत्र॑ । रो॒ह॒तु॒ । शा॒ण्ड॒ऽदू॒र्वा । विऽअ॑ल्कशा ॥३.५॥
Mantra 7
इ॒दं त॒एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व। सं॒वेश॑ने त॒न्वा॒चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑ ॥
इ॒दम् । ते॒ ।एक॑म् । प॒र: । ऊं॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ । स॒म्ऽवेश॑ने । त॒न्वा॑ । चारु॑: । ए॒धि॒ । प्रि॒य: । दे॒वाना॑म् । प॒र॒मे । स॒धऽस्थे॑ ।३.७॥
Mantra 8
उत्ति॑ष्ठ॒प्रेहि॒ प्र द्र॒वौकः॑ कृणुष्व सलि॒ले स॒धस्थे॑। तत्र॒ त्वं पि॒तृभिः॑संविदा॒नः सं सोमे॑न॒ मद॑स्व॒ सं स्व॒धाभिः॑ ॥
उत् । ति॒ष्ठ॒ । प्र । इ॒हि॒ । प्र॒ । द्र॒व॒ । ओक॑: । कृ॒णु॒ष्व॒ । स॒लि॒ले । स॒धऽस्थे॑ । तत्र॑ । त्वम् । पि॒तृऽभि॑: । स॒म्ऽवि॒दा॒न: । सम् । सोमे॑न । मद॑स्व । सम् । स्व॒धाभि॑: ॥३.८॥
Mantra 9
प्र च्य॑वस्वत॒न्वं सं भ॑रस्व॒ मा ते॒ गात्रा॒ वि हा॑यि॒ मो शरी॑रम्। मनो॒निवि॑ष्टमनु॒संवि॑शस्व॒ यत्र॒ भूमे॑र्जु॒षसे॒ तत्र॑ गच्छ ॥
प्र । च्य॒व॒स्व॒ । त॒न्व॑म् । सम् । भ॒र॒स्व॒ । मा । ते॒ । गात्रा॑ । वि । हा॒यि॒ । मो इति॑ । शरी॑रम् । मन॑: । निऽवि॑ष्टम् । अ॒नु॒ऽसंवि॑शस्व । यत्र॑ । भूमे॑: । जु॒षसे॑ । तत्र॑ । ग॒च्छ॒ ॥३.९॥
Mantra 10
वर्च॑सा॒ मांपि॒तरः॑ सो॒म्यासो॒ अञ्ज॑न्तु दे॒वा मधु॑ना घृ॒तेन॑। चक्षु॑षे मा प्रत॒रंता॒रय॑न्तो ज॒रसे॑ मा ज॒रद॑ष्टिं वर्धन्तु ॥
वर्च॑सा । माम् । पि॒तर॑: । सो॒म्यास॑: । अञ्ज॑न्तु । दे॒वा: । मधु॑ना । घृ॒तेन॑ । चक्षु॑षे । मा॒ । प्र॒ऽत॒रम् । ता॒रय॑न्त: । ज॒रसे॑ । मा॒ । ज॒रत्ऽअ॑ष्टिम् । व॒र्ध॒न्तु॒ ॥३.१०॥
Mantra 11
वर्च॑सा॒ मांसम॑नक्त्व॒ग्निर्मे॒धां मे॒ विष्णु॒र्न्यनक्त्वा॒सन्। र॒यिं मे॒ विश्वे॒ निय॑च्छन्तु दे॒वाः स्यो॒ना मापः॒ पव॑नैः पुनन्तु ॥
वर्च॑सा । माम् । सम् । अ॒न॒क्तु॒ । अ॒ग्नि: । मे॒धाम् । मे॒ । विष्णु॑: । नि । अ॒न॒क्तु॒ । आ॒सन् । र॒यिम् । मे॒ । विश्वे॑ । नि । य॒च्छ॒न्तु॒ । दे॒वा: । स्यो॒ना: । मा॒ । आप॑: । पव॑नै: । पु॒न॒न्तु॒ ॥३..११॥
Mantra 12
मि॒त्रावरु॑णा॒परि॒ माम॑धातामादि॒त्या मा॒ स्वर॑वो वर्धयन्तु। वर्चो॑ म॒ इन्द्रो॒ न्यनक्तु॒हस्त॑योर्ज॒रद॑ष्टिं मा सवि॒ता कृ॑णोतु ॥
मि॒त्रावरु॑णा । परि॑ । माम् । अ॒धा॒ता॒म् । आ॒दि॒त्या: । मा॒ । स्वर॑व: । व॒र्ध॒य॒न्तु॒ । वर्च॑: । मे॒ । इन्द्र॑: । नि । अ॒न॒क्तु॒ । हस्त॑यो: । ज॒रत्ऽअ॒ष्टिम् । मा॒ । स॒वि॒ता । कृ॒णो॒तु॒ ॥३.१२॥
Mantra 13
यो म॒मार॑प्रथ॒मो मर्त्या॑नां॒ यः प्रे॒याय॑ प्रथ॒मो लो॒कमे॒तम्। वै॑वस्व॒तं सं॒गम॑नं॒जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ॥
य:। म॒मार॑ । प्र॒थ॒म: । मर्त्या॑नाम् । य:। प्र॒ऽई॒याय॑ । प्र॒थ॒म: । लो॒कम् । ए॒तम् । वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । स॒प॒र्य॒त॒ ॥३.१३॥
Mantra 14
परा॑ यात पितर॒ आच॑ याता॒यं वो॑ य॒ज्ञो मधु॑ना॒ सम॑क्तः। द॒त्तो अ॒स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रंर॒यिं च॑ नः॒ सर्व॑वीरं दधात ॥
परा॑ । या॒त॒ । पि॒त॒र॒: । आ । च॒ । या॒त॒। अ॒यम् । व॒: । य॒ज्ञ: । मधु॑ना । सम्ऽअ॑क्त: । द॒त्तो इति॑ । अ॒स्मभ्य॑म् । द्रवि॑णा । इ॒ह । भ॒द्रम् । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । द॒धा॒त॒ ॥३.१४॥
Mantra 15
कण्वः॑क॒क्षीवा॑न्पुरुमी॒ढो अ॒गस्त्यः॑ श्या॒वाश्वः॒ सोभ॑र्यर्च॒नानाः॑।वि॒श्वामि॑त्रो॒ऽयं ज॒मद॑ग्नि॒रत्रि॒रव॑न्तु नः क॒श्यपो॑ वा॒मदे॑वः ॥
कण्व॑: । क॒क्षीवा॑न् । पु॒रु॒ऽमी॒ढ: । अ॒गस्त्य॑: । श्या॒वऽअ॑श्व: । सोभ॑री । अ॒र्च॒नाना॑:। वि॒श्वामि॑त्र: । अ॒यम् । ज॒मत्ऽअ॑ग्नि: । अ॑त्रि: । अव॑न्तु । न॒: । क॒श्यप॑:। वा॒मऽदे॑व: ॥३.१५॥
Mantra 16
विश्वा॑मित्र॒जम॑दग्ने॒ वसि॑ष्ठ॒ भर॑द्वाज॒ गोत॑म॒ वाम॑देव। श॒र्दिर्नो॒अत्रि॑रग्रभी॒न्नमो॑भिः॒ सुसं॑शासः॒ पित॑रो मृ॒डता॑ नः ॥
विश्वा॑मित्र । जम॑त्ऽअग्ने । वसि॑ष्ठ । भर॑त्ऽवाज । गोत॑म । वाम॑ऽदेव । श॒र्दि॑: । न॒: । अत्रि॑: । अ॒ग्र॒भी॒त् । नम॑:ऽभि: । सुऽसं॑शास: । पित॑र: । मृ॒डत॑ । न॒: ॥३.१६॥
Mantra 17
क॒स्ये मृ॑जाना॒अति॑ यन्ति रि॒प्रमायु॒र्दधा॑नाः प्रत॒रं नवी॑यः। आ॒प्याय॑मानाः प्र॒जया॒धने॒नाध॑ स्याम सुर॒भयो॑ गृ॒हेषु॑ ॥
क॒स्यै । मृ॒जाना॑: । अति॑ । य॒न्ति॒ । रि॒प्रम् । आयु॑: । दधा॑ना : । प्र॒ऽत॒रम् । नवी॑य: । आ॒ऽप्याय॑माना: । प्र॒ऽजया॑ । धने॑न । अध॑ । स्या॒म॒ । सु॒र॒भय॑: । गृ॒हेषु॑ ॥३.१७॥
Mantra 18
अ॒ञ्जते॒व्यञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्यञ्जते। सिन्धो॑रुच्छ्वा॒सेप॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृह्णते ॥
अ॒ञ्जते॑ । वि । अ॒ञ्ज॒ते॒ । सम् । अ॒ञ्ज॒ते॒ । क्रतु॑म् । रि॒ह॒न्ति॒ । मधु॑ना । अ॒भि । अ॒ञ्ज॒ते॒ । सिन्धो॑: । उ॒त्ऽश्वा॒से । प॒तय॑न्तम् । उ॒क्षण॑म् । हि॒र॒ण्य॒ऽपा॒वा: । प॒शुम् । आ॒सु॒ । गृ॒ह्ण॒ते॒ ॥३.१८॥
Mantra 19
यद्वो॑ मु॒द्रंपि॑तरः सो॒म्यं च॒ तेनो॑ सचध्वं॒ स्वय॑शसो॒ हि भू॒त। ते अ॑र्वाणः कवय॒ आ शृ॑णोतसुवि॒दत्रा॑ वि॒दथे॑ हू॒यमा॑नाः ॥
यत् । व॒: । मु॒द्रम् । पि॒त॒र॒: । सो॒म्यम् । च॒ । ते॒नो॒ इति॑ । स॒च॒ध्व॒म् । स्वऽय॑शस: । हि । भू॒त । ते । अ॒र्वा॒ण॒: । क॒व॒य॒: । आ । शृ॒णो॒त॒ । सु॒ऽवि॒द॒त्रा: । वि॒दथे॑ । हू॒यमा॑ना: ॥३.१९॥
Mantra 20
ये अत्र॑यो॒अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः। दक्षि॑णावन्तः सु॒कृतो॒ यउ॒ स्थासद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥
ये । अत्र॑य: । अङ्गि॑रस: । नव॑ऽग्वा: । इ॒ष्टऽव॑न्त: । रा॒ति॒ऽसाच॑: । दधा॑ना: । दक्षि॑णाऽवन्त: । सुऽकृत॑: । ये । ऊं॒ इति॑ । स्थ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥३.२०॥
Mantra 21
अधा॒ यथा॑ नःपि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शशा॒नाः। शुचीद॑य॒न्दीध्य॑त उक्थ॒शासः॒क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ॥
अध॑ । यथा॑ । न॒: । पि॒तर॑: । परा॑स: । प्र॒त्नास॑: । अ॒ग्ने॒ । ऋ॒तम् । आ॒ऽश॒शा॒ना: । शुचि॑ । इत् । अ॒य॒न् । दीध्य॑त: । उ॒क्थ॒ऽशस॑: । क्षाम॑ । भि॒न्दन्त॑: । अ॒रु॒णी: । अप॑ । व्र॒न् ॥३.२१॥
Mantra 22
सु॒कर्मा॑णःसु॒रुचो॑ देव॒यन्तो॒ अयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः। शु॒चन्तो॑ अ॒ग्निंवा॑वृ॒धन्त॒ इन्द्र॑मु॒र्वीं गव्यां॑ परि॒षदं॑ नो अक्रन् ॥
सु॒ऽकर्मा॑ण: । सु॒ऽरुच॑: । दे॒व॒ऽयन्त॑: । अय॑: । न । दे॒वा: । जनि॑म । धम॑न्त: । शु॒चन्त॑: । अ॒ग्निम् । व॒वृ॒धन्त॑: । इन्द्र॑म् । उ॒र्वीम् । गव्या॑म् । प॒रि॒ऽसद॑म् । न॒:। अ॒क्र॒न् ॥३.२२॥
Mantra 23
आ यू॒थेव॑क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ जनि॒मान्त्यु॒ग्रः।मर्ता॑सश्चिदु॒र्वशीर॑कृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥
आ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्व: । अ॒ख्य॒त् । दे॒वाना॑म् । जनि॑म । अन्ति॑ । उ॒ग्र: । मर्ता॑स: । चि॒त् । उ॒र्वशी॑: । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्य: । उप॑रस्य । आ॒यो: ॥३.२३॥
Mantra 24
अक॑र्म ते॒स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः। विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वाबृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥
अक॑र्म । ते॒ । सु॒ऽअप॑स: । अ॒भू॒म॒ । ऋ॒तम् । अ॒व॒स्र॒न् । उ॒षस॑: । वि॒ऽभा॒ती: । विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वा: । बृ॒हत्। व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीरा॑: ॥३.२४॥
Mantra 25
इन्द्रो॑ माम॒रुत्वा॒न्प्राच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
इन्द्र॑: । मा॒ । म॒रुत्वा॑न् । प्राच्या॑: । दि॒श: । पा॒तु॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्यामऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२५॥
Mantra 26
धा॒ता मा॒निरृ॑त्या॒ दक्षि॑णाया दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑इवो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
धा॒ता । मा॒ । नि:ऽऋ॑त्या: । दक्षि॑णाया: । दि॒श: । पा॒तु॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२६॥
Mantra 27
अदि॑तिर्मादि॒त्यैः प्र॒तीच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वीद्यामि॑वो॒परि॑। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥
अदि॑ति: । मा॒ । आ॒दि॒त्यै: । प्र॒तीच्या॑: । दि॒श: । पा॒तु॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्यामऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२७॥
Mantra 28
सोमो॑ मा॒विश्वै॑र्दे॒वैरुदी॑च्या दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
सोम॑: । मा॒ । विश्वै॑: । दे॒वै: । उदी॑च्या: । दि॒श: । पा॒तु॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्यामऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२८॥
Mantra 29
ध॒र्ता ह॑ त्वाध॒रुणो॑ धारयाता ऊ॒र्ध्वं भा॒नुं स॑वि॒ता द्यामि॑वो॒परि॑। लो॑क॒कृतः॑ पथि॒कृतो॑यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
ध॒र्ता । ह॒ । त्वा॒ । ध॒रुण॑: । धा॒र॒या॒तै॒ । ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । द्याम्ऽइ॒व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२९॥
Mantra 30
प्राच्यां॑ त्वादि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
प्राच्या॑म् । त्वा॒ । दि॒शि॒ । पु॒रा । स॒म्ऽवृत॑: । स्व॒धाया॑म् । आ । द॒धा॒मि॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३०॥
Mantra 31
दक्षि॑णायां त्वादि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
दक्षि॑णायाम् । त्वा॒ । दि॒शि । पु॒रा । स॒म्ऽवृत॑:। स्व॒धाया॑म् । आ । द॒धा॒मि॒। बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइव॑ । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३१॥
Mantra 32
प्र॒तीच्यां॑त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वीद्यामि॑वो॒परि॑। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥
प्र॒तीच्या॑म् । त्वा॒ । दि॒शि । पु॒रा । स॒म्ऽवृत॑: । स्व॒धाया॑म् । आ । द॒धा॒मि॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३२॥
Mantra 33
उदी॑च्यां त्वादि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
उदी॑च्याम् । त्वा॒ । दि॒शि । पु॒रा । स॒म्ऽवृत॑: । स्व॒धाया॑म् ।आ । द॒धा॒मि॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३३॥
Mantra 34
ध्रु॑वायां त्वादि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
ध्रु॒वाया॑म् । त्वा॒ । दि॒शि । पु॒रा । स॒म्ऽवृत॑: । स्व॒धाया॑म् ।आ । द॒धा॒मि॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३४॥
Mantra 35
ऊ॑र्ध्वायां त्वादि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
ऊ॒र्ध्वाया॑म् । त्वा॒ । दि॒शि । पु॒रा । स॒म्ऽवृत॑: । स्व॒धाया॑म् । आ । द॒धा॒मि॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३५॥
Mantra 36
ध॒र्तासि॑ध॒रुणो॑ऽसि॒ वंस॑गोऽसि ॥
ध॒र्ता । अ॒सि॒ । ध॒रुण॑: । अ॒सि॒ । वंस॑ग: । अ॒सि॒ ॥३.३६॥
Mantra 37
उ॑द॒पूर॑सिमधु॒पूर॑सि वात॒पूर॑सि ॥
उ॒द॒ऽपू: । अ॒सि॒ । म॒धु॒ऽपू: । अ॒सि॒ । वा॒त॒ऽपू: । अ॒सि॒ ॥३.३७॥
Mantra 38
इ॒तश्च॑मा॒मुत॑श्चावतां य॒मे इ॑व॒ यत॑माने॒ यदै॒तम्। प्र वां॑ भर॒न्मानु॑षा देव॒यन्त॒आ सी॑दतां॒ स्वमु॑ लो॒कं विदा॑ने ॥
इ॒त: । च॒ । मा॒ । अ॒मुत॑: । च॒ । अ॒व॒ता॒म् । य॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐ॒तम् । प्र । वा॒म् । भ॒र॒न् । मानु॑षा: । दे॒व॒ऽयन्त॑: । आ । सी॒द॒ता॒म् । स्वम् । ऊं॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ ॥३.३८॥
Mantra 39
स्वा॑स॒स्थेभ॑वत॒मिन्द॑वे नो यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भिः। वि श्लोक॑ एतिप॒थ्येव सू॒रिः शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृता॑स ए॒तत् ॥
स्वास॑स्थे॒ इति॑ सु॒ऽआस॑स्थे । भ॒व॒त॒म् । इन्द॑वे । न॒: । यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नम॑:ऽभि: । वि । श्लोक॑ । ए॒ति॒ । प॒थ्या॑ऽइव । सू॒रि: । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृता॑स: । ए॒तत् ॥३.३९॥
Mantra 40
त्रीणि॑ प॒दानि॑रु॒पो अन्व॑रोह॒च्चतु॑ष्पदी॒मन्वे॑तद्व्र॒तेन॑। अ॒क्षरे॑ण॒ प्रति॑ मिमीतेअ॒र्कमृ॒तस्य॒ नाभा॑व॒भि सं पु॑नाति ॥
त्रीणि॑ । प॒दानि॑ । रु॒प: । अनु॑ । अ॒रो॒ह॒त् । चतु॑:ऽपदीम् । अनु॑ । ए॒त॒त् । व्र॒तेन॑ । अ॒क्षरे॑ण । प्रति॑ । मि॒मी॒ते॒ । अ॒र्कम् । ऋ॒तस्य॑ । नाभौ॑ । अ॒भि । सम् । पु॒ना॒ति॒ ॥३.४०॥
Mantra 41
दे॒वेभ्यः॒कम॑वृणीत मृ॒त्युं प्र॒जायै॒ किम॒मृतं॒ नावृ॑णीत। बृह॒स्पति॑र्य॒ज्ञम॑तनुत॒ऋषिः॑ प्रि॒यां य॒मस्त॒न्वमा रि॑रेच ॥
दे॒वेभ्य॑: । कम् । अ॒वृ॒णी॒त॒ । मृ॒त्युम् । प्र॒ऽजायै॑ । किम् । अ॒मृत॑म् । न । अ॒वृ॒णी॒त॒ । बृह॒स्पति॑: । य॒ज्ञम् । अ॒त॒नु॒त॒ । ऋषि॑: । प्रि॒याम् । य॒म: । त॒न्व॑म् । आ । रि॒रे॒च॒ ॥३.४१॥
Mantra 42
त्वम॑ग्न ईडि॒तोजा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा। प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ तेअ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥
त्वम् । अ॒ग्ने॒ । ई॒डि॒त: । जा॒त॒ऽवे॒द॒: । अवा॑ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वा। प्र । अ॒दा॒: । पि॒तृऽभ्य॑:। स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥३.४२॥
Mantra 43
आसी॑नासोअरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य। पु॒त्रेभ्यः॑ पितर॒स्तस्य॒वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ॥
आसी॑नास: । अ॒रु॒णीना॑म् । उ॒पऽस्थे॑ । र॒यिम् । ध॒त्त॒ । दा॒शुषे॑ । मर्त्या॑य । पु॒त्रेभ्य: । पि॒त॒र॒: । तस्य॑ । वस्व॑: । प्र । य॒च्छ॒त॒ । ते । इ॒ह । ऊर्ज॑म् । द॒धा॒त॒ ॥३.४३॥
Mantra 44
अग्नि॑ष्वात्ताःपितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः। अ॒त्तो ह॒वींषि॒ प्रय॑तानि ब॒र्हिषि॑र॒यिं च॑ नः॒ सर्व॑वीरं दधात ॥
अग्नि॑ऽस्वात्ता: । पि॒त॒र॒: । आ । इ॒ह । ग॒च्छ॒त॒ । सद॑:ऽसद: । स॒द॒त॒ । सु॒ऽप्र॒नी॒त॒य॒: । अ॒त्तो इति॑ । ह॒वींषि॑ । प्रऽय॑तानि । ब॒र्हिषि॑ । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । द॒धा॒त॒ ॥३.४४॥
Mantra 45
उप॑हूता नःपि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्येषु नि॒धिषु॑ प्रि॒येषु॑। त आ ग॑मन्तु॒ त इ॒हश्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ तेऽव॑न्त्व॒स्मान् ॥
उप॑ऽहूता: । न॒: । पि॒तर॑: । सो॒म्यास॑: । ब॒र्हि॒ष्ये॑षु । नि॒ऽधिषु॑ । प्रि॒येषु॑ । ते । आ । ग॒म॒न्तु॒ । ते । इ॒ह । श्रु॒व॒न्तु॒ । अधि॑ । ब्रु॒व॒न्तु॒ । ते । अ॒व॒न्तु॒ । अ॒स्मान् ॥३.४५॥
Mantra 46
ये नः॑ पि॒तुःपि॒तरो॒ ये पि॑ताम॒हा अ॑नूजहि॒रे सो॑मपी॒थं वसि॑ष्ठाः। तेभि॑र्य॒मः सं॑ररा॒णोह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥
ये । न॒: । पि॒तु: । पि॒तर॑: । ये । पि॒ता॒म॒हा: । अ॒नु॒ऽज॒हि॒रे । सो॒म॒ऽपी॒थम् । वसि॑ष्ठा: । तेभि॑: । य॒म: । स॒म्ऽर॒रा॒ण: । ह॒वींषि॑ । उ॒शन् । उ॒शत्ऽभि॑: । प्र॒ति॒ऽका॒मम् । अ॒त्तु॒ ॥३.४६॥
Mantra 47
येता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः। आग्ने॑ याहिस॒हस्रं॑ देवव॒न्दैः स॒त्यैः क॒विभि॒रृषि॑भिर्घर्म॒सद्भिः॑ ॥
ये । त॒तृ॒षु: । दे॒व॒ऽत्रा । जेह॑माना: । हो॒त्रा॒ऽविद॑: । स्तोम॑ऽतष्टास: । अ॒कै: । आ । अ॒ग्ने॒ । या॒हि॒ । स॒हस्र॑म् । दे॒व॒ऽव॒न्दै: । स॒त्यै: । क॒विऽभि॑: । ऋषि॑ऽभि: । घ॒र्म॒सत्ऽभे॑: ॥३.४७॥
Mantra 48
ये स॒त्यासो॑हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेण॑। आग्ने॑ याहिसुवि॒दत्रे॑भिर॒र्वाङ्परैः॒ पूर्वै॒रृषि॑भिर्घर्म॒सद्भिः॑ ॥
ये । स॒त्यास॑: । ह॒वि॒:ऽअद॑: । ह॒वि॒:ऽपा: । इन्द्रे॑ण । दे॒वै: । स॒ऽरथ॑म् । तु॒रेण॑ । आ । अ॒ग्रे॒ । या॒हि॒ । सु॒ऽवि॒दत्रे॑भि: । अ॒र्वाङ् । परै॑: । पूर्वै॑: । ऋषि॑ऽभि: । घ॒र्म॒सत्ऽभि॑: ॥३.४८॥
Mantra 49
उप॑ सर्प मा॒तरं॒भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म्। ऊर्ण॑म्रदाः पृथि॒वी दक्षि॑णावतए॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त् ॥
उप॑ । स॒र्प॒ । मा॒तर॑म् । भूमि॑म् । ए॒ताम् । उ॒रु॒ऽव्यच॑सम् । पृ॒थि॒वीम् । सु॒ऽशेवा॑म् । ऊर्ण॑ऽम्रदा: । पृ॒थि॒वी । दक्षि॑णाऽवते । ए॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् ॥३.४९॥
Mantra 50
उच्छ्व॑ञ्चस्वपृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपसर्प॒णा। मा॒ता पु॒त्रं यथा॑सि॒चाभ्येनं भूम ऊर्णुहि ॥
उत् । श्व॒ञ्च॒स्व॒ । पृ॒थि॒वि॒ । मा । नि । वा॒ध॒था॒: । सु॒ऽउ॒पा॒य॒ना । अ॒स्मै॒ । भ॒व॒ । सु॒ऽउ॒प॒स॒र्प॒णा । मा॒ता । पु॒त्रम् । यथा॑ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥३.५०॥
Mantra 51
उच्छ्वञ्च॑मानापृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम्। ते गृ॒हासो॑घृत॒श्चुतः॑ स्यो॒ना वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥
उ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । तु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मित॑: । उप॑ । हि । श्रय॑न्ताम् । ते । गृ॒हास॑: । घृ॒त॒ऽश्चुत॑:। स्यो॒ना:। वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णा: । स॒न्तु॒ । अत्र॑ ॥३.५१॥
Mantra 52
उत्ते॑ स्तभ्नामिपृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम्। ए॒तां स्थूणां॑ पि॒तरो॑धारयन्ति ते॒ तत्र॑ य॒मः साद॑ना ते कृणोतु ॥
उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि॑ । इ॒मम् । लो॒गम् । नि॒ऽदध॑त् । मो इति॑ । अ॒हम् । रि॒ष॒म् । ए॒ताम् । स्थूणा॑म् । पि॒तर॑:। धा॒र॒य॒न्ति॒ । ते॒ । तत्र॑ । य॒म: । सद॑ना । ते॒ । कृ॒णो॒तु॒ ॥३.५२॥
Mantra 53
इ॒मम॑ग्ने चम॒संमा वि जि॒ह्वरः॑ प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म्। अ॒यं यश्च॑म॒सोदे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् ॥
इ॒मम् । अ॒ग्ने॒ । च॒म॒सम् । मा । वि । जि॒ह्व॒र॒: । प्रि॒य: । दे॒वाना॑म् । उ॒त । सो॒म्याना॑म् । अ॒यम् । य: । च॒म॒स: । दे॒व॒ऽपान॑: । तस्मि॑न् । दे॒वा: । अ॒मृता॑: । मा॒द॒य॒न्ता॒म् ॥३.५३॥
Mantra 54
अथ॑र्वापू॒र्णं च॑म॒सं यमि॑न्द्रा॒याबि॑भर्वा॒जिनी॑वते। तस्मि॑न्कृणोति सुकृ॒तस्य॑भ॒क्षं तस्मि॒न्निन्दुः॑ पवते विश्व॒दानीम् ॥
अथ॑र्वा । पू॒र्णम् । च॒म॒सम् । यम् । इन्द्रा॑य । अबि॑भ: । वा॒जिनी॑ऽवते । तस्मि॑न् । कृ॒णो॒ति॒ । सु॒ऽकृ॒तस्य॑ । भ॒क्षम् । तस्मि॑न् इन्दु॑: । प॒व॒ते॒ । वि॒श्व॒ऽदानी॑म् ॥३.५४॥
Mantra 55
यत्ते॑ कृ॒ष्णःश॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः। अ॒ग्निष्टद्वि॒श्वाद॑ग॒दंकृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णाँ आ॑वि॒वेश॑ ॥
यत् । ते॒ । कृ॒ष्ण: । श॒कु॒न: । आ॒ऽतु॒तोद॑ । पि॒पी॒ल: । स॒र्प: । उ॒त । वा॒ । श्वाप॑द: । अ॒ग्नि: । तत् । वि॒श्व॒ऽअत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोम॑: । च॒ । य । ब्रा॒ह्म॒णान् । आ॒ऽवि॒वेश॑ ॥३.५५॥
Mantra 56
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं पयः॑। अ॒पां पय॑सो॒ यत्पय॒स्तेन॑ मा स॒हशु॑म्भतु ॥
पय॑स्वती: । ओष॑धय: । पय॑स्वत् । मा॒म॒कम् । पय॑: । अ॒पाम् । पय॑स: । यत् । पय॑: । तेन॑ । मा॒ । स॒ह । शु॒म्भ॒तु॒ ॥३.५६॥
Mantra 57
इ॒मानारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्। अ॑न॒श्रवो॑अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥
इ॒मा:। नारी॑: । अ॒वि॒ध॒वा: । सु॒ऽपत्नी॑: । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । स्पृ॒श॒न्ता॒म् । अ॒न॒श्रव॑: । अ॒न॒मी॒वा: । सु॒ऽरत्ना॑: । आ । रो॒ह॒न्तु॒ । जन॑य: । योनि॑म् । अग्रे॑ ॥५.५७॥
Mantra 58
सं ग॑च्छस्वपि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्योमन्। हि॒त्वाव॒द्यंपुन॒रस्त॒मेहि॒ सं ग॑च्छतां त॒न्वा सु॒वर्चाः॑ ॥
सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभि॑: । सम् । य॒मेन॑ । इ॒ष्टापू॒र्तेन॑ । प॒र॒मे । विऽओ॑मन् । हि॒त्वा । अ॒व॒द्यम् । पुन॑: । अस्त॑म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒ता॒म् । त॒न्वा॑ । सु॒ऽवर्चा॑: ॥५.५८॥
Mantra 59
ये नः॑ पि॒तुःपि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॑न्तरि॑क्षम्। तेभ्यः॑स्व॒राडसु॑नीतिर्नो अ॒द्य व॑थाव॒शं त॒न्वः कल्पयाति ॥
ये । न: । पि॒तु: । पि॒तर॑: । ये । पि॒ता॒म॒हा: । ये । आ॒ऽवि॒वि॒शु: । उ॒रु । अ॒न्तरि॑क्षम् । तेभ्य॑: । स्व॒ऽराट् । असु॑ऽनीति: । न॒: । अ॒द्य । य॒था॒ऽव॒शम् । त॒न्व॑: । क॒ल्प॒या॒ति॒ ॥३.५९॥
Mantra 60
शं॑ ते नीहा॒रोभ॑वतु॒ शं ते॑ प्रु॒ष्वाव॑ शीयताम्। शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ह्लादि॑कावति। म॑ण्डू॒क्यप्सु शं भु॑व इ॒मं स्वग्निं श॑मय ॥
शम् । ते॒ । नी॒हा॒र: । भ॒व॒तु॒ । शम् । ते॒ । प्रु॒ष्वा । अव॑ । शी॒य॒ता॒म् । शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति । म॒ण्डू॒की । अ॒प्ऽसु । शम् । भु॒व॒: । इ॒मम् । सु । अ॒ग्निम् । श॒म॒य॒ ॥३.६०॥
Mantra 61
वि॒वस्वा॑न्नो॒अभ॑यं कृणोतु॒ यः सु॒त्रामा॑ जी॒रदा॑नुः सु॒दानुः॑। इ॒हेमे वी॒रा ब॒हवो॑भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम् ॥
वि॒वस्वा॑न् । न॒: । अभय॑म् । कृ॒णो॒तु॒ । य: । सु॒ऽत्रामा॑ । जी॒रऽदा॑नु: । सु॒ऽदानु॑: । इ॒ह । इ॒मे । वी॒रा: । ब॒हव॑: । भ॒व॒न्तु॒ । गोऽम॑त् । अश्व॑ऽवत् । मयि॑ । अ॒स्तु॒ । पु॒ष्टम् ॥३.६१॥
Mantra 62
वि॒वस्वा॑न्नोअमृत॒त्वे द॑धातु॒ परै॑तु मृ॒त्युर॒मृतं॑ न॒ ऐतु॑। इ॑मान्रक्षतु॒ पुरु॑षा॒नाज॑रि॒म्णो मो ष्वेषा॒मस॑वो य॒मं गुः॑ ॥
वि॒वस्वा॑न् । न॒: । अ॒मृ॒त॒ऽत्वे । द॒धा॒तु॒ । परा॑ । ए॒तु॒ । मृ॒त्यु॒: । अ॒मृत॑म् । न॒: । आ । ए॒तु॒ । इ॒मान् । र॒क्ष॒तु॒ । पुरु॑षान् । आ । ज॒रि॒म्ण: । मो इति॑ । सु । ए॒षा॒म् । अस॑व: । य॒मम् । गु॒: ॥३.६२॥
Mantra 63
यो द॒ध्रेअ॒न्तरि॑क्षे॒ न म॑ह्ना पितॄ॒णां क॒विः प्रम॑तिर्मती॒नाम्। तम॑र्चतवि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात् ॥
य: । द॒ध्रे । अ॒न्तरि॑क्षे । न । म॒ह्ना । पि॒तॄ॒णाम् । क॒वि: । प्रऽम॑ति: । म॒ती॒नाम् । तम् । अ॒र्च॒त॒ । वि॒श्वऽमि॑त्रा: । ह॒वि:ऽभि॑: । स: । न॒: । य॒म: । प्र॒ऽत॒रम् । जी॒वसे॑ । धा॒त् ॥३.६३॥
Mantra 64
आ रो॑हत॒दिव॑मुत्त॒मामृष॑यो॒ मा बि॑भीतन। सोम॑पाः॒ सोम॑पायिन इ॒दं वः॑ क्रियतेह॒विरग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
आ । रो॒ह॒त॒ । दिव॑म् । उ॒त्ऽत॒माम् । ऋष॑य: । मा । बि॒भी॒त॒न॒ । सोम॑ऽपा: । सोम॑ऽपायिन: । इ॒दम् । व॒: । क्रि॒य॒ते॒ । ह॒वि: । अग॑न्म । ज्योति॑: । उ॒त्ऽत॒मम् ॥३.६४॥
Mantra 65
प्र के॒तुना॑बृह॒ता भा॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति।दि॒वश्चि॒दन्ता॑दुप॒मामुदा॑नड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥
प्र । के॒तुना॑ । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्नि: । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भ: । रो॒र॒वी॒ति॒ । दि॒व: । चि॒त् । अन्ता॑त् । उ॒प॒ऽमाम् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒ष: । व॒व॒र्ध॒ ॥३.६५॥
Mantra 66
नाके॑सुप॒र्णमुप॒ यत्पत॑न्तं॒ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा। हिर॑ण्यपक्षं॒वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥
नाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्त: । अ॒भि॒ऽअच॑क्षत । त्वा॒ । हिर॑ण्यऽयक्षम् । वरु॑णस्य । दू॒तम । य॒मस्य॑ । योनौ॑ । श॒कु॒नम् । भु॒र॒ण्यम् ॥३.६६॥
Mantra 67
इन्द्र॒ क्रतुं॑न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑। शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वाज्योति॑रशीमहि ॥
इन्द्र॑ । क्रतु॑म् । न॒:। आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्य॑: । यथा॑ । शिक्ष॑ । न॒: । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वा: । ज्योति॑: । अ॒शी॒म॒हि॒ ॥३.६७॥
Mantra 68
अ॑पू॒पापि॑हितान्कु॒म्भान्यांस्ते॑ दे॒वा अधा॑रयन्। ते ते॑ सन्तु स्व॒धाव॑न्तो॒मधु॑मन्तो घृत॒श्चुतः॑ ॥
अ॒पू॒पऽअ॑पिहितान् । कु॒म्भान् । यान् । ते॒ । दे॒वा: । अधा॑रयन् । ते । ते॒ । स॒न्तु॒ । स्व॒धाऽव॑न्त: । मधु॑ऽमन्त: । घृ॒त॒ऽश्चुत॑: ॥३.६८॥
Mantra 69
यास्ते॑ धा॒नाअ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तु वि॒भ्वीःप्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ॥
या: । ते॒ । धा॒ना: । अ॒नु॒ऽकि॒रामि॑ । ति॒लऽमि॑श्रा: । स्व॒धाऽव॑ती: । ता: । ते॒ । स॒न्तु॒ । वि॒ऽभ्वी: । प्र॒ऽभ्वी: । ता: । ते॒ । य॒म: । राजा॑ । अनु॑ । म॒न्य॒ता॒म् ॥३.६९॥
Mantra 70
पुन॑र्देहिवनस्पते॒ य ए॒ष निहि॑त॒स्त्वयि॑। यथा॑ य॒मस्य॒ साद॑न॒ आसा॑तै वि॒दथा॒ वद॑न्॥
पुन॑: । दे॒हि॒ । व॒न॒स्प॒ते॒ । य: । ए॒ष: । निऽहि॑त: । त्वयि॑ । यथा॑ । य॒मस्य॑ । सद॑ने । आसा॑तै । वि॒दथा॑ । वद॑न् ॥३.७०॥
Mantra 71
आ र॑भस्वजातवेद॒स्तेज॑स्व॒द्धरो॑ अस्तु ते। शरी॑रमस्य॒ सं द॒हाथै॑नं धेहि सु॒कृता॑मुलो॒के ॥
आ । र॒भ॒स्व॒ । जा॒त॒ऽवे॒द॒: । तेज॑स्वत् । हर॑: । अ॒स्तु॒ । ते॒ । शरी॑रम् । अ॒स्य॒ । सम् । द॒ह॒ । अथ॑ । ए॒न॒म् । धे॒हि । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒के ॥३.७१॥
Mantra 72
ये ते॒ पूर्वे॒परा॑गता॒ अप॑रे पि॒तर॑श्च॒ ये। तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैतु श॒तधा॑राव्युन्द॒ती ॥
ये । ते॒ । पूर्वे॑ । परा॑ऽगता: । अप॑रे । पि॒तर॑: । च॒ । ये । तेभ्य॑: । घृ॒तस्य॑ । कु॒ल्या॑ । ए॒तु॒ । श॒तऽधा॑रा । वि॒ऽउ॒द॒न्ती ॥३.७२॥
Mantra 73
ए॒तदा रो॑ह॒ वय॑उन्मृजा॒नः स्वा इ॒ह बृ॒हदु॑ दीदयन्ते। अ॒भि प्रेहि॑ मध्य॒तो माप॑ हास्थाःपितॄ॒णां लो॒कं प्र॑थ॒मो यो अत्र॑ ॥
ए॒तत् । आ । रो॒ह॒ । वय॑: । उ॒त्ऽमृ॒जा॒न: । स्वा: । इ॒ह । बृ॒हत् । ऊं॒ इति॑ । दी॒द॒य॒न्ते॒ । अ॒भि । प्र । इ॒हि॒ । म॒ध्य॒त: । मा ।अप॑ । हा॒स्था॒: । पि॒तॄणाम् । लो॒कम् । प्र॒थ॒म:। य: । अत्र॑ ॥३.७३॥