Mantra 1
य॒माय॒ सोमः॑पवते य॒माय॑ क्रियते ह॒विः। य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥
य॒माय॑ । सोम॑: । प॒व॒ते॒ । य॒माय॑ । क्रि॒य॒ते॒ । ह॒वि: । य॒मम् । ह॒ । य॒ज्ञ: । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥२.१॥
Mantra 2
य॒माय॒मधु॑मत्तमं जु॒होता॒ प्र च॑ तिष्ठत। इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒पूर्वे॑भ्यः पथि॒कृद्भ्यः॑ ॥
य॒माय॑ । मधु॑मत्ऽतमम् । जु॒होत॑ । प्र । च॒ । ति॒ष्ठ॒त॒ । इ॒दम् । नम॑: । ऋषि॑ऽभ्य: । पू॒र्व॒ऽजेभ्य॑: । पूर्वे॑भ्य: । प॒थि॒कृत्ऽभ्य॑: ॥२.२॥
Mantra 3
य॑मायघृ॒तव॒त्पयो॒ राज्ञे॑ ह॒विर्जु॑होतन। स नो॑ जी॒वेष्वा य॑मेद्दी॒र्घमायुः॒ प्रजी॒वसे॑ ॥
य॒माय॑ । घृ॒तऽव॑त् । पय॑: । राज्ञे॑ । ह॒वि: । जु॒हो॒त॒न॒ । स: । न॒: । जी॒वेषु॑ । आ । य॒मे॒त् । दी॒र्घम् । आयु॑: । प्र । जी॒वसे॑ ॥२.३॥
Mantra 4
मैन॑मग्ने॒ विद॑हो॒ माभि॑ शूशुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम्। शृ॒तं य॒दा कर॑सिजातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात्पि॒तॄँरुप॑ ॥
मा । ए॒न॒म् । अ॒ग्ने॒ । वि । द॒ह॒: । मा । अ॒भि । शू॒शु॒च॒:। मा । अ॒स्य॒ । त्वच॑म् । चि॒क्षि॒प॒: । मा । शरी॑रम् । शृ॒तम् । य॒दा । कर॑सि । जा॒त॒ऽवे॒द॒: । अथ॑ । ई॒म् । ए॒न॒म् । प्र । हि॒नु॒ता॒त् । पि॒तॄन् । उप॑ ॥१.४॥
Mantra 5
य॒दा शृ॒तंकृ॒णवो॑ जातवे॒दोऽथे॒ममे॑नं॒ परि॑ दत्तात्पि॒तृभ्यः॑। य॒दोगच्छा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥
य॒दा । शृ॒तम् । कृ॒णव॑: । जा॒त॒ऽवे॒द॒: । अथ॑ । इ॒मम् । ए॒न॒म् । परि॑ । द॒त्ता॒त् । पि॒तृऽभ्य॑: । य॒दो इति॑ । गच्छा॑ति । असु॑ऽनीतिम् । ए॒ताम् । अथ॑ । दे॒वाना॑म् । व॒श॒ऽनी: । भ॒वा॒ति॒ ॥२.५॥
Mantra 6
त्रिक॑द्रुकेभिःपवते॒ षडु॒र्वीरेक॒मिद्बृ॒हत्। त्रि॒ष्टुब्गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒मआर्पि॑ता ॥
त्रिऽक॑द्रुकेभि: । प॒व॒ते॒ । षट् । उ॒र्वी: । एक॑म् । इत् । बृ॒हत् । त्रि॒ऽस्तुप:। गा॒य॒त्री । छन्दां॑सि । सर्वा॑ । ता । य॒मे । आर्पि॑ता ॥२.६॥
Mantra 7
सूर्यं॒ चक्षु॑षागच्छ॒ वात॑मा॒त्मना॒ दिवं॑ च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑भिः। अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ॥
सूर्य॑म् । चक्षु॑षा । ग॒च्छ॒ । वात॑म् । आ॒त्मना॑ । दिव॑म् । च॒ । गच्छ॑ । पृ॒थि॒वीम् । च॒ । धर्म॑ऽभि: । अ॒प: । वा॒ । ग॒च्छ॒ । यदि॑ । तत्र॑ । ते॒ । हि॒तम् । ओष॑धीषु । प्रति॑ । ति॒ष्ठ॒ । शरी॑रै: ॥२.७॥
Mantra 8
अ॒जोभा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः। यास्ते॑शि॒वास्त॒न्वो जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥
अ॒ज: । भा॒ग: । तप॑स: । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चि: । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चि: । या: । ते॒ । शि॒वा: । त॒न्व᳡: । जा॒त॒ऽवे॒द॒: । ताभि॑: । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒कम् ॥२.८॥
Mantra 9
यास्ते॑ शो॒चयो॒रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। अ॒जं यन्त॒मनु॒ ताःसमृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि ॥
या: । ते॒ । शो॒चय॑: । रंह॑य: । जा॒त॒ऽवे॒द॒: । याभि॑: । आ॒ऽपृ॒णासि॑ । दिव॑म् । अ॒न्तरि॑क्षम् । अ॒जम् । यन्त॑म् । अनु॑ । ता: । सम् । ऋ॒ण्व॒ता॒म् । अथ॑ । इत॑राभि: । शि॒वऽत॑माभि: । शृ॒तम् । कृ॒धि॒ ॥२.९॥
Mantra 10
अव॑ सृज॒पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धावा॑न्। आयु॒र्वसा॑न॒ उप॑ यातु॒शेषः॒ सं ग॑च्छतां त॒न्वा सु॒वर्चाः॑ ॥
अव॑ । सृ॒ज॒ । पुन॑: । अ॒ग्ने॒ । पि॒तृऽभ्य॑: । य: । ते॒ । आऽहु॑त: । चर॑ति । स्व॒धाऽवा॑न् । आयु॑: । वसा॑न: । उप॑ । या॒तु॒ । शेष॑: । सम् । ग॒च्छ॒ता॒म् । त॒न्वा᳡ । सु॒ऽवर्चा॑: ॥२.१०॥
Mantra 11
अति॑ द्रव॒श्वानौ॑ सारमे॒यौ च॑तुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था। अधा॑पि॒तॄन्त्सु॑वि॒दत्राँ॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति ॥
अति॑ । द्र॒व॒ । श्वानौ॑ । सा॒र॒मे॒यौ । च॒तु॒:ऽअ॒क्षौ । श॒बलौ॑ । सा॒धुना॑ । प॒था । अध॑ । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अपि॑ । इ॒हि॒ । य॒मेन॑ । ये । स॒ध॒ऽमाद॑म् । मद॑न्ति ॥२.११॥
Mantra 12
यौ ते॒ श्वानौ॑यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒षदी॑ नृ॒चक्ष॑सा। ताभ्यां॑ राज॒न्परि॑ धेह्येनंस्व॒स्त्यस्मा अनमी॒वं च॑ धेहि ॥
यौ । ते॒ । श्वानौ॑ । य॒म॒ । र॒क्षि॒तारौ॑ । च॒तु॒:ऽअ॒क्षौ । प॒थि॒सदी॒ इति॑ प॒थि॒ऽसदी॑ । नृ॒ऽचक्ष॑सा । ताभ्या॑म् । रा॒ज॒न् । परि॑ । धे॒हि॒ । ए॒न॒म् । स्व॒स्ति । अ॒स्मै॒ । अ॒न॒मी॒वम् । च॒ । धे॒हि॒ ॥२.१२॥
Mantra 13
उ॑रूण॒साव॑सु॒तृपा॑वुदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑। ताव॒स्मभ्यं॑दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥
उ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒त॒:। जना॑न् । अनु॑ । तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुन॑: । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥२.१३॥
Mantra 14
सोम॒ एके॑भ्यःपवते घृ॒तमेक॒ उपा॑सते। येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गच्छतात्॥
सोम॑: । एके॑भ्य: । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । येभ्य॑: । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१४॥
Mantra 15
ये चि॒त्पूर्व॑ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑। ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ॥
ये । चि॒त् । पूर्वे॑ । ऋ॒तऽसा॑ता: । ऋ॒तऽजा॑ता: । ऋ॒त॒ऽवृध॑: । ऋषी॑न् । तप॑स्वत: । य॒म॒ । त॒प॒:ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१५॥
Mantra 16
तप॑सा॒ येअ॑नाधृ॒ष्यास्तप॑सा॒ ये स्वर्य॒युः। तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑गच्छतात् ॥
तप॑सा। ये । अ॒ना॒धृ॒ष्या: । तप॑सा । ये । स्व᳡: । य॒यु: । तप॑: । ये । च॒क्रि॒रे । मह॑: । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१६॥
Mantra 17
ये युध्य॑न्तेप्र॒धने॑षु॒ शूरा॑सो॒ ये तनू॒त्यजः॑। ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चि॑दे॒वापि॑ गच्छतात् ॥
ये । युध्य॑न्ते । प्र॒ऽधने॑षु । धूरा॑स: । ये । त॒नू॒ऽत्यज॑: । ये । वा॒ । स॒हस्र॑ऽदक्षिणा: । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१७॥
Mantra 18
स॒हस्र॑णीथाःक॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म्। ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात्॥
स॒हस्र॑ऽनीथा: । क॒वय॑: । ये । गो॒पा॒यन्ति॑ । सूर्य॑म् । ऋषी॑न् । तप॑स्वत: । य॒म॒ । त॒प॒:ऽजान् । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१८॥
Mantra 19
स्यो॒नास्मै॑ भवपृथिव्यनृक्ष॒रा नि॒वेश॑नी। यच्छा॑स्मै॒ शर्म॑ स॒प्रथाः॑ ॥
स्यो॒ना । अ॒स्मै॒ । भ॒व॒ । पृ॒थि॒वि॒ । अ॒नृ॒क्ष॒रा । नि॒ऽविश॑नी । यच्छ॑ । अ॒स्मै॒ । शर्म॑ । स॒ऽप्रथा॑: ॥२.१९॥
Mantra 20
अ॑संबा॒धेपृ॑थि॒व्या उ॒रौ लो॒के नि धी॑यस्व। स्व॒धा याश्च॑कृ॒षे जीव॒न्तास्ते॑ सन्तुमधु॒श्चुतः॑ ॥
अ॒स॒म्ऽबा॒धे । पृ॒थि॒व्या: । उ॒रौ । लो॒के । नि । धी॒य॒स्व॒ । स्व॒धा: । या: । च॒कृ॒षे । जीव॑न् । ता: । ते॒ । स॒न्तु॒ । म॒धु॒ऽश्चुत॑: ॥२.२०॥
Mantra 21
ह्वया॑मि ते॒मन॑सा॒ मन॑ इ॒हेमान्गृ॒हाँ उप॑ जुजुषा॒ण एहि॑। सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेन॑स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः ॥
ह्वया॑मि । ते॒ । मन॑सा । मन॑: । इ॒ह । इ॒मान् । गृ॒हान् । उप॑ । जु॒जु॒षा॒ण: । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभि॑: । सम् । य॒मेन॑ । स्यो॒ना: । त्वा॒ । वाता॑: । उप॑ । वा॒न्तु॒ । श॒ग्मा: ॥२.२१॥
Mantra 22
उत्त्वा॑ वहन्तुम॒रुत॑ उदवा॒हा उ॑द॒प्रुतः॑। अ॒जेन॑ कृ॒ण्वन्तः॑ शी॒तं व॒र्षेणो॑क्षन्तु॒बालिति॑ ॥
उत् । त्वा॒ । व॒ह॒न्तु॒ । म॒रुत॑: । उ॒द॒ऽवा॒हा: । उ॒द॒ऽप्रुत॑: । अ॒जेन॑ । कृ॒ण्वन्त॑: । शी॒तम् । व॒र्षेण॑ । उ॒क्ष॒न्तु॒ । बाल् । इति॑ ॥२.२२॥
Mantra 23
उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। स्वान्ग॑च्छतु ते॒ मनो॒ अधा॑पि॒तॄँरुप॑ द्रव ॥
उत् । अ॒ह्व॒म् ।आयु॑: । आयु॑षे । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ । स्वान् । ग॒च्छ॒तु॒ । ते॒ । मन॑: । अध॑ । पि॒तॄन् । उप॑ । द्र॒व॒ ॥२.२३॥
Mantra 24
मा ते॒ मनो॒मासो॒र्माङ्गा॑नां॒ मा रस॑स्य ते। मा ते॑ हास्त त॒न्वः किं च॒नेह ॥
मा । ते॒ । मन॑: । मा । असो॑: । मा । अङ्गा॑नाम् । मा । रस॑स्य । ते॒ । मा । ते॒ । हा॒स्त॒ । त॒न्व᳡: । किम् । च॒न । इ॒ह ॥२.२४॥
Mantra 25
मा त्वा॑ वृ॒क्षःसं बा॑धिष्ट॒ मा दे॒वी पृ॑थि॒वी म॒ही। लो॒कं पि॒तृषु॑ वि॒त्त्वैध॑स्व य॒मरा॑जसु॥
मा । त्वा॒ । वृ॒क्ष: । सम् । बा॒धि॒ष्ट॒ । मा । दे॒वी । पृ॒थि॒वी । म॒ही । लो॒कम् । पि॒तृषु॑ । वि॒त्त्वा । एध॑स्व । य॒मरा॑जऽसु ॥२.२५॥
Mantra 26
यत्ते॒अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः। तत्ते॑ सं॒गत्य॑पि॒तरः॒ सनी॑डा घा॒साद्घा॒सं पुन॒रा वे॑शयन्तु ॥
यत् । ते॒ । अङ्ग॑म् । अति॑ऽहितम् । प॒रा॒चै: । अ॒पा॒न: । प्रा॒ण: । य: । ऊं॒ इति॑ । वा॒ । ते॒ । परा॑ऽइत: । तत् । ते॒ । स॒म्ऽगत्य॑ । पि॒तर॑: । सऽनी॑डा: । घा॒सात् । घा॒सम् । पुन॑: । आ । वे॒श॒य॒न्तु॒ ॥२.२६॥
Mantra 27
अपे॒मं जी॒वाअ॑रुधन्गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः। मृ॒त्युर्य॒मस्या॑सीद्दू॒तःप्रचे॑ता॒ असू॑न्पि॒तृभ्यो॑ गम॒यां च॑कार ॥
अप॑ । इ॒मम् । जी॒वा: । अ॒रु॒ध॒न् । गृ॒हेभ्य॑: । तम् । नि: । व॒ह॒त॒ । परि॑ । ग्रामा॑त् । इ॒त: । मृ॒त्यु: । य॒मस्य॑ । आ॒सी॒त् । दू॒त: । प्रऽचे॑ता: । असू॑न् । पि॒तृऽभ्य॑: । ग॒म॒याम् । च॒का॒र॒ ॥२.२७॥
Mantra 28
ये दस्य॑वःपि॒तृषु॒ प्रवि॑ष्टा ज्ञा॒तिमु॑खा अहु॒ताद॒श्चर॑न्ति। प॑रा॒पुरो॑ नि॒पुरो॒ येभर॑न्त्य॒ग्निष्टान॒स्मात्प्र ध॑माति य॒ज्ञात् ॥
ये । दस्य॑व: । पि॒तृषु॑ । प्रऽवि॑ष्टा: । ज्ञा॒ति॒ऽमु॒खा: । अ॒हु॒त॒ऽअद॑: । चर॑न्ति । प॒रा॒ऽपुर॑: । नि॒ऽपुर॑:। ये । भर॑न्ति । अ॒ग्नि: । तान् । अ॒स्मात् । प्र । ध॒मा॒ति॒ । य॒ज्ञात् ॥२.२८॥
Mantra 29
सं वि॑शन्त्वि॒हपि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्तः॑ प्रति॒रन्त॒ आयुः॑। तेभ्यः॑ शकेम ह॒विषा॒नक्ष॑माणा॒ ज्योग्जीव॑न्तः श॒रदः॑ पुरू॒चीः ॥
सम् । वि॒श॒न्तु॒ । इ॒ह । पि॒तर॑: । स्वा: । न॒: ।स्यो॒नम् । कृ॒ण्वन्त॑: । प्र॒ऽति॒रन्त॑: । आयु॑: । तेभ्य॑: । श॒के॒म॒ । ह॒विषा॑ । नक्ष॑माणा: । ज्योक् । जीव॑न्त: । श॒रद॑: । पु॒रू॒ची: ॥२.२९॥
Mantra 30
यां ते॑ धे॒नुंनि॑पृ॒णामि॒ यमु॑ ते क्षी॒र ओ॑द॒नम्। तेना॒ जन॑स्यासो भ॒र्ता योऽत्रास॒दजी॑वनः॥
याम् । ते॒ । धे॒नुम् । नि॒ऽपृ॒णामि॑ । यम् । ऊं॒ इति॑ । ते॒ । क्षी॒रे । ओ॒द॒नम् । तेन॑ । जन॑स्य । अ॒स॒: । भ॒र्ता । य: । अत्र॑ । अस॑त् । अजी॑वन: ॥२.३०॥
Mantra 31
अश्वा॑वतीं॒ प्रत॑र॒ या सु॒शेवा॒र्क्षाकं॑ वा प्रत॒रं नवी॑यः। यस्त्वा॑ ज॒घान॒ वध्यः॒ सोअ॑स्तु॒ मा सो अ॒न्यद्वि॑दत भाग॒धेय॑म् ॥
अश्व॑ऽवतीम् । प्र । त॒र॒ । या । सु॒ऽशेवा॑ । ऋ॒क्षक॑म् । वा॒ । प्र॒ऽत॒रम् । नवी॑य: । य: । त्वा॒ । ज॒घान॑ । वध्य॑: । स: । अ॒स्तु॒ । मा । स: । अ॒न्यत् । वि॒द॒त॒ । भा॒ग॒ऽधेय॑म् ॥२.३१॥
Mantra 32
य॒मः परोऽव॑रो॒विव॑स्वा॒न्ततः॒ परं॒ नाति॑ पश्यामि॒ किं च॒न। य॒मे अ॑ध्व॒रो अधि॑ मे॒निवि॑ष्टो॒ भुवो॒ विव॑स्वान॒न्वात॑तान ॥
य॒म: । पर॑: । अव॑र: । विव॑स्वान् । तत॒: । पर॑म् । न । अति॑ । प॒श्या॒मि॒ । किम् । च॒न । य॒मे । अ॒ध्व॒र: । अधि॑ । मे॒ । निऽवि॑ष्ट: । भुव॑: । विव॑स्वान् । अ॒नुऽआ॑ततान ॥२.३२॥
Mantra 33
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते।उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥
अ॒प । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्य: । कृ॒त्वा । सऽव॑र्णाम् । अ॒द॒धु॒: । विव॑स्वते । उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यू: ॥२.३३॥
Mantra 34
ये निखा॑ता॒ येपरो॑प्ता॒ ये द॒ग्धा ये चोद्धि॑ताः। सर्वां॒स्तान॑ग्न॒ आ व॑ह पि॒तॄन्ह॒विषे॒अत्त॑वे ॥
ये । निऽखा॑ता: । ये । परा॑ऽउप्ता: । ये । द॒ग्धा: । ये । च॒ । उद्धि॑ता: । सर्वा॑न् । तान् । अ॒ग्ने॒ । आ । व॒ह॒ । पि॒तॄन् । ह॒विषे॑ । अत्त॑वे ॥२.३४॥
Mantra 35
ये अ॑ग्निद॒ग्धाये अन॑ग्निदग्धा॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते। त्वं तान्वे॑त्थ॒ यदि॒ तेजा॑तवेदः स्व॒धया॑ य॒ज्ञं स्वधि॑तिं जुषन्ताम् ॥
ये । अ॒ग्नि॒ऽद॒ग्धा: । ये । अ॑नग्निऽदग्धा:। मध्ये॑ । दि॒व: । स्व॒धया॑ । मा॒दय॑न्ते । त्वम् । तान् । वे॒त्थ॒ । यदि॑ । ते । जा॒त॒ऽवे॒द॒: । स्व॒धया॑ । य॒ज्ञम् । स्वऽधि॑तिम् । जु॒ष॒न्ता॒म् ॥२.३५॥
Mantra 36
शं त॑प॒ माति॑तपो॒ अग्ने॒ मा त॒न्वं तपः॑। वने॑षु॒ शुष्मो॑ अस्तु ते पृथि॒व्याम॑स्तु॒यद्धरः॑ ॥
शम् । त॒प॒ । मा । अति॑ । त॒प॒: । अग्ने॑ । मा । त॒न्व᳡म् । तप॑: । वने॑षु । शुष्म॑: । अ॒स्तु॒ । ते॒ । पृ॒थि॒व्याम् । अ॒स्तु॒ । यत् । हर॑: ॥२.३६॥
Mantra 37
ददा॑म्यस्माअव॒सान॑मे॒तद्य ए॒ष आग॒न्मम॒ चेदभू॑दि॒ह। य॒मश्चि॑कि॒त्वान्प्रत्ये॒तदा॑ह॒ममै॒ष रा॒य उप॑ तिष्ठतामि॒ह ॥
ददा॑मि । अ॒स्मै॒ । अ॒व॒ऽसान॑म् । ए॒तत् । य: । ए॒ष: । आ॒ऽअग॑न् । मम॑ । च॒ । इत् । अभू॑त् । इ॒ह । य॒म: । चि॒कि॒त्वान् । प्रति॑ । ए॒तत् । आ॒ह॒ । मम॑ । ए॒ष: । रा॒ये । उप॑ । ति॒ष्ठ॒ता॒म् । इ॒ह ॥२.३७॥
Mantra 38
इ॒मां मात्रां॑मिमीमहे॒ यथाप॑रं॒ न मासा॑तै। श॒ते श॒रत्सु॑ नो पु॒रा ॥
इ॒माम् । मात्रा॑म् । मि॒मी॒म॒हे॒ । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.३८॥
Mantra 39
प्रेमां मात्रां॑मिमीमहे॒ यथाप॑रं॒ न मासा॑तै। श॒ते श॒रत्सु॑ नो पु॒रा ॥
प्र । इ॒माम् । मात्रा॑म् । मि॒मी॒म॒हे॒ । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.२९॥
Mantra 40
अपे॒मां मात्रां॑मिमीमहे॒ यथाप॑रं॒ न मासा॑तै। श॒ते श॒रत्सु॑ नो पु॒रा ॥
अप॑ । इ॒माम् । मात्रा॑म् । मि॒मी॒म॒हे॒ । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.४०॥
Mantra 41
वी॒मां मात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै। श॒ते श॒रत्सु॑ नो पु॒रा ॥
वि । इ॒माम् । मात्रा॑म् । मि॒मी॒म॒हे॒ । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.४१॥
Mantra 42
निरि॒मांमात्रां॑ मिमीमहे॒ यथाप॑रं॒ न मासा॑तै। श॒ते श॒रत्सु॑ नो पु॒रा ॥
नि: । इ॒माम् । मात्रा॑म् । मि॒मी॒म॒हे॒ । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥ २.४२॥
Mantra 43
उदि॒मां मात्रां॑मिमीमहे॒ यथाप॑रं॒ न मासा॑तै। श॒ते श॒रत्सु॑ नो पु॒रा ॥
उत् । इ॒माम् । मात्रा॑म् । मि॒मी॒म॒हे॒ । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.४३॥
Mantra 44
समि॒मां मात्रां॑मिमीमहे॒ यथाप॑रं॒ न मासा॑तै। श॒ते श॒रत्सु॑ नो पु॒रा ॥
सम् । इ॒माम् । मात्रा॑म् । मि॒मी॒म॒हे॒ । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.४४॥
Mantra 45
अमा॑सि॒ मात्रां॒स्वरगा॒मायु॑ष्मान्भूयासम्। यथाप॑रं॒ न मासा॑तै श॒ते श॒रत्सु॑ नो पु॒रा ॥
अमा॑सि । मात्रा॑म् । स्व॑: । अ॒गा॒म् । आयु॑ष्मान् । भू॒या॒स॒म् । यथा॑ । अप॑रम् । न । मासा॑तै । श॒ते । श॒रत्ऽसु॑ । नो इति॑ । पु॒रा ॥२.४५॥
Mantra 46
प्रा॒णो अ॑पा॒नोव्या॒न आयु॒श्चक्षु॑र्दृ॒शये॒ सूर्या॑य। अप॑रिपरेण प॒था य॒मरा॑ज्ञः पि॒तॄन्ग॑च्छ॥
प्रा॒ण: । अ॒पा॒न: । वि॒ऽआ॒न: । आयु॑: । चक्षु॑: । दृ॒शये॑ । सूर्या॑य । अप॑रिऽपरेण । प॒था । य॒मऽरा॑ज्ञ: । पि॒तॄन् । ग॒च्छ॒ ॥२.४६॥
Mantra 47
ये अग्र॑वःशशमा॒नाः प॑रे॒युर्हि॒त्वा द्वेषां॒स्यन॑पत्यवन्तः। ते द्यामु॒दित्या॑विदन्तलो॒कं नाक॑स्य पृ॒ष्ठे अधि॒ दीध्या॑नाः ॥
ये । अग्र॑व: । श॒श॒मा॒ना: । प॒रा॒ऽई॒यु: । हि॒त्वा । द्वेषां॑सि । अन॑पत्यऽवन्त: । ते । द्याम् । उ॒त्ऽइत्य॑ । अ॒वि॒द॒न्त॒ । लो॒कम् । नाक॑स्य । पृ॒ष्ठे । अधि॑ । दीध्याना॑: ॥२.४७॥
Mantra 48
उ॑द॒न्वती॒द्यौर॑व॒मा पी॒लुम॒तीति॑ मध्य॒मा। तृ॒तीया॑ ह प्र॒द्यौरिति॒ यस्यां॑ पि॒तर॒आस॑ते ॥
उ॒द॒न्ऽवती॑ । द्यौ: । अ॒व॒मा । पी॒लुऽम॑ती । इति॑ । म॒ध्य॒मा । तृतीया॑ । ह॒ । प्र॒ऽद्यौ: । इति॑ । यस्या॑म् । पि॒तर॑: । आस॑ते ॥२.४८॥
Mantra 49
ये न॑ पि॒तुःपि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्वन्तरि॑क्षम्। य आ॑क्षि॒यन्ति॑पृथि॒वीमु॒त द्यां तेभ्यः॑ पि॒तृभ्यो॒ नम॑सा विधेम ॥
ये । न॒: । पि॒तु: । पि॒तर॑: । ये । पि॒ता॒म॒हा । ये । आ॒ऽवि॒वि॒शु: । उ॒रु । अ॒न्तरि॑क्षम् । ये । आऽक्षि॒यन्ति॑ । पृथि॒वीम् । उ॒त । द्याम् । तेभ्य॑: । पि॒तृऽभ्य॑: । नम॑सा । वि॒धे॒म॒ ॥२.४९॥
Mantra 50
इ॒दमिद्वा उ॒नाप॑रं दि॒वि प॑श्यसि॒ सूर्य॑म्। मा॒ता पु॒त्रं यथा॑ सि॒चाभ्येनं भूम ऊर्णुहि॥
इ॒दम् । इत् । वै । ऊं॒ इति॑ । न । अप॑रम् । दि॒वि । प॒श्य॒सि॒ । सूर्य॑म् । मा॒ता । पु॒त्रम् । यथा॑ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥२.५०॥
Mantra 51
इ॒दमिद्वा उ॒नाप॑रं ज॒रस्य॒न्यदि॒तोऽप॑रम्। जा॒या पति॑मिव॒ वास॑सा॒भ्येनं भूम ऊर्णुहि॥
इ॒दम् । इत् । वै । ऊं॒ इति॑ । न । अप॑रम् । ज॒रसि॑ । अ॒न्यत् । इ॒त: । अप॑रम् । जा॒या । पति॑म्ऽइव । वास॑सा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥२.५१॥
Mantra 52
अ॒भि त्वो॑र्णोमिपृथि॒व्या मा॒तुर्वस्त्रे॑ण भ॒द्रया॑। जी॒वेषु॑ भ॒द्रं तन्मयि॑ स्व॒धा पि॒तृषु॒सा त्वयि॑ ॥
अ॒भि । त्वा॒ । ऊ॒र्णो॒मि॒ । पृ॒थि॒व्या: । मा॒तु: । वस्त्रे॑ण । भ॒द्रया॑ । जी॒वेषु॑ । भ॒द्रम् । तत् । मयि॑ । स्व॒धा । पि॒तृषु॑ । सा । त्वयि॑ ॥२.५२॥
Mantra 53
अग्नी॑षोमा॒पथि॑कृता स्यो॒नं दे॒वेभ्यो॒ रत्नं॑ दधथु॒र्वि लो॒कम्। उप॒ प्रेष्य॑न्तंपू॒षणं॒ यो वहा॑त्यञ्जो॒यानैः॑ प॒थिभि॒स्तत्र॑ गच्छतम् ॥
अग्नी॑षोमा । पथि॑ऽकृता । स्यो॒नम् । दे॒वेभ्य॑: । रत्न॑म् । द॒ध॒थु॒: । वि । लो॒कम् । उप॑ । प्र । ईष्य॑न्तम् । पू॒षण॑म् । य: । वहा॑ति । अ॒ञ्ज॒:ऽयानै॑: । प॒थिऽभि॑: । तत्र॑ । ग॒च्छ॒त॒म् ॥२.५३॥
Mantra 54
पू॒षात्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः। स त्वै॒तेभ्यः॒परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥
पू॒षा । त्वा॒ । इ॒त: । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशु: । भुव॑नस्य । गो॒पा: । स: । त्वा॒ । ए॒तेभ्य॑: । परि॑ । द॒द॒त् । पि॒तृऽभ्य॑: । अ॒ग्नि: । दे॒वेभ्य॑: । सु॒ऽवि॒द॒त्रिये॑भ्य: ॥२.५४॥
Mantra 55
आयु॑र्वि॒श्वायुः॒ परि॑ पातु त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त्।यत्रास॑ते सु॒कृतो॒ यत्र॒ त ई॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥
आयु॑: । वि॒श्वऽआ॑यु: । परि॑ । पा॒तु॒ । त्वा॒ । पू॒षा । त्वा॒ । पा॒तु॒ । प्रऽप॑थे । पु॒रस्ता॑त् । यत्र॑ । आस॑ते । सु॒ऽकृत॑: । यत्र॑ । ते । ई॒यु: । तत्र॑ । त्वा॒ । दे॒व: । स॒वि॒ता । द॒धा॒तु॒ ॥२.५५॥
Mantra 56
इ॒मौ यु॑नज्मिते॒ वह्नी॒ असु॑नीताय॒ वोढ॑वे। ताभ्यां॑ य॒मस्य॒ सद॑नं॒ समि॑ति॒श्चाव॑ गच्छतात्॥
इ॒मौ । यु॒न॒ज्मि॒ । ते॒ । वह्नी॒ इति॑ । असु॑ऽनीताय । वोढ॑वे । ताभ्या॑म् । य॒मस्य॑ । सद॑नम् । सम्ऽइ॑ती: । च॒ । अव॑ । ग॒च्छ॒ता॒त् ॥२.५६॥
Mantra 57
ए॒तत्त्वा॒ वासः॑प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा। इ॑ष्टापू॒र्तम॑नु॒संक्रा॑मवि॒द्वान्यत्र॑ ते द॒त्तं ब॑हु॒धा विब॑न्धुषु ॥
ए॒तत् । त्वा॒ । वास॑: । प्र॒थ॒मम् । नु । आ । अ॒ग॒न् । अप॑ । ए॒तत् । ऊ॒ह । यत् । इ॒ह । अबि॑भ: । पु॒रा । इ॒ष्टा॒पू॒र्तम् । अ॒नु॒ऽसंक्रा॑म । वि॒द्वान् । यत्र॑ । ते॒ । द॒त्तम् । ब॒हु॒ऽधा । विऽब॑न्धुषु ॥२.५७॥
Mantra 58
अ॒ग्नेर्वर्म॒परि॒ गोभि॑र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च। नेत्त्वा॑धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्षन्प॑री॒ङ्खया॑तै ॥
अ॒ग्ने: । वर्म॑ । परि॑ । गोभि॑: । व्य॒य॒स्व॒ । सम् । प्र । ऊ॒र्णु॒ष्व॒ । मेद॑सा । पीव॑सा । च॒ । न । इत् । त्वा॒ । धृ॒ष्णु: । हर॑सा । जर्हृ॑षाण: । द॒धृक् । वि॒ऽध॒क्षन् । प॒रि॒ऽई॒ङ्ख्या॑तै ॥२.५८॥
Mantra 59
द॒ण्डंहस्ता॑दा॒ददा॑नो ग॒तासोः॑ स॒ह श्रोत्रे॑ण॒ वर्च॑सा॒ बले॑न। अत्रै॒व त्वमि॒हव॒यं सु॒वीरा॒ विश्वा॒ मृधो॑ अ॒भिमा॑तीर्जयेम ॥
द॒ण्डम् । हस्ता॑त् । आ॒ऽददा॑न: । ग॒तऽअ॑सो: । स॒ह । श्रोत्रे॑ण । वर्च॑सा । बले॑न । अत्र॑ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒ऽवीरा॑: । विश्वा॑: । मृध॑: । अ॒भिऽमा॑ती: । ज॒ये॒म॒ ॥२.५९॥
Mantra 60
धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्य॑ स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न। स॒मागृ॑भाय॒वसु॑ भूरि पु॒ष्टम॒र्वाङ्त्वमेह्युप॑ जीवलो॒कम् ॥
धनु॑: । हस्ता॑त् । आ॒ऽददा॑न: । मृ॒तस्य॑ । स॒ह । क्षे॒त्रेण॑ । वर्च॑सा । बले॑न । स॒म्ऽआगृ॑भाय । वसु॑ । भूरि॑ । पु॒ष्टम् । अ॒र्वाङ् । त्वम् । आ । इ॒हि॒ । उप॑ । जी॒व॒ऽलो॒कम् ॥२.६०॥