Mantra 1
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्र॒मायु॑ष्मान्भूयासम् ॥
वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् । सह॑मानम् । स॒ह॒:ऽजित॑म् । स्व॒:ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् । ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । आयु॑ष्मान् । भू॒या॒स॒म् ॥१.१॥
Mantra 2
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यो दे॒वानां॑ भूयासम् ॥
वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् । सह॑मानम् । स॒ह॒:ऽजित॑म् । स्व॒:ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् । ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । प्रि॒य: । दे॒वाना॑म् । भू॒या॒स॒म् ॥१.२॥
Mantra 3
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प्र॒जानां॑ भूयासम् ॥
वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् । सह॑मानम् । स॒ह॒:ऽजित॑म् । स्व॒:ऽजित॑म्। गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् । ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । प्रि॒य: । प्र॒ऽजाना॑म् । भू॒या॒स॒म् ॥१.३॥
Mantra 4
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः प॑शू॒नां भू॑यासम् ॥
वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् । सह॑मानम् । स॒ह॒:ऽजित॑म् । स्व॒:ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् । ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । प्रि॒य: । प॒शू॒नाम् । भू॒या॒स॒म् ॥१.४॥
Mantra 5
वि॑षास॒हिंसह॑मानं सासहा॒नं सही॑यांसम्। सह॑मानं सहो॒जितं॑ स्व॒र्जितं॑ गो॒जितं॑संधना॒जित॑म्। ईड्यं॒ नाम॑ ह्व॒ इन्द्रं॑ प्रि॒यः स॑मा॒नानां॑ भूयासम् ॥
वि॒ऽस॒स॒हिम् । सह॑मानम् । स॒स॒हा॒नम् । सही॑यांसम् । सह॑मानम् । स॒ह॒:ऽजित॑म् । स्व॒:ऽजित॑म् । गो॒ऽजित॑म् । सं॒ध॒न॒ऽजित॑म् । ईड्य॑म् । नाम॑ । ह्वे॒ । इन्द्र॑म् । प्रि॒य: । स॒मा॒नाना॑म् । भू॒या॒स॒म् ॥१.५॥
Mantra 6
उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि। द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒तेर॑धं॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
उत् । इ॒हि॒ । उत् । इ॒हि॒ । सू॒र्य॒ । वर्च॑सा । मा॒ । अ॒भि॒ऽउदि॑हि । द्वि॒षन् । च॒ । मह्य॑म् । रध्य॑तु । मा । च॒ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.६॥
Mantra 7
उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि।यांश्च॒ पश्या॑मि॒ यांश्च॒ न तेषु॑ मा सुम॒तिंकृ॑धि॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
उत् । इ॒हि॒ । उत् । इ॒हि॒ । सू॒र्य॒ । वर्च॑सा । मा॒ । अ॒भि॒ऽउदि॑हि । यान् । च॒ । पश्या॑मि । यान्। च॒ । न । तेषु॑ । मा॒ ।सु॒ऽम॒तिम् । कृ॒धि॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.७॥
Mantra 8
मा त्वा॑दभन्त्सलि॒ले अ॒प्स्वन्तर्ये पा॒शिन॑ उप॒तिष्ठ॒न्त्यत्र॑। हि॒त्वाश॑स्तिं॒दिव॒मारु॑क्ष ए॒तां स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
मा । त्वा॒ । द॒भ॒न् । स॒लि॒ले। अ॒प्ऽसु । अ॒न्त: । ये । पा॒शिन॑: । उ॒प॒ऽतिष्ठ॑न्ति । अत्र॑ । हि॒त्वा । अश॑स्तिम् । दिव॑म् । आ । अ॒रु॒क्ष॒: । ए॒ताम् । स: । न॒: । मृ॒ड॒ ।सु॒ऽम॒तौ । ते॒ । स्या॒म॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.८॥
Mantra 9
त्वं न॑ इन्द्रमह॒ते सौभ॑गा॒याद॑ब्धेभिः॒ परि॑ पाह्य॒क्तुभि॒स्तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्विश्वरूपैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
त्वम् । न॒: । इ॒न्द्र॒:। म॒ह॒ते । सौभ॑गाय । अद॑ब्धेभि: । परि॑ । पा॒हि॒ । अ॒क्तुऽभि॑: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओम॑न् ॥१.९॥
Mantra 10
त्वं न॑इन्द्रो॒तिभिः॑ शि॒वाभिः॒ शन्त॑मो भव। आ॒रोहं॑स्त्रिदि॒वं दि॒वो गृ॑णा॒नःसोम॑पीतये प्रि॒यधा॑मा स्व॒स्तये॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
त्वम् । न॒: । इ॒न्द्र॒ । ऊ॒तिऽभि॑: । शि॒वाभि॑: । शम्ऽत॑म: । भ॒व॒ । आ॒ऽरोह॑न् । त्रि॒ऽदि॒वम् । दि॒व: । गृ॒णा॒न: । सोम॑ऽपीतये । प्रि॒यऽधा॑मा । स्व॒स्तये॑ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन ॥१.१०॥
Mantra 11
त्वमि॑न्द्रासिविश्व॒जित्स॑र्व॒वित्पु॑रुहू॒तस्त्वमि॑न्द्र। त्वमि॑न्द्रे॒मं सु॒हवं॒स्तोम॒मेर॑यस्व॒ स नो॑ मृड सुम॒तौ ते॑ स्याम॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि।त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वि॒श्व॒ऽजित् । स॒र्व॒ऽजित् । पु॒रु॒ऽहू॒त: । त्वम् । इ॒न्द्र॒ । त्वम् । इ॒न्द्र॒ । इ॒मम् । सु॒ऽहव॑म् । स्तोम॑म् । आ । ई॒र॒य॒स्व॒ । स: । न॒: । मृ॒ड॒ । सु॒ऽम॒तौ । ते॒ । स्या॒म॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.११॥
Mantra 12
अद॑ब्धो दि॒विपृ॑थि॒व्यामु॒तासि॒ न त॑ आपुर्महि॒मान॑म॒न्तरि॑क्षे। अ॑दब्धेन॒ ब्रह्म॑णावावृधा॒नः स त्वं न॑ इन्द्र दि॒वि षञ्च्छर्म॑ यच्छ॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
अद॑ब्ध: । दि॒वि । पृ॒थि॒व्याम् । उ॒त । अ॒सि॒ । न । ते॒ । आ॒पु:। म॒हि॒मान॑म् । अ॒न्तरि॑क्षे । अद॑ब्धेन । ब्रह्म॑णा । व॒वृ॒धा॒न: । स: । त्वम् । न॒: । इ॒न्द्र॒ । दि॒वि । सन् । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन्॥१.१२॥
Mantra 13
या त॑ इन्द्रत॒नूर॒प्सु या पृ॑थि॒व्यां यान्तर॒ग्नौ या त॑ इन्द्र॒ पव॑माने स्व॒र्विदि॑।यये॑न्द्र त॒न्वा॒न्तरि॑क्षं व्यापि॒थ तया॑ न इन्द्र त॒न्वा॒ शर्म॒ यच्छ॒तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
या । ते॒ । इ॒न्द्र॒ । त॒नू: । अ॒प्ऽसु । या । पृ॒थि॒व्याम् । या । अ॒न्त: । अ॒ग्नौ । या । ते॒ । इ॒न्द्र॒ । पव॑माने । स्व॒:ऽविदि॑ । यया॑ । इ॒न्द्र॒ । त॒न्वा᳡ । अ॒न्तरि॑क्षम् । वि॒ऽआ॒पि॒थ । तया॑ । न॒: । इ॒न्द्र॒ । त॒न्वा᳡ । शर्म॑ । य॒च्छ॒ । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१३॥
Mantra 14
त्वामि॑न्द्र॒ब्रह्म॑णा व॒र्धय॑न्तः स॒त्त्रं नि षे॑दु॒रृष॑यो॒ नाध॑माना॒स्तवेद्वि॑ष्णोबहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहिपर॒मे व्योमन् ॥
त्वाम् । इ॒न्द्र॒ । ब्रह्म॑णा । व॒र्धय॑न्त: । स॒त्त्रम् । नि । से॒दु॒: । ऋष॑य: । नाध॑माना: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॒मन् ॥१.१४॥
Mantra 15
त्वं तृ॒तं त्वंपर्ये॒ष्युत्सं॑ स॒हस्र॑धारं वि॒दथं॑ स्व॒र्विदं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मेव्योमन् ॥
त्वम् । तृ॒तम् । त्वम् । परि॑ । ए॒षि॒ । उत्स॑म् । स॒हस्र॑ऽधारम् । वि॒दथ॑म् । स्व॒:ऽविद॑म् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१५॥
Mantra 16
त्वं र॑क्षसेप्र॒दिश॒श्चत॑स्र॒स्त्वं शो॒चिषा॒ नभ॑सी॒ वि भा॑सि। त्वमि॒मा विश्वा॒ भुव॒नानु॑तिष्ठस ऋ॒तस्य॒ पन्था॒मन्वे॑षि वि॒द्वांस्तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वंनः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
त्वम् । र॒क्ष॒से॒ । प्र॒ऽदिश॑: । चत॑स्र: । त्वम् । शो॒चिषा॑ । नभ॑सी॒ इति॑ । वि । भा॒सि॒ । त्वम् । इ॒मा । विश्वा॑ । भुव॑ना । अनु॑ । ति॒ष्ठ॒से॒ । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒षि॒ । वि॒द्वान् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१६॥
Mantra 17
प॒ञ्चभिः॒परा॑ङ् तप॒स्येक॑या॒र्वाङश॑स्तिमेषि सु॒दिने॒ बाध॑मान॒स्तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मेव्योमन् ॥
प॒ञ्चऽभि॑: । परा॑ङ् । त॒प॒सि॒ । एक॑या । अ॒वाङ् । अश॑स्तिम् । ए॒षि॒ । सु॒ऽदिने॑ । बाध॑मान: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१७॥
Mantra 18
त्वमिन्द्र॒स्त्वं म॑हे॒न्द्रस्त्वं लो॒कस्त्वं प्र॒जाप॑तिः। तुभ्यं॑ य॒ज्ञो विता॑यते॒ तुभ्यं॑ जुह्वति॒ जुह्व॑त॒स्तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
त्वम् । इन्द्र॑: । त्वम् । म॒हा॒ऽइ॒न्द्र: । त्वम् । लो॒क: । त्वम् । प्र॒जाऽप॑ति: । तुभ्य॑म् । य॒ज्ञ: । वि । ता॒य॒ते॒ । तुभ्य॑म् । जु॒ह्व॒ति॒ । जुह्व॑त: । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै:। सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१८॥
Mantra 19
अस॑ति॒सत्प्रति॑ष्ठितं स॒ति भू॒तं प्रति॑ष्ठितम्। भू॒तं ह॒ भव्य॒ आहि॑तं॒ भव्यं॑भू॒ते प्रति॑ष्ठितं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
अस॑ति । सत् । प्रति॑ऽस्थितम् । स॒ति । भू॒तम् । प्रति॑ऽस्थितम् । भू॒तम् । ह॒ । भव्ये॑ । आऽहि॑तम् । भव्य॑म् । भू॒ते । प्रति॑ऽस्थितम् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे । विऽओ॑मन् ॥१.१९॥
Mantra 20
शु॒क्रोऽसि॑भ्रा॒जोऽसि॑। स यथा॒ त्वं भ्राज॑ता भ्रा॒जोऽस्ये॒वाहं भ्राज॑ता भ्राज्यासम्॥
शु॒क्र:। अ॒सि॒ । भ्रा॒ज: । अ॒सि॒ । स: । यथा॑ । त्वम् । भ्राज॑ता । भ्रा॒ज: । अ॒सि॒ । ए॒व । अ॒हम् । भ्राज॑ता । भ्रा॒ज्या॒स॒म् ॥१.२०॥
Mantra 21
रुचि॑रसि रो॒चोऽसि॑। स यथा॒ त्वं रुच्या॑ रो॒चोऽस्ये॒वाहं प॒शुभि॑श्च ब्राह्मणवर्च॒सेन॑ चरुचिषीय ॥
रुचि॑: । अ॒सि॒ । रो॒च: । अ॒सि॒ । स: । यथा॑ । त्वम् । रुच्या॑ । रो॒च: । असि॑ । ए॒व । अ॒हम् । प॒शुऽभि॑: । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑ । च॒ । रु॒चि॒षी॒य॒ ॥२.२१॥
Mantra 22
उ॑द्य॒ते नम॑उदाय॒ते नम॒ उदि॑ताय॒ नमः॑। वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒ नमः॑॥
उ॒त्ऽय॒ते । नम॑: । उ॒त्ऽआ॒य॒ते । नम॑: । उत्ऽइ॑ताय । नम॑: । वि॒ऽराजे॑ । नम॑: । स्व॒ऽराजे॑ । नम॑: । स॒म्ऽराजे॑ । नम॑: ॥१.२२॥
Mantra 23
अ॑स्तंय॒ते नमो॑ऽस्तमेष्य॒ते नमो॑ऽस्तमिताय॒ नमः॑। वि॒राजे॒ नमः॑ स्व॒राजे॒ नमः॑ स॒म्राजे॒नमः॑ ॥
अ॒स्त॒म्ऽय॒ते । नम॑: । अ॒स्त॒म्ऽए॒ष्य॒ते । नम॑: । अस्त॑म्ऽइताय । नम॑: । वि॒ऽराजे॑ । नम॑: । स्व॒ऽराजे॑ । नम॑:। स॒म्ऽराजे॑ । नम॑: ॥१.२३॥
Mantra 24
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ तप॑सा स॒ह। स॒पत्ना॒न्मह्यं॑ र॒न्धय॒न्मा चा॒हंद्वि॑ष॒ते र॑धं॒ तवेद्वि॑ष्णो बहु॒धावी॒र्याणि। त्वं नः॑ पृणीहिप॒शुभि॑र्वि॒श्वरू॑पैः सु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥
उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्य: । विश्वे॑न । तप॑सा । स॒ह । स॒ऽपत्ना॑न् । मह्य॑म् । र॒न्धय॑न् । मा । च॒ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् । तव॑ । इत् । वि॒ष्णो॒ इति॑ । ब॒हु॒ऽधा । वी॒र्या᳡णि । त्वम् । न॒: । पृ॒णी॒हि॒ । प॒शुऽभि॑: । वि॒श्वऽरू॑पै: । सु॒ऽधाया॑म् । मा॒ । धे॒हि॒ । प॒र॒मे ।विऽओ॑मन् ॥१.२४॥
Mantra 25
आदि॑त्य॒नाव॒मारु॑क्षः श॒तारि॑त्रां स्व॒स्तये॑। अह॒र्मात्य॑पीपरो॒ रात्रिं॑ स॒त्राति॑पारय ॥
आदि॑त्य । नाव॑म् । आ । अ॒रु॒क्ष॒: । श॒त॒ऽअरि॑त्राम् । स्व॒स्तये॑ । अह॑:। मा॒ । अति॑ । अ॒पी॒प॒र॒: । रात्रि॑म् । स॒त्रा । अति॑ । पा॒र॒य॒ ॥१.२५॥
Mantra 26
सू॑र्यनावमारुक्षः श॒तारि॑त्रां स्व॒स्तये॑। रात्रिं॒ मात्य॑पीप॒रोऽहः॑ स॒त्राति॑पारय ॥
सूर्य॑ । नाव॑म् । आ । अ॒रु॒क्ष॒: । श॒त॒ऽअरि॑त्राम् । स्व॒स्तये॑ । रात्रि॑म् । मा॒ । अति॑ । अ॒पी॒प॒र॒: । अह॑: । स॒त्रा । अति॑ । पा॒र॒य॒ ॥१.२६॥
Mantra 27
प्र॒जाप॑ते॒रावृ॑तो॒ ब्रह्म॑णा॒ वर्म॑णा॒हं क॒श्यप॑स्य॒ ज्योति॑षा॒ वर्च॑सा च।ज॒रद॑ष्टिः कृ॒तवी॑र्यो॒ विहा॑याः स॒हस्रा॑युः॒ सुकृ॑तश्चरेयम् ॥
प्र॒जाऽप॑ते: । आऽवृ॑त: । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा । वर्च॑सा । च॒ । ज॒रत्ऽअ॑ष्टि: । कृ॒तऽवी॑र्य: । विऽहा॑या: । स॒हस्र॑ऽआयु: । सुऽकृ॑त: । च॒रे॒य॒म् ॥१.२७॥
Mantra 28
परि॑वृतो॒ब्रह्म॑णा॒ वर्म॑णा॒हं क॑श्यपस्य॒ ज्योति॑षा॒ वर्च॑सा च। मा मा॒प्राप॒न्निष॑वो॒ दैव्या॒ या मा मानु॑षी॒रव॑सृष्टाः व॒धाय॑ ॥
परि॑ऽवृत: । ब्रह्म॑णा । वर्म॑णा । अ॒हम् । क॒श्यप॑स्य । ज्योति॑षा । वर्च॑सा । च॒ । मा । मा॒ । प्र । आ॒प॒न् । इष॑व: । दैव्या॑: । या: । मा । मानु॑षी: । अव॑ऽसृष्टा: । व॒धाय॑ ॥१.२८॥
Mantra 29
ऋ॒तेन॑ गु॒प्तऋ॒तुभि॑श्च॒ सर्वै॑र्भू॒तेन॑ गु॒प्तो भव्ये॑न चा॒हम्। मा मा॒ प्राप॑त्पा॒प्मामोत मृ॒त्युर॒न्तर्द॑धे॒ऽहं स॑लि॒लेन॑ वा॒चः ॥
ऋ॒तेन॑ । गु॒प्त: । ऋ॒तुऽभि॑: । च॒ । सर्वै॑: । भू॒तेन॑ । गु॒प्त: । भव्ये॑न । च॒ । अ॒हम् । मा । मा॒ । प्र । आ॒प॒त् । पा॒प्मा । मा । उ॒त । मृ॒त्यु: । अ॒न्त: । द॒धे॒ । अ॒हम् । स॒लि॒लेन॑ । वा॒च: ॥१.२९॥
Mantra 30
अ॒ग्निर्मा॑गो॒प्ता परि॑ पातु वि॒श्वत॑ उ॒द्यन्त्सूर्यो॑ नुदतां मृत्युपा॒शान्।व्यु॒छन्ती॑रु॒षसः॒ पर्व॑ता ध्रु॒वाः स॒हस्रं॑ प्रा॒णा मय्या य॑तन्ताम् ॥
अ॒ग्नि: । मा॒ । गो॒प्ता । परि॑ । पा॒तु॒ । वि॒श्वत॑: । उ॒त्ऽयन् । सूर्य॑: । नु॒द॒ता॒म् । मृ॒त्यु॒ऽपा॒शान् । वि॒ऽउ॒च्छन्ती॑: । उ॒षस॑: । पर्व॑ता: । ध्रु॒वा: । स॒हस्र॑म् । प्रा॒णा: । मयि॑ । आ । य॒त॒न्ता॒म् ॥१.३०॥