Mantra 1
वि॒द्म ते॑स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः ॥
वि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । ग्राह्या॑: । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.१॥
Mantra 2
अन्त॑कोऽसिमृ॒त्युर॑सि ॥
अन्त॑क: । अ॒सि॒ । मृ॒त्यु : । अ॒सि॒ ॥५.२॥
Mantra 3
तं त्वा॑ स्वप्न॒तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दुः॒ष्वप्न्या॑त्पाहि ॥
तम् । त्वा॒ । स्व॒प्न॒ । तथा॑ । सम् । वि॒द्म॒ । स । न॒: । स्व॒प्न॒ । दु॒:ऽस्वप्न्या॑त् । पा॒हि॒ ॥५.३॥
Mantra 4
वि॒द्म ते॑स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑कोऽसिमृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्नदुः॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । नि:ऽऋ॑त्या: । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.४॥
Mantra 5
वि॒द्म ते॑स्वप्न ज॒नित्र॒मभू॑त्याः पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑कोऽसिमृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्नदुः॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । अभू॑त्या: । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.५॥
Mantra 6
वि॒द्म ते॑स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑कोऽसिमृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्नदुः॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । नि:ऽभू॑त्या: । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.६॥
Mantra 7
वि॒द्म ते॑स्वप्न ज॒नित्रं॒ परा॑भूत्याः पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑कोऽसिमृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्नदुः॒ष्वप्न्या॑त्पाहि ॥
वि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । परा॑ऽभूत्या: । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.७॥
Mantra 8
वि॒द्म ते॑स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः ॥
वि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । दे॒व॒ऽजा॒मी॒नाम् । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.८॥
Mantra 9
अन्त॑कोऽसिमृ॒त्युर॑सि ॥
अन्त॑क: । अ॒सि॒ । मृ॒त्यु: । अ॒सि॒ ॥५.९॥
Mantra 10
तं त्वा॑ स्वप्न॒तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दुः॒ष्वप्न्या॑त्पाहि ॥
तम् । त्वा॒ । स्व॒प्न॒ । तथा॑ । सम् । वि॒द्म॒ । स: । न॒: । स्व॒प्न॒ । दु॒:ऽस्वप्न्या॑त् । पा॒हि॒ ॥५.१०॥