Mantra with Swara
वि॒शां च॒ वै ससब॑न्धूनां॒ चान्न॑स्य चा॒न्नाद्य॑स्य च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
वि॒शाम् । च॒ । वै । स: । सऽब॑न्धूनाम् । च॒ । अन्न॑स्य । च॒ । अ॒न्न॒ऽअद्य॑स्य । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥८.३॥
Mantra without Swara
विशां च वै ससबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥
विशाम् । च । वै । स: । सऽबन्धूनाम् । च । अन्नस्य । च । अन्नऽअद्यस्य । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥८.३॥
