Mantra with Swara
ऐन॒मापो॑गच्छ॒त्यैनं॑ श्र॒द्धा ग॑च्छ॒त्यैनं॑ व॒र्षं ग॑च्छति॒ य ए॒वं वेद॑ ॥
आ । ए॒न॒म् । आप॑: । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । श्र॒ध्दा । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । व॒र्षम् । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥७.३॥
Mantra without Swara
ऐनमापोगच्छत्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद ॥
आ । एनम् । आप: । गच्छति । आ । एनम् । श्रध्दा । गच्छति । आ । एनम् । वर्षम् । गच्छति । य: । एवम् । वेद ॥७.३॥
