Mantra 1
स ध्रु॒वांदिश॒मनु॒ व्यचलत् ॥
स: । ध्रु॒वाम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.१॥
Mantra 2
तंभूमि॑श्चा॒ग्निश्चौष॑धयश्च॒ वन॒स्पत॑यश्च वानस्प॒त्याश्च॑वी॒रुध॑श्चानु॒व्यचलन् ॥
तम् । भूमि॑: । च॒ । अ॒ग्नि: । च॒ । ओष॑धय: । च॒ । वन॒स्पत॑य: । च॒ । वा॒न॒स्प॒त्या: । च॒ । वी॒रुध॑: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.२॥
Mantra 3
भूमे॑श्च॒ वैसो॒ऽग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑ च॑ वी॒रुधां॑ चप्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
भूमे॑: । च॒ । वै । स: । अ॒ग्ने: । च॒ । ओष॑धीनाम् । च॒ । वन॒स्पती॑नाम् । च॒ । वा॒न॒स्प॒त्याना॑म् । च॒ । वी॒रुधा॑म् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.३॥
Mantra 4
स ऊ॒र्ध्वांदिश॒मनु॒ व्यचलत् ॥
स: । ऊ॒र्ध्वाम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.४॥
Mantra 5
तमृ॒तं च॑ स॒त्यंच॒ सूर्य॑श्च च॒न्द्रश्च॒ नक्ष॑त्राणि चानु॒व्यचलन् ॥
तम् । ऋ॒तम् । च॒ । स॒त्यम् । च॒ । सूर्य॑: । च॒ । च॒न्द्र: । च॒ । नक्ष॑त्राणि । च॒ । अ॒नु॒ऽव्य᳡चलन् । ॥६.५॥
Mantra 6
ऋ॒तस्य॑ च॒ वै सस॒त्यस्य॑ च॒ सूर्य॑स्य च च॒न्द्रस्य॑ च॒ नक्ष॑त्राणां च प्रि॒यं धाम॑ भवति॒ यए॒वं वेद॑ ॥
ऋ॒तस्य॑ । च॒ । वै । स: । स॒त्यस्य॑ । च॒ । सूर्य॑स्य । च॒ । च॒न्द्रस्य॑ । च॒ । नक्ष॑त्राणाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.६॥
Mantra 7
स उ॑त्त॒मांदिश॒मनु॒ व्यचलत् ॥
स: । उ॒त्ऽत॒माम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.७॥
Mantra 8
तमृच॑श्च॒सामा॑नि च॒ यजूं॑षि च॒ ब्रह्म॑ चानु॒व्यचलन् ॥
तम् । ऋच॑: । च॒ । सामा॑नि । च॒ । यजूं॑षि । च॒ । ब्रह्म॑ । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.८॥
Mantra 9
ऋ॒चां च॒ वै ससाम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
ऋ॒चाम् । च॒ । वै । स: । साम्ना॑म् । च॒ । यजु॑षाम् । च॒ । ब्रह्म॑ण: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.९॥
Mantra 10
स बृ॑ह॒तींदिश॒मनु॒ व्यचलत् ॥
स: । बृ॒ह॒तीम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.१०॥
Mantra 11
तमि॑तिहा॒सश्च॑पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्यचलन् ॥
तम् । इ॒ति॒ह॒ऽआ॒स: । च॒ । पु॒रा॒णम् । च॒ । गाथा॑: । च॒ । ना॒रा॒शं॒सी: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.११॥
Mantra 12
इ॑तिहा॒सस्य॑ च॒वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥
इ॒ति॒ह॒ऽआ॒सस्य॑ । च॒ । वै । स: । पु॒रा॒णस्य॑ । च॒ । गाथा॑नाम् । च॒ । ना॒रा॒शं॒सीना॑म् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१२॥
Mantra 13
स प॑र॒मांदिश॒मनु॒ व्यचलत् ॥
स: । प॒र॒माम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.१३॥
Mantra 14
तमा॑हव॒नीय॑श्च॒गार्ह॑पत्यश्च दक्षिणा॒ग्निश्च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्यचलन्॥
तम् । आ॒ऽह॒व॒नीय॑: । च॒ । गार्ह॑ऽपत्य: । च॒ । द॒क्षि॒ण॒ऽअ॒ग्नि: । च॒ । य॒ज्ञ: । च॒ । यज॑मान: । च॒ । प॒शव॑: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.१४॥
Mantra 15
आ॑हव॒नीय॑स्य च॒वै स गार्ह॑पत्यस्य च दक्षिणा॒ग्नेश्च॑ य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नां च॑प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
आ॒ऽह॒व॒नीय॑स्य । च॒ । वै । स: । गार्ह॑पत्यस्य । च॒ । द॒क्षि॒ण॒ऽअ॒ग्ने: । च॒ । य॒ज्ञस्य॑ । च॒ । यज॑मानस्य । च॒ । प॒शू॒नाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१५॥
Mantra 16
सोऽना॑दिष्टां॒दिश॒मनु॒ व्यचलत् ॥
स: । अना॑दिष्टाम् । दिश॑म् । वि । अ॒च॒ल॒त् ॥६.१६॥
Mantra 17
तमृ॒तव॑श्चार्त॒वाश्च॑ लो॒काश्च॑ लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रेचा॑नु॒व्यचलन् ॥
तम् । ऋ॒तव॑: । च॒ । आ॒र्त॒वा: । च॒ । लोका॑: । च॒ । लौ॒क्या: । च॒ । मासा॑: । च॒ । अ॒र्ध॒ऽमा॒सा: । च॒ । अ॒हो॒रा॒त्रे इति॑ । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.१७॥
Mantra 18
ऋ॑तू॒नां च॒ वै सआ॑र्त॒वानां॑ च लो॒कानां॑ च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
ऋ॒तू॒नाम् । च॒ । वै । स: । आ॒र्त॒वाना॑म् । च॒ । लोका॑नाम् । च॒ । लौ॒क्याना॑म् । च॒ । मासा॑नाम् । च॒ । अ॒र्ध॒ऽमा॒साना॑म् । च॒ । अ॒हो॒रा॒त्रयो॑: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.१८॥
Mantra 19
सोऽना॑वृत्तां॒दिश॒मनु॒ व्यचल॒त्ततो॒ नाव॒र्त्स्यन्न॑मन्यत ॥
स: । अना॑वृत्ताम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् । तत॑: । न । आ॒ऽव॒र्त्स्यन् । अ॒म॒न्य॒त॒ ॥६.१९॥
Mantra 20
तं दिति॒श्चादि॑ति॒श्चेडा॑ चेन्द्रा॒णी चा॑नु॒व्यचलन् ॥
तम् । दिति॑: । च॒ । अदि॑ति: । च॒ । इडा॑ । च॒ । इ॒न्द्रा॒णी । च॒ । अ॒नु॒ऽव्य᳡चलनम् ॥६.२०॥
Mantra 21
दिते॑श्च॒ वै सोऽदि॑ते॒श्चेडा॒याश्चे॑न्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥
दिते॑: । च॒ । वै । स: । अदि॑ते: । च॒ । इडा॑या: । च॒ । इ॒न्द्रा॒ण्या: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२१॥
Mantra 22
स दिशोऽनु॒व्यचल॒त्तं वि॒राडनु॒ व्यचल॒त्सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑ ॥
स: । दिश॑: । अनु॑ । वि । अ॒च॒ल॒त् । तम् । वि॒ऽराट् । अनु॑ । वि । अ॒च॒ल॒त् । सर्वे॑ । च॒ । दे॒वा: । सर्वा॑ । च॒ । दे॒वता॑: ॥६.२२॥
Mantra 23
वि॒राज॑श्च॒ वै ससर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वता॑नां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥
वि॒ऽराज॑: । च॒ । वै । स: । सर्वे॑षाम् । च॒ । दे॒वाना॑म् । सर्वा॑साम् । च॒ । दे॒वता॑नाम् । प्रियम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२३॥
Mantra 24
ससर्वा॑नन्तर्दे॒शाननु॒ व्यचलत् ॥
स: । सर्वा॑न् । अ॒न्त॒:ऽदे॒शान् । अनु॑ । वि । अ॒च॒ल॒त् ॥६.२४॥
Mantra 25
तं प्र॒जाप॑तिश्चपरमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चा॑नु॒व्यचलन् ॥
तम् । प्र॒जाऽप॑ति: । च॒ । प॒र॒मे॒ऽस्थी । च॒ । पि॒ता । च॒ । पि॒ता॒म॒ह: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.२५॥
Mantra 26
प्र॒जाप॑तेश्च॒वै स प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑॥
प्र॒जाऽप॑ते: । च॒ । वै । स: । प॒र॒मे॒ऽस्थीन॑:। च॒ । पि॒तु: । च॒ । पि॒ता॒म॒हस्य॑ । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥६.२६॥