Mantra 1
तस्मै॒ प्राच्या॑दि॒शः ॥
तस्मै॑ । प्राच्या॑: । दि॒श: ॥४.१॥
Mantra 2
वा॑स॒न्तौ मासौ॑गो॒प्तारा॒वकु॑र्वन्बृ॒हच्च॑ रथन्त॒रं चा॑नुष्ठा॒तारौ॑ ॥
वा॒स॒न्तौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । बृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥४.२॥
Mantra 3
वा॑स॒न्तावे॑नं॒मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथन्त॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥
वा॒स॒न्तौ । ए॒न॒म् । मासौ॑ । प्राच्या॑: । दि॒श: । गो॒पा॒य॒त॒: । बृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.३॥
Mantra 4
तस्मै॒दक्षि॑णाया दि॒शः ॥
तस्मै॑ । दक्षि॑णाया: । दि॒श: ॥४.४॥
Mantra 5
ग्रैष्मौ॒ मासौ॑गो॒प्तारा॒वकु॑र्वन्यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चा॑नुष्ठा॒तारौ॑ ॥
ग्रैष्मौ॑ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ।४.५॥
Mantra 6
ग्रैष्मा॑वेनं॒मासौ॒ दक्षि॑णाया दि॒शो गो॑पायतो यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चानु॑ तिष्ठतो॒ यए॒वं वेद॑ ॥
ग्रैष्मौ॑ । ए॒न॒म् । मासौ॑ । दक्षि॑णाया: । दि॒श: । गो॒पा॒य॒त॒: । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.६॥
Mantra 7
तस्मै॑प्र॒तीच्या॑ दि॒शः ॥
तस्मै॑ । प्र॒तीच्या॑: । दि॒श: ॥४.७॥
Mantra 8
वार्षि॑कौ॒ मासौ॑गो॒प्तारा॒वकु॑र्वन्वैरू॒पं च॑ वैरा॒जं चा॑नुष्ठा॒तारौ॑ ॥
वार्षि॑कौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । वै॒रू॒पम् । च॒ । वै॒रा॒ज॒म् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥४.८॥
Mantra 9
वार्षि॑कावेनं॒मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वंवेद॑ ॥
वार्षि॑कौ । ए॒न॒म् । मासौ॑ । प्र॒तीच्या॑: । दि॒श: । गो॒पा॒य॒त॒: । वै॒रू॒पम् । च॒ ।वै॒रा॒जम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.९॥
Mantra 10
तस्मा॒ उदी॑च्यादि॒शः ॥
तस्मै॑ । उदी॑च्या: । दि॒श: ॥४.१०॥
Mantra 11
शा॑र॒दौ मासौ॑गो॒प्तारा॒वकु॑र्वञ्छ्यै॒तं च॑ नौध॒सं चा॑नुष्ठा॒तारौ॑ ॥
शा॒र॒दौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥४.११॥
Mantra 12
शा॑र॒दावे॑नं॒मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥
शा॒र॒दौ। ए॒न॒म् । मासौ॑ । उदी॑च्या: । दि॒श: । गो॒पा॒य॒त॒: । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.१२॥
Mantra 13
तस्मै॑ध्रु॒वाया॑ दि॒शः ॥
तस्मै॑ । ध्रु॒वाया॑: । दिश॑: ॥४.१३॥
Mantra 14
है॑म॒नौ मासौ॑गो॒प्तारा॒वकु॑र्व॒न्भूमिं॑ चा॒ग्निं चा॑नुष्ठा॒तारौ॑ ॥
है॒म॒नौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । भूमि॑म् । च॒ । अ॒ग्निम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥४.१४॥
Mantra 15
है॑म॒नावे॑नं॒मासौ॑ ध्रु॒वाया॑ दि॒शो गो॑पायतो॒ भूमि॑श्चा॒ग्निश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥
है॒म॒नौ । ए॒न॒म् । मासौ॑ । ध्रु॒वाया॑: । दि॒श: । गो॒पा॒य॒त॒: । भूमि॑: । च॒ । अग्नि॑: । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.१५॥
Mantra 16
तस्मा॑ऊ॒र्ध्वाया॑ दि॒शः ॥
तस्मै॑ । ऊ॒र्ध्वाया॑: । दि॒श: ॥४.१६॥
Mantra 17
शै॑शि॒रौ मासौ॑गो॒प्तारा॒वकु॑र्व॒न्दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑ ॥
शै॒शि॒रौ । मासौ॑ । गो॒प्तारौ॑ । अकु॑र्वन् । दिव॑म् । च॒ । आ॒दि॒त्यम् । च॒ । अ॒नु॒ऽस्था॒तारौ॑ ॥४.१७॥
Mantra 18
शै॑शि॒रावे॑नं॒मासा॑वू॒र्ध्वाया॑ दि॒शो गो॑पायतो॒ द्यौश्चा॑दि॒त्यश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥
शै॒शि॒रौ । ए॒न॒म् । मासौ॑ । ऊ॒र्ध्वाया॑: । दि॒श: । गो॒पा॒य॒त॒: । द्यौ: । च॒ । आ॒दि॒त्य: । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.१८॥