Mantra 1
स उद॑तिष्ठ॒त्सप्राचीं॒ दिश॒मनु॒ व्यचलत् ॥
स: । उत् । अ॒ति॒ष्ठ॒त् । स: । प्राची॑म् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥२.१॥
Mantra 2
तं बृ॒हच्च॑रथन्त॒रं चा॑दि॒त्याश्च॒ विश्वे॑ च दे॒वा अ॑नु॒व्यचलन् ॥
तम् । बृ॒हत् । च॒ । र॒थ॒म्ऽत॒रम् । च॒ । आ॒दि॒त्या: । च॒ । विश्वे॑ । च॒ । दे॒वा: । अ॒नु॒ऽव्य᳡चलन् ॥२.२॥
Mantra 3
बृ॑ह॒ते च॒ वै सर॑थन्त॒राय॑ चादि॒त्येभ्य॑श्च॒ विश्वे॑भ्यश्च दे॒वेभ्य॒ आ वृ॑श्चते॒ य ए॒वंवि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥
बृ॒ह॒ते । च॒ । वै । स: । र॒थ॒म्ऽत॒राय॑ । च॒ । आ॒दि॒त्येभ्य॑: । च॒ । विश्वे॑भ्य: । च॒ । दे॒वेभ्य॑: । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.३॥
Mantra 4
बृ॑ह॒तश्च॒ वै सर॑थन्त॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च दे॒वानां॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ प्राच्यां॑ दि॒शि ॥
बृ॒ह॒त: । च॒ । वै । स: । र॒थ॒म्ऽत॒रस्य॑ । च॒ । आ॒दि॒त्याना॑म् । च॒ । विश्वे॑षाम् । च॒ । दे॒वाना॑म् । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्राच्या॑म् । दि॒शि ॥२.४॥
Mantra 5
श्र॒द्धापुं॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौप्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥
श्र॒ध्दा । पुं॒श्च॒ली । मि॒त्र: । मा॒ग॒ध: । वि॒ऽज्ञान॑म् । वास॑: । अह॑: । उ॒ष्णीष॑म् । रात्री॑ । केशा॑: । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लि: । म॒णि: ॥२.५॥
Mantra 6
भू॒तं च॑भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम् ॥
भू॒तम् । च॒ । भ॒वि॒ष्यत् । च॒ । प॒रि॒ऽस्क॒न्दौ । मन॑: । वि॒ऽप॒थम् ॥२.६॥
Mantra 7
मा॑त॒रिश्वा॑ च॒पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः ॥
मा॒त॒रिश्वा॑ । च॒ । पव॑मान: । च॒ । वि॒प॒थ॒ऽवा॒हौ । वात॑: । सार॑थि: । रे॒ष्मा । प्र॒ऽतो॒द: ॥२.७॥
Mantra 8
की॒र्तिश्च॒यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥
की॒र्ति: । च॒ । यश॑: । च॒ । पु॒र॒:ऽस॒रौ । आ । ए॒न॒म् । की॒र्ति: । ग॒च्छ॒ति॒ । आ । यश॑: । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥२.८॥
Mantra 9
स उद॑तिष्ठ॒त्सदक्षि॑णां॒ दिश॒मनु॒ व्यचलत् ॥
स: । उत् । अ॒ति॒ष्ठ॒त् । स: । दक्षि॑णाम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥२.९॥
Mantra 10
तंय॑ज्ञाय॒ज्ञियं॑ च॒ वा॑मदे॒व्यं च॑ य॒ज्ञश्च॒ यज॑मानश्चप॒शव॑श्चानु॒व्यचलन्॥
तम् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । य॒ज्ञ: । च॒ । यज॑मान: । च॒ । प॒शव॑: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥२.१०॥
Mantra 11
य॑ज्ञाय॒ज्ञिया॑यच॒ वै स वा॑मदे॒व्याय॑ च य॒ज्ञाय॑ च॒ यज॑मानाय च प॒शुभ्य॒श्चा वृ॑श्चते॒ य ए॒वंवि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥
य॒ज्ञा॒य॒ज्ञिया॑य । च॒ । वै । स: । वा॒म॒ऽदे॒व्याय॑ । च॒ । य॒ज्ञाय॑ । च॒ । यज॑मानाय । च॒ । प॒शुऽभ्य॑: । च॒ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.११॥
Mantra 12
य॑ज्ञाय॒ज्ञिय॑स्य च॒ वै स वा॑मदे॒व्यस्य॑ च य॒ज्ञस्य॑ च॒ यज॑मानस्य च पशू॒नांच॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ दक्षि॑णायां दिशि ॥
य॒ज्ञा॒य॒ज्ञिय॑स्य । च॒ । वै । स: । वा॒म॒ऽदे॒वस्य॑ । च॒ । य॒ज्ञस्य॑ । च॒ । यज॑मानस्य । च॒ । प॒शू॒नाम् । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । दक्षि॑णायाम् । दि॒शि ॥२.१२॥
Mantra 13
उषाः पुं॑श्च॒लीमन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौक॑ल्म॒लिर्म॒णिः ॥
उ॒षा: । पुं॒श्च॒ली । मन्त्र॑: । मा॒ग॒ध: । वि॒ऽज्ञान॑म् । वास॑: । अह॑: । उ॒ष्णीष॑म् । रात्री॑ । केशा॑: । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लि: । म॒णि: ॥२.१३॥
Mantra 14
अ॑मावा॒स्या चपौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौवा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥
अ॒मा॒ऽवा॒स्या᳡ । च॒ । पौ॒र्ण॒ऽमा॒सी । च॒ । प॒रि॒ऽस्क॒न्दौ । मन॑: । वि॒ऽप॒थम् । मा॒त॒रिश्वा॑ । च॒ । पव॑मान: । च॒ । वि॒प॒थ॒ऽवा॒हौ । वात॑: । सार॑थि: । रे॒ष्मा । प्र॒ऽतो॒द: । की॒र्ति: । च॒ । यश॑: । च॒ । पु॒र॒:ऽस॒रौ । आ । ए॒न॒म् । की॒र्ति: । ग॒च्छ॒ति॒ । आ । यश॑: । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ।॥२.१४॥
Mantra 15
स उद॑तिष्ठ॒त्सप्र॒तीचीं॒ दिश॒मनु॒ व्यचलत् ॥
स: । उत् । अ॒ति॒ष्ठ॒त् । स: । प्र॒तीची॑म् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥२.१५॥
Mantra 16
तं वै॑रू॒पं च॑वैरा॒जं चाप॑श्च॒ वरु॑णश्च॒ राजा॑नु॒व्यचलन् ॥
तम् । वै॒रू॒पम् । च॒ । वै॒रा॒जम् । च॒ । आप॑: । च॒ । वरु॑ण: । च॒ । राजा॑ । अ॒नु॒ऽव्य᳡चलन् ॥२.१६॥
Mantra 17
वै॑रू॒पाय॑ च॒ वैस वै॑रा॒जाय॑ चा॒द्भ्यश्च॒ वरु॑णाय च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वं वि॒द्वांसं॒व्रात्य॑मुप॒वद॑ति ॥
वै॒रू॒पाय॑ । च॒ । वै । स: । वै॒रा॒जाय॑ । च॒ । अ॒त्ऽभ्य: । च॒ । वरु॑णाय । च॒ । राज्ञे॑ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.१७॥
Mantra 18
वै॑रू॒पस्य॑ च॒वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्य॑प्र॒तीच्यां॑ दि॒शि॥
वै॒रू॒पस्य॑ । च॒ । वै । स: । वै॒रा॒जस्य॑ । च॒ । अ॒पाम् । च॒ । वरु॑णस्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्र॒तीच्या॑म् । दि॒शि ॥२.१८॥
Mantra 19
इरा पुं॑श्च॒लीहसो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौक॑ल्म॒लिर्म॒णिः ॥
ई॒रा । पुं॒श्च॒ली । हस॑: । मा॒ग॒ध: । वि॒ऽज्ञान॑म् । वास॑: । अह॑: । उ॒ष्णीष॑म् । रात्री॑ । केशा॑: । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लि: । म॒णि: ॥२.१९॥
Mantra 20
अह॑श्च॒ रात्री॑च परिष्क॒न्दौ मनो॑ विप॒थम्। मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वा॒तः सार॑थीरे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑गच्छति॒ य ए॒वं वेद॑ ॥
अह॑: । च॒ । रात्री॑ । च॒ । प॒रि॒ऽस्क॒न्दौ । मन॑: । वि॒ऽप॒थम् । मा॒त॒रिश्वा॑ । च॒ । पव॑मान: । च॒ । वि॒प॒थ॒ऽवा॒हौ । वात॑: । सार॑थि: । रे॒ष्मा । प्र॒ऽतो॒द: । की॒र्ति: । च॒ । यश॑: । च॒ । पु॒र॒:ऽस॒रौ । आ । ए॒न॒म् । की॒र्ति: । ग॒च्छ॒ति॒ । आ । यश॑: । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥२.२०॥
Mantra 21
स उद॑तिष्ठ॒त्सउदी॑चीं॒ दिश॒मनु॒ व्यचलत् ॥
स: । उत् । अ॒ति॒ष्ठ॒त् । स: । उदी॑चीम् । दिश॑म् । अनु॑ । वि । अ॒च॒ल॒त् ॥२.२१॥
Mantra 22
तं श्यै॒तं च॑नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्यचलन् ॥
तम् । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । स॒प्त॒ऽऋ॒षय॑: । च॒ । सोम॑:। च॒ । राजा॑ । अ॒नु॒ऽव्य᳡चलन् ॥२.२२॥
Mantra 23
श्यै॒ताय॑ च॒ वैस नौ॑ध॒साय॑ च सप्त॒र्षिभ्य॑श्च॒ सोमा॑य च॒ राज्ञ॒ आ वृ॑श्चते॒ य ए॒वंवि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥
श्यै॒ताय॑ । च॒ । वै । स: । नौ॒ध॒साय॑ । च॒ । स॒प्त॒र्षिऽभ्य॑:। च॒ । सोमा॑य । च॒ । राज्ञे॑ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.२३॥
Mantra 24
श्यै॒तस्य॑ च॒ वैस नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्योदी॑च्यां दि॒शि ॥
श्यै॒तस्य॑ । च॒ । वै । स: । नौ॒ध॒सस्य॑ । च॒ । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ । सोम॑स्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । उदी॑च्याम् । दि॒शि ॥२.२४॥
Mantra 25
वि॒द्युत्पुं॑श्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥
वि॒ऽद्युत् । पुं॒श्च॒ली । स्त॒न॒यि॒त्नु: । मा॒ग॒ध: । वि॒ऽज्ञान॑म् । वास॑: । अह॑: । उ॒ष्णीष॑म् । रात्री॑ । केशा॑: । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लि: । म॒णि: ॥२.२५॥
Mantra 26
श्रु॒तं च॒विश्रु॑तं च परिष्क॒न्दौ मनो॑ विप॒थम् ॥
श्रु॒तम् । च॒ । विऽश्रु॑तम् । च॒ । प॒रि॒ऽस्क॒न्दौ । मन॑: । वि॒ऽप॒थम् ॥२.२६॥
Mantra 27
मा॑त॒रिश्वा॑ च॒पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः ॥
मा॒त॒रिश्वा॑ । च॒ । पव॑मान: । च॒ । वि॒प॒थ॒ऽवा॒हौ । वात॑: । सार॑थि: । रे॒ष्मा । प्र॒ऽतो॒द: ॥२.२७॥
Mantra 28
की॒र्तिश्च॒ यश॑श्चपुरःस॒रावैनं॑की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥
की॒र्ति: । च॒ । यश॑: । च॒ । पु॒र॒:ऽस॒रौ । आ । ए॒न॒म् । की॒र्ति: । ग॒च्छ॒ति॒ । आ । यश॑: । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥२.२८॥