Mantra 1
तस्य॒व्रात्य॑स्य।योऽस्य॑ प्रथ॒मो व्या॒नः सेयं भूमिः॑ ॥
तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प्र॒थ॒म: । वि॒ऽआ॒न: । सा । इ॒यम् । भूमि॑: ॥१७.१॥
Mantra 2
तस्य॒व्रात्य॑स्य।योऽस्य॑ द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम् ॥
तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । द्वि॒तीय॑: । वि॒ऽआ॒न: । तत् । अ॒न्तरि॑क्षम् ॥१७.२॥
Mantra 3
तस्य॒व्रात्य॑स्य।योऽस्य॑ तृ॒तीयो॑ व्या॒नः सा द्यौः ॥
तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । तृ॒तीय॑: । वि॒ऽआ॒न: । सा । द्यौ: ॥१७.३॥
Mantra 4
तस्य॒व्रात्य॑स्य।योऽस्य॑ चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि ॥
तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । च॒तु॒र्थ: । वि॒ऽआ॒न: । तानि॑ । नक्ष॑त्राणि ॥१७.४॥
Mantra 5
तस्य॒व्रात्य॑स्य।योऽस्य॑ पञ्च॒मो व्या॒नस्त ऋ॒तवः॑ ॥
तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प॒ञ्च॒म: । वि॒ऽआ॒न: । ते । ऋ॒तव॑: ॥१७.५॥
Mantra 6
तस्य॒व्रात्य॑स्य।योऽस्य॑ ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः ॥
तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । ष॒ष्ठ: । वि॒ऽआ॒न: । ते । आ॒र्त॒वा: ॥१७.६॥
Mantra 7
तस्य॒व्रात्य॑स्य।योऽस्य॑ सप्त॒मो व्या॒नः स सं॑वत्स॒रः ॥
तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । स॒प्त॒म: । वि॒ऽआ॒न: । स: । स॒म्ऽव॒त्स॒र: ॥१७.७॥
Mantra 8
तस्य॒व्रात्य॑स्य। स॑मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च ॥
स॒मा॒नम् । अर्थ॑म् । परि॑ । य॒न्ति॒ । दे॒वा: । स॒म्ऽव॒त्स॒रम् । वै । ए॒तत् । ऋ॒तव॑: । अ॒नु॒ऽपरि॑यन्ति । व्रात्य॑म् । च॒॥१७.८॥
Mantra 9
तस्य॒व्रात्य॑स्य। यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां चै॒व तत्पौ॑र्णमा॒सीं च॑॥
तस्य॑ । व्रात्य॑स्य । यत् । आ॒दि॒त्यम् । अ॒भि॒ऽसं॒वि॒शन्ति॑ । अ॒मा॒ऽवा॒स्या᳡म् । च॒ । ए॒व । तत् । पौ॒र्ण॒ऽमा॒सीम् । च॒॥१७.९॥
Mantra 10
तस्य॒व्रात्य॑स्य। एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व ॥
एक॑म् । तत् । ए॒षा॒म् । अ॒मृ॒त॒ऽत्वम् । इति॑ । आऽहु॑ति: । ए॒व ॥१७.१०॥