Mantra 1
तद्यस्यै॒वंवि॒द्वान्व्रात्य॒ उद्धृ॑तेष्व॒ग्निष्वधि॑श्रितेऽग्निहो॒त्रेऽति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । उध्दृ॑तेषु । अ॒ग्निषु॑ । अधि॑ऽश्रिते । अ॒ग्नि॒ऽहो॒त्रे । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥१२.१॥
Mantra 2
स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्याति॑ सृज हो॒ष्यामीति॑ ॥
स्व॒यम् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒या॒त् । व्रात्य॑ । अति॑ । सृ॒ज॒ । हो॒ष्यामि॑ । इति॑ ॥१२.२॥
Mantra 3
सचा॑तिसृ॒जेज्जु॑हु॒यान्न चा॑तिसृ॒जेन्न जु॑हुयात् ॥
स: । च॒ । अ॒ति॒ऽसृ॒जेत् । जु॒हु॒यात् । न । च॒ । अ॒ति॒ऽसृ॒जेत् । न । जु॒हु॒या॒त् ॥१२.३॥
Mantra 4
स य ए॒वंवि॒दुषा॒ व्रात्ये॒नाति॑सृष्टो जु॒होति॑ ॥
स: । य: । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अति॑ऽसृष्ट: । जु॒होति॑ ॥१२.४॥
Mantra 5
प्र पि॑तृ॒याणं॒पन्थां॑ जानाति॒ प्र दे॑व॒यान॑म् ॥
प्र । पि॒तृ॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । प्र । दे॒व॒ऽयान॑म् ॥१२.५॥
Mantra 6
न दे॒वेष्वावृ॑श्चते हु॒तम॑स्य भवति ॥
न । दे॒वेषु॑ । आ । वृ॒श्च॒ते॒ । हु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥१२.६॥
Mantra 7
पर्य॑स्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृष्टोजु॒होति॑ ॥
परि॑ । अ॒स्य॒ । अ॒स्मिन् । लो॒के । आ॒ऽयत॑नम् । शि॒ष्य॒ते॒ । य: । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न। अति॑ऽसृष्ट: । जु॒हो॒ति॒ ॥१२.७॥
Mantra 8
अथ॒ य ए॒वंवि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टो जु॒होति॑ ॥
अथ॑ । य: । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अन॑तिऽसृष्ट: । जु॒होति॑ ॥१२.८॥
Mantra 9
न पि॑तृ॒याणं॒पन्थां॑ जानाति॒ न दे॑व॒यान॑म् ॥
न । पि॒तृ॒ऽयान॑म् । पन्था॑म् । जा॒ना॒ति॒ । न । दे॒व॒ऽयान॑म् ॥१२.९॥
Mantra 10
आ दे॒वेषु॑वृश्चते अहु॒तम॑स्य भवति ॥
आ । दे॒वेषु॑ । वृ॒श्च॒ते॒ । अ॒हु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥१२.१०॥
Mantra 11
नास्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टोजु॒होति॑ ॥
न । अ॒स्य॒ । अ॒स्मिन् । लो॒के । आ॒ऽयत॑नम् । शि॒ष्य॒ते॒ । य: । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अन॑तिऽसृष्ट:। जु॒होति॑ ॥१२.११॥