Mantra 1
तद्यस्यै॒वंवि॒द्वान्व्रात्योऽति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
व्रात्य: । अतिथि: । तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । राज्ञ॑: । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥११.१॥
Mantra 2
स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्य॒ क्वावात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ॥
स्व॒यम् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒या॒त् । व्रात्य॑ । क्व᳡ । अ॒वा॒त्सी॒: । व्रात्य॑ । उ॒द॒कम् । व्रात्य॑ । त॒र्पय॑न्तु । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । वश॑: । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒म: । तथा॑ । अ॒स्तु॒ । इति॑ ॥११.२॥
Mantra 3
यदे॑न॒माह॒व्रात्य॒ क्वावात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ॥
यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । क्व᳡ । अ॒वा॒त्सी॒: । इति॑ । प॒थ: । ए॒व । तेन॑ । दे॒व॒ऽयाना॑न् । अव॑ । रु॒न्ध्दे॒ ॥११.३॥
Mantra 4
यदे॑न॒माह॑व्रात्योद॒कमित्य॒प ए॒व तेनाव॑ रुन्द्धे ॥
यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । उ॒द॒कम् । इति॑ । अ॒प: । ए॒व । तेन॑ । अव॑ ।रु॒न्ध्दे॒ ॥११.४॥
Mantra 5
यदे॑न॒माह॒व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ॥
यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । त॒र्पय॑न्तु । इति॑। प्रा॒णम् । ए॒व । तेन॑ । वर्षी॑यांसम् । कु॒रु॒ते॒ ॥११.५॥
Mantra 6
यदे॑न॒माह॒व्रात्य॒ यथा॑ ते प्रि॒यं तथा॒स्त्विति॑ प्रि॒यमे॒व तेनाव॑ रुन्द्धे ॥
यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒ । इति॑ । प्रि॒यम् । ए॒व । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥११.६॥
Mantra 7
ऐनं॑ प्रि॒यंग॑च्छति प्रि॒यः प्रि॒यस्य॑ भवति॒ य ए॒वं वेद॑ ॥
आ । ए॒न॒म् । प्रि॒यम् । ग॒च्छ॒ति॒ । प्रि॒य: । प्रि॒यस्य॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥११.७॥
Mantra 8
यदे॑न॒माह॒व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व तेनाव॑ रुन्द्धे ॥
यत् । ए॒न॒म् । आह॑ । ते॒ । वश॑: । तथा॑ । अ॒स्तु॒ । इति॑ । वश॑म् । एव । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥११.८॥
Mantra 9
ऐनं॒ वशो॑ गच्छतिव॒शी व॒शिनां॑ भवति॒ य ए॒वं वेद॑ ॥
आ । ए॒न॒म् । वश॑: । ग॒च्छ॒ति॒ । व॒शी । व॒शिना॑म् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१०.९॥
Mantra 10
यदे॑न॒माह॒व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ निका॒ममे॒व तेनाव॑ रुन्द्धे ॥
यत् । ए॒न॒म् । आह॑ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒म: । तथा॑ । अ॒स्तु॒ । इति॑ । नि॒ऽका॒मम् । ए॒व । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥११.१०॥
Mantra 11
ऐनं॑ निका॒मोग॑च्छति निका॒मे नि॑का॒मस्य॑ भवति॒ य ए॒वं वेद॑ ॥
आ । ए॒न॒म् । नि॒ऽका॒म: । ग॒च्छ॒ति॒ । नि॒ऽका॒मे । नि॒ऽका॒मस्य॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥११.११॥