Mantra 1
उ॒देहि॑ वाजि॒न्यो अ॒प्स्वन्तरि॒दं रा॒ष्ट्रं प्र वि॑श सू॒नृता॑वत्। यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॒ स त्वा॑ रा॒ष्ट्राय॒ सुभृ॑तं बिभर्तु ॥
उ॒त्ऽएहि॑ । वा॒जि॒न् । य: । अ॒प्ऽसु । अ॒न्त:। इ॒दम् । रा॒ष्ट्रम् । प्र । वि॒श॒ । सू॒नृता॑ऽवत् । य: । रोहि॑त: । विश्व॑म् । इ॒दम् । ज॒जान॑ । स: । त्वा॒ । रा॒ष्ट्राय॑ । सुऽभृ॑तम् । बि॒भ॒र्तु॒ ॥१.१॥
Mantra 2
उद्वाज॒ आ ग॒न्यो अ॒प्स्वन्तर्विश॒ आ रो॑ह॒ त्वद्यो॑नयो॒ याः। सोमं॒ दधा॑नो॒ऽप ओष॑धी॒र्गाश्चतु॑ष्पदो द्वि॒पद॒ आ वे॑शये॒ह ॥
उत् । वाज॑: । आ । ग॒न् । य: । अ॒प्ऽसु । अ॒न्त: । विश॑: । आ । रो॒ह॒ । त्वत्ऽयो॑नय: । या: । सोम॑म् । दधा॑न: । अ॒प: । ओष॑धी: । गा: । चतु॑:ऽपद: । द्वि॒ऽपद॑: । आ । वे॒श॒य॒ । इह॥१.२॥
Mantra 3
यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्। आ वो॒ रोहि॑तः शृणवत्सुदानवस्त्रिष॒प्तासो॑ मरुतः स्वादुसंमुदः ॥
यू॒यम् । उ॒ग्रा: । म॒रु॒त॒: । पृ॒श्नि॒मा॒त॒र॒: । इन्द्रे॑ण । यु॒जा । प्र । मृ॒णी॒त॒ । शत्रू॑न् । आ । व॒: । रोहि॑त: । शृ॒ण॒व॒त् । सु॒ऽदा॒न॒व॒: । त्रि॒ऽस॒प्तास॑: । म॒रु॒त॒: । स्वा॒दु॒ऽसं॒मु॒द॒: ॥१.३॥
Mantra 4
रुहो॑ रुरोह॒ रोहि॑त॒ आ रु॑रोह॒ गर्भो॒ जनी॑नां ज॒नुषा॑मु॒पस्थ॑म्। ताभिः॒ संर॑ब्ध॒मन्व॑विन्द॒न्षडु॒र्वीर्गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः॑ ॥
रुह॑: । रु॒रो॒ह॒ । रोहि॑त: । आ । रु॒रो॒ह॒ । गर्भ॑: । जनी॑नाम् । ज॒नुषा॑म् । उ॒पऽस्थ॑म् । ताभि॑: । सम्ऽर॑ब्धम् । अनु॑ । अ॒वि॒न्द॒न् । षट् । उ॒र्वी: । गा॒तुम् । प्र॒ऽपश्य॑न् । इ॒ह । रा॒ष्ट्रम् । आ । अ॒हा॒: ॥१.४॥
Mantra 5
आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्यास्थ॒न्मृधो॒ अभ॑यं ते अभूत्। तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥
आ । ते॒ । रा॒ष्ट्रम् । इ॒ह । रोहि॑त: । अ॒हा॒र्षी॒त् । वि । आ॒स्थ॒त् । मृध॑: । अभ॑यम् । ते॒ । अ॒भू॒त् । तस्मै॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । रे॒वती॑भि: । काम॑म् । दु॒हा॒था॒म् । इ॒ह । शक्व॑रीभि: ॥१.५॥
Mantra 6
रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान॒ तत्र॒ तन्तुं॑ परमे॒ष्ठी त॑तान। तत्र॑ शिश्रिये॒ऽज एक॑पा॒दोऽदृं॑ह॒द्द्यावा॑पृथि॒वी बले॑न ॥
रोहि॑त: । द्यावा॑पृथि॒वी । इति॑ । ज॒जा॒न॒ । तत्र॑ । तन्तु॑म् । प॒र॒मे॒ऽस्थी । त॒ता॒न॒ । तत्र॑ । शि॒श्रि॒ये॒ । अ॒ज: । एक॑ऽपाद: । अदृं॑हत् । द्यावा॑पृथि॒वी इति॑ । बले॑न ॥१,६॥
Mantra 7
रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त्तेन॒ स्व स्तभि॒तं तेन॒ नाकः॑। तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन् ॥
रोहि॑त: । द्यावा॑पृथि॒वी इति॑ । अ॒दृं॒ह॒त् । तेन॑ । स्व᳡: । स्त॒भि॒तम् । तेन॑ । नाक॑: । तेन॑ । अ॒न्तरि॑क्षम् । विऽमि॑ता । रजां॑सि । तेन॑ । दे॒वा: । अ॒मृत॑म् । अनु॑ । अ॒वि॒न्द॒न् ॥१.७॥
Mantra 8
वि रोहि॑तो अमृशद्वि॒श्वरू॑पं समाकुर्वा॒णः प्र॒रुहो॒ रुह॑श्च। दिवं॑ रू॒ढ्वा म॑ह॒ता म॑हि॒म्ना सं ते॑ रा॒ष्ट्रम॑नक्तु॒ पय॑सा घृ॒तेन॑ ॥
वि । रोहि॑त: । अ॒मृ॒श॒त् । वि॒श्वऽरू॑पम् । स॒म्ऽआ॒कु॒र्वा॒ण: । प्र॒ऽरुह॑: । रुह॑: । च॒ । दिव॑म् । रू॒ढ्वा । म॒ह॒ता । म॒हि॒म्ना । सम् । ते॒ । रा॒ष्ट्रम् । अ॒न॒क्तु॒ । पय॑सा । घृ॒तेन॑ ॥१.८॥
Mantra 9
यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। तासां॒ ब्रह्म॑णा॒ पय॑सा वावृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य ॥
या: । ते॒ । रुह॑: । प्र॒ऽरुह॑: । या: । ते॒ । आ॒ऽरुह॑: । याभि॑: । आ॒ऽपृ॒णासि॑ । दिव॑म् । अ॒न्तरि॑क्षम् । तासा॑म् । ब्रह्म॑णा । पय॑सा । व॒वृ॒धा॒न: । वि॒शि । रा॒ष्ट्रे । जा॒गृ॒हि॒ । रोहि॑तस्य ॥१.९॥
Mantra 10
यास्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑। तास्त्वा॑ विशन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्येतु॒ रोहि॑तः ॥
या: । ते॒ । विश॑: । तप॑स: । स॒म्ऽब॒भू॒वु: । व॒त्सम् । गा॒य॒त्रीम् । अनु॑ । ता: । इ॒ह । आ । अ॒गु॒: । ता: । त्वा॒ । आ । वि॒श॒न्तु॒ । मन॑सा । शि॒वेन॑ । सम्ऽमा॑ता । व॒त्स: । अ॒भि । ए॒तु॒ । रोहि॑त: ॥१.१०॥
Mantra 11
ऊ॒र्ध्वो रोहि॑तो॒ अधि॒ नाके॑ अस्था॒द्विश्वा॑ रू॒पाणि॑ ज॒नय॒न्युवा॑ क॒विः। ति॒ग्मेना॒ग्निर्ज्योति॑षा॒ वि भा॑ति तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥
ऊ॒र्ध्व: । रोहि॑त: । अधि॑ । नाके॑ । अ॒स्था॒त् । विश्वा॑ । रू॒पाणि॑ । ज॒नय॑न् । युवा॑ । क॒वि: । ति॒ग्मेन॑ । अ॒ग्नि: । ज्योति॑षा । वि । भा॒ति॒ । तृ॒तीये॑ । च॒क्रे॒ । रज॑सि । प्रि॒याणि॑ ॥१.११॥
Mantra 12
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑। मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥
स॒हस्र॑ऽशृङ्ग: । वृ॒ष॒भ: । जा॒तऽवे॑दा: । घृ॒तऽआ॑हुत: । सोम॑ऽपृष्ठ: । सु॒ऽवीर॑: । मा । मा॒ । हा॒सी॒त् । ना॒थि॒त: । न । इत् । त्वा॒ । जहा॑नि । गो॒ऽपो॒षम् । च॒ । मे॒ । वी॒र॒ऽपो॒षम् । च॒ । धे॒हि॒ ॥१.१२॥
Mantra 13
रोहि॑तो य॒ज्ञस्य॑ जनि॒ता मुखं॑ च॒ रोहि॑ताय वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि। रोहि॑तं दे॒वा य॑न्ति सुमन॒स्यमा॑नाः॒ स मा॒ रोहैः॑ सामि॒त्यै रो॑हयतु ॥
रोहि॑त: । य॒ज्ञस्य॑ । ज॒नि॒ता । मुख॑म् । च॒ । रोहि॑ताय । वा॒चा । श्रोत्रे॑ण । मन॑सा । जु॒हो॒मि॒ । रोहि॑तम् । दे॒वा: । य॒न्ति॒ । सु॒ऽम॒न॒स्यमा॑ना: । स: । मा॒ । रोहै॑: । सा॒म्ऽइ॒त्यै । रो॒ह॒य॒तु॒ ॥१.१३॥
Mantra 14
रोहि॑तो य॒ज्ञं व्यदधाद्वि॒श्वक॑र्मणे॒ तस्मा॒त्तेजां॒स्युप॑ मे॒मान्यागुः॑। वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥
रोहि॑त: । य॒ज्ञम् । वि । अ॒द॒धा॒त् । वि॒श्वऽक॑र्मणे । तस्मा॑त् । तेजां॑सि । उप॑ । मा॒ । इ॒मानि॑। आ । अ॒गु॒: । वो॒चेय॑म् । ते॒ । नाभि॑म् । भुव॑नस्य । अधि॑ । म॒ज्मनि॑॥१.१४॥
Mantra 15
आ त्वा॑ रुरोह बृह॒त्यु॒त प॒ङ्क्तिरा क॒कुब्वर्च॑सा जातवेदः। आ त्वा॑ रुरोहोष्णिहाक्ष॒रो व॑षट्का॒र आ त्वा॑ रुरोह॒ रोहि॑तो॒ रेत॑सा स॒ह ॥
आ । त्वा॒ । रु॒रो॒ह॒ । बृ॒ह॒ती । उ॒त । प॒ङ्क्ति: । आ । क॒कुप् । वर्च॑सा । जा॒त॒ऽवे॒द॒: । आ । त्वा॒ । रु॒रो॒ह॒ । उ॒ष्णि॒हा॒ऽअ॒क्ष॒र: । व॒ष॒ट्ऽका॒र: । आ । त्वा॒ । रु॒रो॒ह॒ । रोहि॑त: । रेत॑सा । स॒ह ॥१.१५।
Mantra 16
अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ऽयम॒न्तरि॑क्षम्। अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्वर्लो॒कान्व्यानशे ॥
अ॒यम् । व॒स्ते॒ । गर्भ॑म् । पृ॒थि॒व्या: । दिव॑म् । व॒स्ते॒ । अ॒यम् । अ॒न्तरि॑क्षम् । अ॒यम् । ब्र॒ध्नस्य॑ । वि॒ष्टपि॑ । स्व᳡: । लो॒कान् । वि। आ॒न॒शे॒ ॥१.१६॥
Mantra 17
वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु ॥
वाच॑: । प॒ते॒ । पृ॒थि॒वी । न॒: । स्यो॒ना । स्यो॒ना: । योनि॑: । तल्पा॑ । न॒: । सु॒ऽशेवा॑ । इ॒ह । ए॒व । प्रा॒ण: । स॒ख्ये । न॒: । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न्। परि॑ । अ॒ग्नि: ।आयु॑षा । वर्च॑सा । द॒धा॒तु॒ ॥१.१७॥
Mantra 18
वाच॑स्पत ऋ॒तवः॒ पञ्च॒ ये नौ॑ वैश्वकर्म॒णाः परि॒ ये सं॑बभू॒वुः। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्परि॒ रोहि॑त॒ आयु॑षा॒ वर्च॑सा दधातु ॥
प॒ते॒ । ऋ॒तव॑: । पञ्च॑ । ये । नौ॒ । वै॒श्व॒ऽक॒र्म॒णा । परि॑ । ये । स॒म्ऽब॒भू॒वु: । परि॑। रोहि॑त: । आयु॑षा । वर्च॑सा । द॒धा॒तु॒ ॥१.१८॥
Mantra 19
वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒हमायु॑षा॒ वर्च॑सा दधामि ॥
वाच॑: । प॒ते॒ । सौ॒म॒न॒सम् । मन॑: । च॒ । गो॒ऽस्थे । न॒: । गा: । ज॒नय॑ । योनि॑षु । प्र॒ऽजा: । इ॒ह । ए॒व । प्रा॒ण: । स॒ख्ये । न॒: । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न् । परि॑ । अ॒हम् । आयु॑षा । वर्च॑सा । द॒धा॒मि॒ ॥१.१९॥
Mantra 20
परि॑ त्वा धात्सवि॒ता दे॒वो अ॒ग्निर्वर्च॑सा मि॒त्रावरु॑णाव॒भि त्वा॑। सर्वा॒ अरा॑तीरव॒क्राम॒न्नेही॒दं रा॒ष्ट्रम॑करः सु॒नृता॑वत् ॥
परि॑ । त्वा॒ । धा॒त् । स॒वि॒ता । दे॒व: । अ॒ग्नि: । वर्च॑सा । मि॒त्रावरु॑णौ । अ॒भि । त्वा॒ । सर्वा॑: । अरा॑ती: । अ॒व॒ऽक्राम॑न् । आ । इ॒हि॒। इ॒दम् । रा॒ष्ट्रम् । अ॒क॒र॒: । सू॒नृता॑ऽवत् ॥१.२०॥
Mantra 21
यं त्वा॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति रोहित। शु॒भा या॑सि रि॒णन्न॒पः ॥
यम. । त्वा॒ । पृष॑ती । रथे॑ । प्रष्टि॑: । वह॑ति । रो॒हि॒त॒ । शु॒भा । या॒सि॒ । रि॒णन् । अ॒प: ॥१.२१॥
Mantra 22
अनु॑व्रता॒ रोहि॑णी॒ रोहि॑तस्य सू॒रिः सु॒वर्णा॑ बृह॒ती सु॒वर्चाः॑। तया॒ वाजा॑न्वि॒श्वरू॑पां जयेम॒ तया॒ विश्वाः॒ पृत॑ना अ॒भि ष्या॑म ॥
अनु॑ऽव्रता । रोहि॑णी । रोहि॑तस्य । सू॒रि: । सु॒ऽवर्णा॑ । बृ॒ह॒ती । सु॒ऽवर्चा॑: । तया॑ । वाजा॑न् । वि॒श्वऽरू॑पान् । ज॒ये॒म॒ । तया॑ । विश्वा॑: । पृत॑ना: । अ॒भि । स्या॒म॒ ॥१.२२॥
Mantra 23
इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑। तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयोऽप्र॑मादम् ॥
इ॒दम् । सद॑: । रोहि॑णी । रोहि॑तस्य । अ॒सौ । पन्था॑: । पृष॑ती । येन॑ । याति॑ । ताम् । ग॒न्ध॒र्वा: । क॒श्यपा॑: । उत् । न॒य॒न्ति॒ । क॒वय॑: । अप्र॑ऽमादम् ॥१.२३॥
Mantra 24
सूर्य॒स्याश्वा॒ हर॑यः केतु॒मन्तः॒ सदा॑ वहन्त्य॒मृताः॑ सु॒खं रथ॑म्। घृ॑त॒पावा॒ रोहि॑तो॒ भ्राज॑मानो॒ दिवं॑ दे॒वः पृष॑ती॒मा वि॑वेश ॥
सूर्य॑स्य । अश्वा॑: । हर॑य: । के॒तु॒ऽमन्त॑: । सदा॑ । व॒ह॒न्ति॒ । अ॒मृता॑: । सु॒ऽखम् । रथ॑म् । घृ॒त॒ऽपावा॑ । रोहि॑त: । भ्राज॑माना: । दिव॑म् । दे॒व: । पृष॑तीम् । आ । वि॒वे॒श॒ ॥१.२४॥
Mantra 25
यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑। यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द्दे॒वा अधि॒ सृष्टीः॑ सृजन्ते ॥
य: । रोहि॑त: । वृ॒ष॒भ: । ति॒ग्मऽशृ॑ङ्ग: । परि॑ । अ॒ग्निम् । परि॑ । सूर्य॑म् । ब॒भूव॑ । य: । वि॒ऽस्त॒भ्नाति॑ । पृ॒थि॒वीम् । दिव॑म् । च॒ । तस्मा॑त् । दे॒वा: । अधि॑ । सृष्टी॑: । सृ॒ज॒न्ते॒ ॥१.२५॥
Mantra 26
रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात्। सर्वो॑ रुरोह॒ रोहि॑तो॒ रुहः॑ ॥
रोहि॑त: । दिव॑म् । आ । अ॒रु॒ह॒त् । म॒ह॒त: । परि॑ । अ॒र्ण॒वात् । सर्वा॑: । रु॒रो॒ह॒ । रोहि॑त: । रुह॑: ॥१.२६॥
Mantra 27
वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा। इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥
वि । मि॒मी॒ष्व॒ । पय॑स्वतीम् । घृ॒ताची॑म् । दे॒वाना॑म् । धे॒नु: । अन॑पऽस्पृक् । ए॒षा । इन्द्र॑: ।सोम॑म् । पि॒ब॒तु॒ । क्षेम॑: । अ॒स्तु॒ । अ॒ग्नि: । प्र । स्तौ॒तु॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥१.२७॥
Mantra 28
समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः। अ॑भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ॥
सम्ऽइ॑ध्द: । अ॒ग्नि: । स॒म्ऽइ॒धा॒न: । घृ॒तऽवृ॑ध्द: । घृ॒तऽआ॑हुत: । अ॒भी॒षाट् । वि॒श्वा॒षाट् । अ॒ग्नि: । स॒ऽपत्ना॑न् । ह॒न्तु॒ । ये । मम॑ ॥१.२८॥
Mantra 29
हन्त्वे॑ना॒न्प्र द॑ह॒त्वरि॒र्यो नः॑ पृत॒न्यति॑। क्र॒व्यादा॒ग्निना॑ व॒यं स॒पत्ना॒न्प्र द॑हामसि ॥
हन्तु॑ । ए॒ना॒न् । प्र । द॒ह॒तु॒ । अरि॑: । य: । न॒: । पृ॒त॒न्यति॑ । क्र॒व्य॒ऽअदा॑ । अ॒ग्निना॑ । व॒यम् । स॒ऽपत्ना॑न् । प्र । द॒हा॒म॒सि॒ ॥१.२९॥
Mantra 30
अ॑वा॒चीना॒नव॑ ज॒हीन्द्र॒ वज्रे॑ण बाहु॒मान्। अधा॑ स॒पत्ना॑न्माम॒कान॒ग्नेस्तेजो॑भि॒रादि॑षि ॥
अ॒वा॒चीना॑न् । अव॑ । ज॒हि॒ । इन्द्र॑ । वज्रे॑ण । बा॒हु॒ऽमान् । अध॑ । स॒ऽपत्ना॑न् । मा॒म॒कान् । अ॒ग्ने । तेज॑:ऽभि: । आ । अ॒दि॒षि॒ ॥१.३०॥
Mantra 31
अग्ने॑ स॒पत्ना॒नध॑रान्पादया॒स्मद्व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते। इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः ॥
अग्ने॑ । स॒ऽपत्ना॑न् । अध॑रान् । पा॒द॒य॒ । अ॒स्मत् । व्य॒थय॑ । स॒ऽजा॒तम् । उ॒त्ऽपिपा॑नम् । बृ॒ह॒स्प॒ते॒ । इन्द्रा॑ग्नी॒ इति॑ । मित्रा॑वरुणौ । अध॑रे । प॒द्य॒न्ता॒म् । अप्र॑तिऽमन्यूयमाना: ॥१.३१॥
Mantra 32
उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि। अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑ ॥
उ॒त्ऽयन् । त्वम् । दे॒व॒ । सू॒र्य॒ । स॒ऽपत्ना॑न् । अव॑ । मे॒ । ज॒हि॒ । अव॑ । ए॒ना॒न् । अश्म॑ना । ज॒हि॒ । ते॒ । य॒न्तु॒ । अ॒ध॒मम् । तम॑: ॥१.३२॥
Mantra 33
व॒त्सो वि॒राजो॑ वृष॒भो म॑ती॒नामा रु॑रोह शु॒क्रपृ॑ष्ठो॒ऽन्तरि॑क्षम्। घृ॒तेना॒र्कम॒भ्यर्चन्ति व॒त्सं ब्रह्म॒ सन्तं॒ ब्रह्म॑णा वर्धयन्ति ॥
व॒त्स: । वि॒ऽराज॑: । वृ॒ष॒भ: । म॒ती॒नाम् । आ । रु॒रो॒ह॒ । शु॒क्रऽपृ॑ष्ठ: । अ॒न्तरि॑क्षम् । घृ॒तेन॑ । अ॒र्कम् । अ॒भि । अ॒र्च॒न्ति॒ । व॒त्सम् । ब्रह्म॑ । सन्त॑म् । ब्रह्म॑णा । व॒र्ध॒य॒न्ति॒ ॥१.३३॥
Mantra 34
दिवं॑ च॒ रोह॑ पृथि॒वीं च॑ रोह रा॒ष्ट्रं च॒ रोह॒ द्रवि॑णं च रोह। प्र॒जां च॒ रोहा॒मृतं॑ च रोह॒ रोहि॑तेन त॒न्वं सं स्पृ॑शस्व ॥
दिव॑म् । च॒ । रो॒ह॒ । पृ॒थि॒वीम् । च॒ । रो॒ह॒ । रा॒ष्ट्रम् । च॒ । रोह॑ । द्रवि॑णम् । च॒ । रो॒ह॒ । प्र॒ऽजाम् । च॒ । रोह॑ । अ॒मृत॑म् । च॒ । रो॒ह॒ । रोहि॑तेन । त॒न्व᳡म् । सम् । स्पृ॒श॒स्व॒ ॥१.३४॥
Mantra 35
ये दे॒वा रा॑ष्ट्र॒भृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्। तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥
ये । दे॒वा: । रा॒ष्ट्र॒ऽभृत॑: । अ॒भित॑: । यन्ति॑ । सूर्य॑म् । तै: । ते॒ । रोहि॑त: । स॒म्ऽवि॒दा॒न: । रा॒ष्ट्रम् । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑न: ॥१.३५॥
Mantra 36
उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति। ति॒रः स॑मु॒द्रमति॑ रोचसेऽर्ण॒वम् ॥
उत् । त्वा॒ । य॒ज्ञा: । ब्रह्म॑ऽपूता: । व॒ह॒न्ति॒ । अ॒ध्व॒ऽगत॑: । हर॑य: । त्वा॒ । व॒ह॒न्ति॒ । ति॒र: । स॒मु॒द्रम् । अति॑ । रो॒च॒से॒ । अ॒र्ण॒वम् ॥१.३६॥
Mantra 37
रोहि॑ते॒ द्यावा॑पृथि॒वी अधि॑ श्रि॒ते व॑सु॒जिति॑ गो॒जिति॑ संधना॒जिति॑। स॒हस्रं॒ यस्य॒ जनि॑मानि स॒प्त च॑ वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥
रोहि॑ते । द्यावा॑पृथि॒वी इति॑ । अधि॑ । श्रि॒ते इति॑ । व॒सु॒ऽजिति॑ । गो॒ऽजिति॑ । सं॒ध॒न॒ऽजिति॑ । स॒हस्र॑म् । यस्य॑ । जनि॑मानि । स॒प्त । च॒ । वोचेय॑म् । ते॒ । नाभि॑म् । भुव॑नस्य । अधि॑ । म॒ज्मनि॑ ॥१.३७॥
Mantra 38
य॒शा या॑सि प्र॒दिशो॒ दिश॑श्च य॒शाः प॑शू॒नामु॒त च॑र्षणी॒नाम्। य॒शाः पृ॑थि॒व्या अदि॑त्या उ॒पस्थे॒ऽहं भू॑यासं सवि॒तेव॒ चारुः॑ ॥
य॒शा: । या॒सि॒ । प्र॒ऽदिश॑: । दिश॑: ।च॒ । य॒शा: । प॒शू॒नाम् । उ॒त । च॒र्ष॒णी॒नाम् । य॒शा: । पृ॒थि॒व्या: । अदि॑त्या: । उ॒पऽस्थे॑ । भू॒या॒स॒म् । स॒वि॒ताऽइ॑व । चारु॑: ॥१.३८॥
Mantra 39
अ॒मुत्र॒ सन्नि॒ह वे॑त्थे॒तः संस्तानि॑ पश्यसि। इ॒तः प॑श्यन्ति रोच॒नं दि॒वि सूर्यं॑ विप॒श्चित॑म् ॥
अ॒मुत्र॑ । सन् । इ॒ह । वे॒त्थ॒ । इ॒त: । सन् । तानि॑ । प॒श्य॒सि॒ । इ॒त: । प॒श्य॒न्ति॒ । रो॒च॒नम् । दि॒वि । सूर्य॑म् । वि॒प॒:ऽचित॑म् ॥१.३९॥
Mantra 40
दे॒वो दे॒वान्म॑र्चयस्य॒न्तश्च॑रस्यर्ण॒वे। स॑मा॒नम॒ग्निमि॑न्धते॒ तं वि॑दुः क॒वयः॒ परे॑ ॥
दे॒व: । दे॒वान् । म॒र्च॒य॒सि॒ । अ॒न्त: । च॒र॒सि॒ । अ॒र्ण॒वे । स॒मा॒नम् । अ॒ग्निम् । इ॒न्ध॒ते॒ । तम् । वि॒दु॒: । क॒वय॑: । परे॑ ॥१.४०॥
Mantra 41
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात्। सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व स्वित्सूते न॒हि यू॒थे अ॒स्मिन् ॥
अ॒व: । परे॑ण । प॒र: । ए॒ना। अव॑रेण । प॒दा । व॒त्सम् । बिभ्र॑ती । गौ: । उत् । अ॒स्था॒त् । सा । क॒द्रीची॑ । कम् । स्वि॒त् । अर्ध॑म् । परा॑ । अ॒गा॒त् । क्व᳡। स्वि॒त् । सू॒ते॒ । न॒हि । यू॒थे । अ॒स्मिन् ॥१.४१॥
Mantra 42
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पद्य॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑। स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥
एक॑ऽपदी । द्वि॒ऽपदी॑ । सा । चतु॑:ऽपदी । अ॒ष्टाऽप॑दी । नव॑ऽपदी । ब॒भू॒वुषी॑ । स॒हस्र॑ऽअक्षरा । भुव॑नस्य । प॒ङ्क्ति । तस्या॑: । स॒मु॒द्रा: । अधि॑ । वि । क्ष॒र॒न्ति॒ ॥१.४२॥
Mantra 43
आ॒रोह॒न्द्याम॒मृतः॒ प्राव॑ मे॒ वचः॑। उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति ॥
आ॒ऽरोह॑न् । द्याम् । अ॒मृत॑: । प्र । अ॒व॒ । मे॒ । वच॑: । उत् । त्वा॒ । य॒ज्ञा: । ब्रह्म॑ऽपूता: । व॒ह॒न्ति॒ । अ॒ध्व॒ऽगत॑: । हर॑य: । त्वा॒ । व॒ह॒न्ति॒ ॥१.४३॥
Mantra 44
वेद॒ तत्ते॑ अमर्त्य॒ यत्त॑ आ॒क्रम॑णं दि॒वि। यत्ते॑ स॒धस्थं॑ पर॒मे व्योमन् ॥
वेद॑ । तत् । ते॒ । अ॒म॒र्त्य॒ । यत् । ते॒ । आ॒ऽक्रम॑णम् । दि॒वि । यत् । ते॒ । स॒धऽस्थ॑म् । प॒र॒मे । विऽओ॑मन् ॥१.४४॥
Mantra 45
सूर्यो॒ द्यां सूर्यः॑ पृथि॒वीं सूर्य॒ आपोऽति॑ पश्यति। सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम् ॥
सूर्य॑: । द्याम् । सूर्य॑: । पृ॒थि॒वीम् । सूर्य॑: । आप॑: । अति॑ । प॒श्य॒ति॒ । सूर्य॑: । भू॒तस्य॑ । एक॑म् । चक्षु॑: । आ । रु॒रो॒ह॒ । दिव॑म् । म॒हीम् ॥१.४५॥
Mantra 46
उ॒र्वीरा॑सन्परि॒धयो॒ वेदि॒र्भूमि॑रकल्पत। तत्रै॒ताव॒ग्नी आध॑त्त हि॒मं घ्रं॒सं च॒ रोहि॑तः ॥
उ॒र्वी: । आ॒स॒न् । प॒रि॒ऽधय॑: । वेदि॑: । भूमि॑: । अ॒क॒ल्प॒त॒ । तत्र॑ । ए॒तौ । अ॒ग्नी इति॑ । आ । अ॒ध॒त्त॒ । हि॒मम् । घ्रं॒सम् । च॒ । रोहि॑त: ॥१.४६॥
Mantra 47
हि॒मं घ्रं॒सं चा॒धाय॒ यूपा॑न्कृ॒त्वा पर्व॑तान्। व॒र्षाज्या॑व॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
हि॒मम । घ्रं॒सम् । च॒ । आ॒ऽधाय॑ । यूपा॑न् । कृ॒त्वा । पर्व॑तान् । व॒र्षऽआ॑ज्यौ । अ॒ग्नी इति॑ । ई॒जा॒ते॒ इति॑ । रोहि॑तस्य । स्व॒:ऽविद॑: ॥१.४७॥
Mantra 48
स्व॒र्विदो॒ रोहि॑तस्य॒ ब्रह्म॑णा॒ग्निः समि॑ध्यते। तस्मा॑द्घ्रं॒सस्तस्मा॑द्धि॒मस्तस्मा॑द्य॒ज्ञोजा॑यत ॥
स्व॒:ऽविद॑: । रोहि॑तस्य । ब्रह्म॑णा । अ॒ग्नि: । सम् । इ॒ध्य॒ते॒ । तस्मा॑त् । घ्रं॒स: । तस्मा॑त् । हि॒म: । तस्मा॑त् । य॒ज्ञ: । अ॒जा॒य॒त॒ १.४८॥
Mantra 49
ब्रह्म॑णा॒ग्नी वा॑वृधा॒नौ ब्रह्म॑वृद्धौ॒ ब्रह्मा॑हुतौ। ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
ब्रह्म॑णा । अ॒ग्नी इति॑ । व॒वृ॒धा॒नौ । ब्रह्म॑ऽवृध्दौ । ब्रह्म॑ऽआहुतौ । ब्रह्म॑ऽइध्दौ । अ॒ग्नी इति॑ । ई॒जा॒ते॒ इति॑ । रोहि॑तस्य । स्व॒:ऽविद॑: ॥१.४९॥
Mantra 50
स॒त्ये अ॒न्यः स॒माहि॑तो॒ऽप्स्वन्यः समि॑ध्यते। ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
स॒त्ये । अ॒न्य: । स॒म्ऽआहि॑त: । अ॒प्ऽसु । अ॒न्य: । सम् । इ॒ध्य॒ते॒ । ब्रह्म॑ऽइध्दौ । अ॒ग्नी इति॑ । ई॒जा॒ते॒ इति॑ । रोहि॑तस्य । स्व॒:ऽविद॑: ॥१.५०॥
Mantra 51
यं वातः॑ परि॒शुम्भ॑ति॒ यं वेन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑। ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥
यम् । वात॑: । प॒रि॒ऽशुम्भ॑ति । यम् । वा॒ । इन्द्र॑: । ब्रह्म॑ण: । पति॑: । ब्रह्म॑ऽइध्दौ ।अ॒ग्नी इति॑ । ई॒जा॒ते॒ इति॑ । रोहि॑तस्य । स्व॒:ऽविद॑: ॥१.५१॥
Mantra 52
वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्। घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥
वेदि॑म् । भूमि॑म् । क॒ल्प॒यि॒त्वा । दिव॑म् । कृ॒त्वा । दक्षि॑णाम् । घ्रं॒सम् । तत् । अ॒ग्निम् । कृ॒त्वा । च॒कार॑ । विश्व॑म् । आ॒त्म॒न्ऽवत् । व॒र्षेण॑ । आज्ये॑न। रोहि॑त: ॥१.५२॥
Mantra 53
व॒र्षमाज्यं॑ घ्रं॒सो अ॒ग्निर्वेदि॒र्भूमि॑रकल्पत। तत्रै॒तान्पर्व॑तान॒ग्निर्गी॒र्भिरू॒र्ध्वाँ अ॑कल्पयत् ॥
व॒र्षम् । आज्य॑म् । घ्रं॒स: । अ॒ग्नि: । वेदि॑: । भूमि॑: । अ॒क॒ल्प॒त॒ । तत्र॑ । ए॒तान् । पर्व॑तान् । अ॒ग्नि: । गी॒:ऽभि: ऊ॒र्ध्वान् । अ॒क॒ल्प॒य॒त् ॥१.५३॥
Mantra 54
गी॒र्भिरू॒र्ध्वान्क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्। त्वयी॒दं सर्वं॑ जायतां॒ यद्भू॒तं यच्च॑ भा॒व्यम् ॥
गी॒ऽभि: । ऊ॒र्ध्वान् । क॒ल्प॒यि॒त्वा। रोहि॑त: । भूमि॑म् । अ॒ब्र॒वी॒त् । त्वयि॑ । इ॒दम् । सर्व॑म् । जा॒य॒ता॒म् । यत् । भू॒तम् । यत् । च॒ । भा॒व्य᳡म् ॥१.५४॥
Mantra 55
स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत। तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥
स: । य॒ज्ञ: । प्र॒थ॒म: । भू॒त: । भव्य॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । ह॒ । ज॒ज्ञे॒ । इ॒दम् । सर्व॑म् । यत् । किम् । च॒ । इ॒दम् । वि॒ऽरो॑चते । रोहि॑तेन । ऋषि॑णा । आऽभृ॑तम् ॥१.५५॥
Mantra 56
यश्च॒ गां प॒दा स्फु॒रति॑ प्र॒त्यङ्सूर्यं॑ च॒ मेह॑ति। तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥
य: । च॒ । गाम् । प॒दा । स्फु॒रति॑ । प्र॒त्यङ् । सूर्य॑म् । च॒ । मेह॑ति। तस्य॑ । वृ॒श्चा॒मि॒ । ते॒ । मूल॑म् । न । छा॒याम् । क॒र॒व॒: । अप॑रम् ॥१.५६॥
Mantra 57
यो मा॑भिच्छा॒यम॒त्येषि॒ मां चा॒ग्निं चा॑न्त॒रा। तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥
य: । मा॒ । अ॒भि॒ऽछा॒यम् । अ॒ति॒ऽएषि॑: । माम् । च॒ । अ॒ग्निम् । च॒ । अ॒न्त॒रा । तस्य॑ । वृ॒श्चा॒मि । ते॒ । मूल॑म् । न । छा॒याम् । क॒र॒व॒: । अप॑रम् ॥१.५७॥
Mantra 58
यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति। दुः॒ष्वप्न्यं॒ तस्मि॒ञ्छम॑लं दुरि॒तानि॑ च मृज्महे ॥
य: । अ॒द्य । दे॒व॒ । सू॒र्य॒ त्वाम् । च॒ । माम् । च॒ । अ॒न्त॒रा । अय॒ति । दु॒:ऽस्वप्न्य॑म् । तस्मि॑न् । शम॑लम् । दु॒:ऽइ॒तानि॑। च॒ । मृ॒ज्म॒हे॒ ॥१.५८॥
Mantra 59
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑। मान्त स्थु॑र्नो॒ अरा॑तयः ॥
मा । प्र । गा॒म॒ । प॒थ: । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र॒ । सो॒मिन॑: । मा । अ॒न्त: । स्थु॒: । न॒: । अरा॑तय: ॥१.५९॥
Mantra 60
यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः। तमाहु॑तमशीमहि ॥
य: । य॒ज्ञस्य॑ । प्र॒ऽसाध॑न: । तन्तु॑: । दे॒वेषु॑ । आऽत॑त: । तम् । आऽहु॑तम् । अ॒शी॒म॒हि॒ ॥१.६०॥