Mantra 1
न॒डमा रो॑ह॒ न ते॒ अत्र॑ लो॒क इ॒दं सीसं॑ भाग॒धेयं॑ त॒ एहि॑। यो गोषु॒ यक्ष्मः॒ पुरु॑षेषु॒ यक्ष्म॒स्तेन॒ त्वं सा॒कम॑ध॒राङ्परे॑हि ॥
न॒डम् । आ । रो॒ह॒ । न । ते॒ । अत्र॑ । लो॒क: । इ॒दम् । सीस॑म् । भा॒ग॒ऽधेय॑म् । ते॒ । आ । इ॒हि॒ । य: । गोषु॑ । यक्ष्म॑: । पुरु॑षेषु । यक्ष्म॑: । तेन॑ । त्वम् । सा॒कम् । अ॒ध॒राङ् । परा॑ । इ॒हि॒ ॥२.१॥
Mantra 2
अ॑घशंसदुःशं॒साभ्यां॑ क॒रेणा॑नुक॒रेण॑ च। यक्ष्मं॑ च॒ सर्वं॒ तेने॒तो मृ॒त्युं च॒ निर॑जामसि ॥
अ॒घ॒शं॒स॒ऽदु॒:शं॒साभ्या॑म् । क॒रेण॑ । अ॒नु॒ऽक॒रेण॑ । च॒ । यक्ष्म॑म् । च॒ । सर्व॑म् । तेन॑ । इ॒त: । मृ॒त्युम् । च॒ । नि: । अ॒जा॒म॒सि॒ ॥२.२॥
Mantra 3
निरि॒तो मृ॒त्युं निरृ॑तिं॒ निररा॑तिमजामसि। यो नो॒ द्वेष्टि॒ तम॑द्ध्यग्ने अक्रव्या॒द्यमु॑ द्वि॒ष्मस्तमु॑ ते॒ प्र सु॑वामसि ॥
नि: । इ॒त: । मृ॒त्युम् । नि:ऽऋ॑तिम् । नि: । अरा॑तिम् । अ॒जा॒म॒सि॒ । य: । न॒: । द्वेष्टि॑ । तम् । अ॒ध्दि॒ । अ॒ग्ने॒ । अ॒क्र॒व्य॒ऽअ॒त् । यम् । ऊं॒ इति॑ । द्वि॒ष्म: । तम् । ऊं॒ इति॑ । ते॒ । प्र । सु॒वा॒म॒सि॒ ॥२.३॥
Mantra 4
यद्य॒ग्निः क्र॒व्याद्यदि॒ वा व्या॒घ्र इ॒मं गो॒ष्ठं प्र॑वि॒वेशान्यो॑काः। तं माषा॑ज्यं कृ॒त्वा प्र हि॑णोमि दू॒रं स ग॑च्छत्वप्सु॒षदोऽप्य॒ग्नीन् ॥
यदि॑। अ॒ग्नि: । क्र॒व्य॒ऽअत् । यदि॑ । वा॒ । व्या॒घ्र: । इ॒मम् । गो॒ऽस्थम् । प्र॒ऽवि॒वेश॑ । अनि॑ऽओका: । तम् । माष॑ऽआज्यम् । कृ॒त्वा । प्र । हि॒णो॒मि॒ । दू॒रम् । स: । ग॒च्छ॒तु॒ । अ॒प्सु॒ऽसद॑: । अपि॑ । अ॒ग्नीन् ॥२.४॥
Mantra 5
यत्त्वा॑ क्रु॒द्धाः प्र॑च॒क्रुर्म॒न्युना॒ पुरु॑षे मृ॒ते। सु॒कल्प॑मग्ने॒ तत्त्वया॒ पुन॒स्त्वोद्दी॑पयामसि ॥
यत् । त्वा॒ । क्रु॒ध्दा: । प्र॒ऽच॒क्रु: । म॒न्युना॑ । पुरु॑षे । मृ॒ते । सु॒ऽकल्प॑म् । अ॒ग्ने॒ । तत् । त्वया॑ । पुन॑: । त्वा॒ । उत् । दी॒प॒या॒म॒सि॒ ॥२.५॥
Mantra 6
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ पुन॑र्ब्र॒ह्मा वसु॑नीतिरग्ने। पुन॑स्त्वा॒ ब्रह्म॑ण॒स्पति॒राधा॑द्दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
पुन॑: । त्वा॒ । आ॒दि॒त्या: । रु॒द्रा: । वस॑व: । पुन॑: । ब्र॒ह्मा । वसु॑ऽनीति: । अ॒ग्ने॒ । पुन॑: । त्वा॒ । ब्रह्म॑ण: । पति॑: । आ । अ॒धा॒त् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ॥२.६॥
Mantra 7
यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ नो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे॑दसम्। तं ह॑रामि पितृय॒ज्ञाय॑ दू॒रं स घ॒र्ममि॑न्धां पर॒मे स॒धस्थे॑ ॥
य: । अ॒ग्नि: । क्र॒व्य॒ऽअत् । प्र॒ऽवि॒वेश॑ । न॒: । गृ॒हम् । इ॒मम् । पश्य॑न् । इत॑रम् । जा॒तऽवे॑दसम् । तम् । ह॒रा॒मि॒ । पि॒तृ॒ऽय॒ज्ञाय॑ । दू॒रम् । स: । घ॒र्मम् । इ॒न्धा॒म् । प॒र॒मे । स॒धऽस्थे॑ ॥२.७॥
Mantra 8
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः। इ॒हायमित॑रो जा॒तवे॑दा दे॒वो दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
क्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒मऽरा॑ज्ञ: । ग॒च्छ॒तु॒ । रि॒प्र॒ऽवा॒ह: । इ॒ह । अ॒यम् । इत॑र: । जा॒तऽवे॑दा: । दे॒व: । दे॒वेभ्य॑: । ह॒व्यम् । व॒ह॒तु॒ । प्र॒ऽजा॒नन् ।॥२.८॥
Mantra 9
क्र॒व्याद॑म॒ग्निमि॑षि॒तो ह॑रामि॒ जना॑न्दृं॒हन्तं॒ वज्रे॑ण मृ॒त्युम्। नि तं शा॑स्मि॒ गार्ह॑पत्येन वि॒द्वान्पि॑तॄ॒णां लो॒केऽपि॑ भा॒गो अ॑स्तु ॥
क्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । इ॒षि॒त: । ह॒रा॒मि॒ । जना॑न् । दृं॒हन्त॑म् । वज्रे॑ण । मृ॒त्युम् । नि । तम् । शा॒स्मि॒ । गार्ह॑ऽपत्येन । वि॒द्वान् । पि॒तॄ॒णाम् । लो॒के । अपि॑ । भा॒ग: । अ॒स्तु॒ ॥२.९॥
Mantra 10
क्र॒व्याद॑म॒ग्निं श॑शमा॒नमु॒क्थ्यं प्र हि॑णोमि प॒थिभिः॑ पितृ॒याणैः॑। मा दे॑व॒यानैः॒ पुन॒रा गा॒ अत्रै॒वैधि॑ पि॒तृषु॑ जागृहि॒ त्वम् ॥
क्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । श॒श॒मा॒नम् । उ॒क्थ्य᳡म् । प्र । हि॒णो॒मि॒ । प॒थिऽभि॑: । पि॒तृ॒ऽयानै॑: । मा । दे॒व॒ऽयानै॑: । पुन॑: । आ । गा॒: । अत्र॑ । ए॒व । ए॒धि॒ । पि॒तृषु॑ । जा॒गृ॒हि॒ । त्वम् ॥२.१०॥
Mantra 11
समि॑न्धते॒ संक॑सुकं स्व॒स्तये॑ शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः। जहा॑ति रि॒प्रमत्येन॑ एति॒ समि॑द्धो अ॒ग्निः सु॒पुना॑ पुनाति ॥
सम् । इ॒न्ध॒ते॒ । सम्ऽक॑सुकम् । स्व॒स्तये॑ । शु॒ध्दा: । भव॑न्त: । शुच॑य: । पा॒व॒का: । जहा॑ति । रि॒प्रम् । अति॑ । एन॑: । ए॒ति॒ । सम्ऽइ॑ध्द: । अ॒ग्नि: । सु॒ऽपुना॑ । पु॒ना॒ति॒ ॥२.११॥
Mantra 12
दे॒वो अ॒ग्निः संक॑सुको दि॒वस्पृ॒ष्ठान्यारु॑हत्। मु॒च्यमा॑नो॒ निरेण॒सोऽमो॑ग॒स्माँ अश॑स्त्याः ॥
दे॒व: । अ॒ग्नि: । सम्ऽक॑सुक: । दि॒व: । पृ॒ष्ठानि॑ । आ । अ॒रु॒ह॒त् । मु॒च्यमा॑न: । नि: । एन॑स: । अमो॑क् । अ॒स्मान् । अश॑स्त्या: ॥२.१२॥
Mantra 13
अ॒स्मिन्व॒यं संक॑सुके अ॒ग्नौ रि॒प्राणि॑ मृज्महे। अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षि तारिषत् ॥
अ॒स्मिन् । व॒यम् । सम्ऽक॑सुके । अ॒ग्नौ । रि॒प्राणि॑ । मृ॒ज्म॒हे॒ । अभू॑म । य॒ज्ञिया॑: । शु॒ध्दा: । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥२.१३॥
Mantra 14
संक॑सुको॒ विक॑सुको निरृ॒थो यश्च॑ निस्व॒रः। ते ते॒ यक्ष्मं॒ सवे॑दसो दू॒राद्दू॒रम॑नीनशन् ॥
सम्ऽक॑सुक: । विऽक॑सुक: । नि॒:ऽऋ॒थ: । य: । च॒ । नि॒ऽस्व॒र: । ते । ते॒ । यक्ष्म॑म् । सऽवे॑दस: । दू॒रात् । दू॒रम् । अ॒नी॒न॒श॒न् ॥२.१४॥
Mantra 15
यो नो॒ अश्वे॑षु वी॒रेषु॒ यो नो॒ गोष्व॑जा॒विषु॑। क्र॒व्यादं॒ निर्णु॑दामसि॒ यो अ॒ग्निर्ज॑न॒योप॑नः ॥
य: । न॒: । अश्वे॑षु । वी॒रेषु॑ । य: । न॒: । गोषु॑ । अ॒ज॒ऽअ॒विषु॑ । क्र॒व्य॒ऽअद॑म् । नि: । नु॒दा॒म॒सि॒ । य: । अ॒ग्नि: । ज॒न॒ऽयोप॑न: ॥२.१५॥
Mantra 16
अन्ये॑भ्यस्त्वा॒ पुरु॑षेभ्यो॒ गोभ्यो॒ अश्वे॑भ्यस्त्वा। निः क्र॒व्यादं॑ नुदामसि॒ यो अ॒ग्निर्जी॑वित॒योप॑नः ॥
अन्ये॑भ्य: । त्वा॒ । पुरु॑षेभ्य: । गोभ्य॑: । अश्वे॑भ्य: । त्वा॒ । नि: । क्र॒व्य॒ऽअद॑म् । नु॒दा॒म॒सि॒ । य: । अ॒ग्नि: । जी॒वि॒त॒ऽयोप॑न: ॥२.१६॥
Mantra 17
यस्मि॑न्दे॒वा अमृ॑जत॒ यस्मि॑न्मनु॒ष्या उ॒त। तस्मि॑न्घृत॒स्तावो॑ मृ॒ष्ट्वा त्वम॑ग्ने॒ दिवं॑ रुह ॥
यस्मि॑न् । दे॒वा: । अमृ॑जत । यस्मि॑न् । म॒नु॒ष्या᳡: । उ॒त । तस्मि॑न् । घृ॒त॒ऽस्ताव॑: । मृ॒ष्वा । आ । त्वम् । अ॒ग्ने॒ । दिव॑म् । रु॒ह॒ ॥२.१७॥
Mantra 18
समि॑द्धो अग्न आहुत॒ स नो॒ माभ्यप॑क्रमीः। अत्रै॒व दी॑दिहि॒ द्यवि॒ ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
सम्ऽइ॑ध्द: । अ॒ग्ने॒ । आ॒ऽहु॒त॒: । स: । न॒: । मा । अ॒भि॒ऽअप॑क्रमी: । अत्र॑ । ए॒व । दी॒दि॒हि॒ । द्यवि॑ । ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥२.१८॥
Mantra 19
सीसे॑ मृड्ढ्वं न॒डे मृ॑ड्ढ्वम॒ग्नौ संक॑सुके च॒ यत्। अथो॒ अव्यां॑ रा॒मायां॑ शीर्ष॒क्तिमु॑प॒बर्ह॑णे ॥
सीसे॑ । मृ॒ड्ढ्व॒म् । न॒डे । मृ॒ड्ढ्व॒म् । अ॒ग्नौ । सम्ऽक॑सुके । च॒ । यत् । अथो॒ इति॑ । अव्या॑म् । रा॒माया॑म् । शी॒र्ष॒क्तिम् । उ॒प॒ऽबर्ह॑णे ॥२.१९॥
Mantra 20
सीसे॒ मलं॑ सादयि॒त्वा शी॑र्ष॒क्तिमु॑प॒बर्ह॑णे। अव्या॒मसि॑क्न्यां मृ॒ष्ट्वा शु॒द्धा भ॑वत य॒ज्ञियाः॑ ॥
सीसे॑ । मल॑म् । सा॒द॒यि॒त्वा । शी॒र्ष॒क्तिम् । उ॒प॒ऽबर्ह॑णे । अव्या॑म् । असि॑क्न्याम् । मृ॒ष्ट्वा । शु॒ध्दा: । भ॒व॒त॒ । य॒ज्ञिया॑: ॥२.२०॥
Mantra 21
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्त॑ ए॒ष इत॑रो देव॒याना॑त्। चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमी॒हेमे वी॒रा ब॒हवो॑ भवन्तु ॥
पर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । य: । ते॒ । ए॒ष: । इत॑र: । दे॒व॒ऽयाना॑त् । चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । इ॒ह । इ॒मे । वी॒रा: । ब॒हव॑: । भ॒व॒न्तु॒ ॥२.२१॥
Mantra 22
इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू॑द्भ॒द्रा दे॒वहू॑तिर्नो अ॒द्य। प्राञ्चो॑ अगाम नृ॒तये॒ हसा॑य सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
इ॒मे । जी॒वा: । वि । मृ॒तै: । आ । अ॒व॒वृ॒त्र॒न् । अभू॑त् । भ॒द्रा । दे॒वऽहू॑ति: । न॒: । अ॒द्य । प्राञ्च॑: । अ॒गा॒म॒ । नृ॒तये॑ । हसा॑य । सु॒ऽवीरा॑स: । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥२.२२॥
Mantra 23
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम्। श॒तं जीव॑न्तः श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥
इ॒मम् । जी॒वेभ्य॑: । प॒रि॒ऽधिम् । द॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप॑र: । अर्थ॑म् । ए॒तम् । श॒तम् । जीव॑न्त: । श॒रद॑: । पु॒रू॒ची: । ति॒र: । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व॑तेन ॥२.२३॥
Mantra 24
आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ। तान्व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ॥
आ । रो॒ह॒त॒ । आयु॑: । ज॒रस॑म् । वृ॒णा॒ना: । अ॒नु॒ऽपू॒र्वम् । यत॑माना: । यति॑ । स्थ । तान् । व॒: । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषा॑: । सर्व॑म् । आयु॑: । न॒य॒तु॒ । जीव॑नाय ॥२.२४॥
Mantra 25
यथाहा॑न्यनुपू॒र्वं भ॑वन्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒कम्। यथा॑ न॒ पूर्व॒मप॑रो॒ जहा॑त्ये॒वा धा॑त॒रायूं॑षि कल्पयै॒षाम् ॥
यथा॑ । अहा॑नि । अ॒नु॒ऽपू॒र्वम् । भव॑न्ति । यथा॑ । ऋ॒तव॑: । ऋ॒तुऽभि॑: । यन्ति॑ । सा॒कम् । यथा॑ । न । पूर्व॑म् । अप॑र: । जहा॑ति । ए॒व । धा॒त॒: । आयूं॑षि । क॒ल्प॒य॒ । ए॒षाम् ॥२.२५॥
Mantra 26
अश्म॑न्वती रीयते॒ सं र॑भध्वं वी॒रय॑ध्वं॒ प्र त॑रता सखायः। अत्रा॑ जहीत॒ ये अस॑न्दु॒रेवा॑ अनमी॒वानुत्त॑रेमाभि॒ वाजा॑न् ॥
अश्म॑न्ऽवती । री॒य॒ते॒ । सम् । र॒भ॒ध्व॒म् । वी॒रय॑ध्वम् । प्र । त॒र॒त॒ । स॒खा॒य॒: । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । दु॒:ऽएवा॑ । अ॒न॒मी॒वान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२६॥
Mantra 27
उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्। अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥
उत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒य॒: । अश्म॑न्ऽवती । न॒दी । स्य॒न्द॒ते॒ । इ॒यम् । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । अशि॑वा: । शि॒वान् । स्यो॒नान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२७॥
Mantra 28
वै॑श्वदे॒वीं वर्च॑सा॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः। अ॑ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ॥
वै॒श्व॒ऽदे॒वीम् । वर्च॑से । आ । र॒भ॒ध्व॒म् । शु॒ध्दा: । भव॑न्त: । शुच॑य: । पा॒व॒का: । अ॒ति॒ऽक्राम॑न्त: । दु॒:ऽइ॒ता । प॒दानि॑ । श॒तम् । हिमा॑: । सर्व॑ऽवीरा: । म॒दे॒म॒ ॥२.२८॥
Mantra 29
उ॑दी॒चीनैः॑ प॒थिभि॑र्वायु॒मद्भि॑रति॒क्राम॒न्तोऽव॑रा॒न्परे॑भिः। त्रिः स॒प्त कृत्व॒ ऋष॑यः॒ परे॑ता मृ॒त्युं प्रत्यौ॑हन्पद॒योप॑नेन ॥
उ॒दी॒चीनै॑: । प॒थिऽभि॑: । वा॒यु॒मत्ऽभि॑: । अ॒ति॒ऽक्राम॑न्त: । अव॑रान् । परे॑भि: । त्रि: । स॒प्त । कृत्व॑: । ऋष॑य: । परा॑ऽइता । मृ॒त्युम् । प्रति॑ । औ॒ह॒न् । प॒द॒ऽयोप॑नेन ॥२.२९॥
Mantra 30
मृ॒त्योः प॒दं यो॒पय॑न्त॒ एत॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः। आसी॑ना मृ॒त्युं नु॑दता स॒धस्थेऽथ॑ जी॒वासो॑ वि॒दथ॒मा व॑देम ॥
मृ॒त्यो: । प॒दम् । यो॒पय॑न्त: । आ । इ॒त॒ । द्राघी॑य: ।आयु॑: । प्र॒ऽत॒रम् । दधा॑ना: । आसी॑ना: । मृ॒त्युम् । नु॒द॒त॒ । स॒धऽस्थे॑ । अथ॑ । जी॒वास॑: । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥२.३०॥
Mantra 31
इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्। अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥
इ॒मा: । नारी॑: । अ॒वि॒ध॒वा: । सु॒ऽपत्नी॑: । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । स्पृ॒श॒न्ता॒म् । अ॒न॒श्रव॑: । अ॒न॒मी॒वा: । सु॒ऽरत्ना॑: । आ । रो॒ह॒न्तु॒ । जन॑य: । योनि॑म् । अग्रे॑ ॥२.३१॥
Mantra 32
व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्यहं क॑ल्पयामि। स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृणोमि दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥
वि॒ऽअक॑रोमि । ह॒विषा॑ । अ॒हम् । ए॒तो । तौ । ब्रह्म॑णा । वि । अ॒हम् । क॒ल्प॒या॒मि॒ । स्व॒धाम् । पि॒तृऽभ्य॑: । अ॒जरा॑म् । कृ॒णोमि॑ । दी॒र्घेण॑ । आयु॑षा । सम् । इ॒मान् । सृ॒जा॒मि॒ ॥२.३२॥
Mantra 33
यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्वन्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु। मय्य॒हं तं॒ परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान्द्वि॑क्षत॒ मा व॒यं तम् ॥
य: । न॒: । अ॒ग्नि: । पि॒त॒र॒: । हृ॒त्ऽसु । अ॒न्त: । आ॒ऽवि॒वेश॑ । अ॒मृत॑: । मर्त्ये॑षु । मयि॑ । अ॒हम् । तम् । परि॑ । गृ॒ह्णा॒मि॒ । दे॒वम् । मा । स: । अ॒स्मान् । द्वि॒क्ष॒त॒ । मा । व॒यम् । तम्॥२.३३।
Mantra 34
अ॑पा॒वृत्य॒ गार्ह॑पत्यात्क्र॒व्यादा॒ प्रेत॑ दक्षि॒णा। प्रि॒यं पि॒तृभ्य॑ आ॒त्मने॑ ब्र॒ह्मभ्यः॑ कृणुता प्रि॒यम् ॥
अ॒प॒ऽआ॒वृत्य॑ । गार्ह॑ऽपत्यात् । क्र॒व्य॒ऽअदा॑ । प्र । इ॒त॒ । द॒क्षि॒णा । प्रि॒यम् । पि॒तृऽभ्य॑: । आ॒त्मने॑ । ब्र॒ह्मऽभ्य॑: । :कृ॒णु॒त॒ । प्रि॒यम् ॥२.३४॥
Mantra 35
द्वि॑भागध॒नमा॒दाय॒ प्र क्षि॑णा॒त्यव॑र्त्या। अ॒ग्निः पु॒त्रस्य॑ ज्ये॒ष्ठस्य॒ यः क्र॒व्यादनि॑राहितः ॥
द्वि॒भा॒ग॒ऽध॒नम् । आ॒ऽदाय॑ । प्र । क्षि॒णा॒ति॒ । अव॑र्त्या । अ॒ग्नि: । पु॒त्रस्य॑ । ज्ये॒ष्ठस्य॑ । य: । क्र॒व्य॒ऽअत् । अनि॑:ऽआहित: ॥२,३५॥
Mantra 36
यत्कृ॒षते॒ यद्व॑नुते॒ यच्च॑ व॒स्नेन॑ वि॒न्दते॑। सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ॥
यत् । कृ॒षते॑ । यत् । व॒नु॒ते । यत् । च॒ । व॒स्नेन॑ । वि॒न्दते॑ । सर्व॑म् । मर्त्य॑स्य । तत् । न । अ॒स्ति॒ । क्र॒व्य॒ऽअत् । च॒ । इत् । अनि॑:ऽआहित: ॥२.३६॥
Mantra 37
अ॑यज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे। छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द्यं क्र॒व्याद॑नु॒वर्त॑ते ॥
अ॒य॒ज्ञि॒य: । ह॒तऽव॑र्चा: । भ॒व॒ति॒ । न । ए॒ने॒न॒ । ह॒वि: । अत्त॑वे । छि॒नत्ति॑ । कृ॒ष्या: । गो: । धना॑त् । यम् । क॒व्य॒ऽअत् । अ॒नु॒ऽवर्त॑ते ॥२.३७॥
Mantra 38
मुहु॒र्गृध्यैः॒ प्र व॑द॒त्यार्तिं॒ मर्त्यो॒ नीत्य॑। क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ॥
मुहु॑: । गृध्यै॑: । प्र । व॒द॒ति॒ । आर्ति॑म् । मर्त्य॑: । नि॒ऽइत्य॑ । क्र॒व्य॒ऽअत् । यान् । अ॒ग्नि: । अ॒न्ति॒कात् । अ॒नु॒ऽवि॒द्वान् । वि॒ऽताव॑ति ॥२.३८॥
Mantra 39
ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑। ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒ यः क्र॒व्यादं॑ निरा॒दध॑त् ॥
ग्राह्या॑: । गृ॒हा: । सम् । सृ॒ज्य॒न्ते॒ । स्त्रि॒या: । यत् । म्रि॒यते॑ । पति॑: । ब्र॒ह्मा । ए॒व । वि॒द्वान् । ए॒ष्य᳡: ।य: । क्र॒व्य॒ऽअद॑म् । नि॒:ऽआ॒दध॑त् ॥२.३९॥
Mantra 40
यद्रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्। आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ॥
यत् । रि॒प्रम् । शम॑लम् । च॒कृ॒म । यत् । च॒ । दु॒:ऽकृ॒तम् । आप॑: । मा॒ । तस्मा॑त् । शु॒म्भ॒न्तु॒ । अ॒ग्ने: । सम्ऽक॑सुकात् । च॒ । यत् ॥२.४०॥
Mantra 41
ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन्प्रजान॒तीः प॒थिभि॑र्देव॒यानैः॑। पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः ॥
ता:। अ॒ध॒रात् । उदी॑ची: । आ । अ॒व॒वृ॒त्र॒न् । प्र॒ऽजा॒न॒ती: । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: । पर्व॑तस्य । वृ॒ष॒भस्य॑ । अधि॑ । पृ॒ष्ठे । नवा॑: । च॒र॒न्ति॒ । स॒रित॑: । पु॒रा॒णी: ॥२.४१॥
Mantra 42
अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह ॥
अग्ने॑ । अ॒क्र॒व्य॒ऽअ॒त् । नि: । क्र॒व्य॒ऽअद॑म् । नु॒द॒ । आ । दे॒व॒ऽयज॑नम् । व॒ह॒ ॥२.४२॥
Mantra 43
इ॒मं क्र॒व्यादा वि॑वेशा॒यं क्र॒व्याद॒मन्व॑गात्। व्या॒घ्रौ कृ॒त्वा ना॑ना॒नं तं ह॑रामि शिवाप॒रम् ॥
इ॒मम् । क्र॒व्य॒ऽअत् । आ । वि॒वे॒श॒ । अ॒यम् । क्र॒व्य॒ऽअद॑म् । अनु॑ । अ॒गा॒त् । व्या॒घ्रौ । कृ॒त्वा । ना॒ना॒नम् । तम् । ह॒रा॒मि॒ । शि॒व॒ऽअ॒प॒रम् ॥२.४३॥
Mantra 44
अ॑न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्याणाम॒ग्निर्गा॑र्ह्पत्य उ॒भया॑नन्त॒रा श्रि॒तः ॥
अ॒न्त॒:ऽधि: । दे॒वाना॑म् । प॒रि॒ऽधि: । म॒नु॒ष्या᳡णाम् । अ॒ग्नि: । गार्ह॑ऽपत्य: । उ॒भया॑न् । अ॒न्त॒रा । श्रि॒त: ॥२.४४॥
Mantra 45
जी॒वाना॒मायुः॒ प्र ति॑र॒ त्वम॑ग्ने पितॄ॒णां लो॒कमपि॑ गच्छन्तु॒ ये मृ॒ताः। सु॑गार्हप॒त्यो वि॒तप॒न्नरा॑तिमु॒षामु॑षां॒ श्रेय॑सीं धेह्य॒स्मै ॥
जी॒वाना॑म् । आयु॑: । प्र । ति॒र॒ । त्वम् । अ॒ग्ने॒ । पि॒तॄ॒णाम् । लो॒कम् । अपि॑ । ग॒च्छ॒न्तु॒ । ये । मृ॒ता: । सु॒ऽगा॒र्ह॒प॒त्य: । वि॒ऽतप॑न् । अरा॑तिम् । उ॒षाम्ऽउ॒षाम् । श्रेय॑सीम् । धे॒हि॒ । अ॒स्मै ॥२.४५॥
Mantra 46
सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि ॥
सर्वा॑न् । अ॒ग्ने॒ । सह॑मान: । स॒ऽपत्ना॑न्। आ । ए॒षा॒म् । ऊर्ज॑म् । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥२.४६॥
Mantra 47
इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्। तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम् ॥
इ॒मम् । इन्द्र॑म् । वह्नि॑म् । पप्रि॑म् । अ॒नु॒ऽआर॑भध्वम् । स: । व॒: । नि: । व॒क्ष॒त् । दु॒:ऽइ॒तात्। अ॒व॒द्यात् । तेन॑ । अप॑ । ह॒त॒ । शरु॑म् । आ॒ऽपत॑न्तम् । तेन॑ । रु॒द्रस्य॑ । परि॑ । पा॒त॒ । अ॒स्ताम्॥२.४७॥
Mantra 48
अ॑न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्। आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम ॥
अ॒न॒ड्वाह॑म् । प्ल॒वम् । अ॒नु॒ऽआर॑भध्वम् । स : । व॒: । नि: । व॒क्ष॒त् । दु॒:ऽइ॒तात् । अ॒व॒द्यात् । आ । रो॒ह॒त॒ । स॒वि॒तु: । नाव॑म् । ए॒ताम् । ष॒टऽभि: । उ॒र्वीभि॑: । अम॑तिम् । त॒रे॒म॒ ॥२.४८॥
Mantra 49
अ॑होरा॒त्रे अन्वे॑षि॒ बिभ्र॑त्क्षे॒म्यस्तिष्ठ॑न्प्र॒तर॑णः सु॒वीरः॑। अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि ॥
अ॒हो॒रा॒त्रे इति॑ । अनु॑ । ए॒षि॒ । बिभ्र॑त् । क्षे॒म्य: । तिष्ठ॑न् । प्र॒ऽतर॑ण: । सु॒ऽवीर॑: । अना॑तुरान् । सु॒ऽमन॑स: । त॒ल्प॒ । बिभ्र॑त् । ज्योक् । ए॒व । न॒: । पुरु॑षऽगन्धि: । ए॒धि॒ ॥२.४९॥
Mantra 50
ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा। क्र॒व्याद्यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम् ॥
ते । दे॒वेभ्य॑: । आ । वृ॒श्च॒न्ते॒ । पा॒पम् । जी॒व॒न्ति॒ । स॒र्व॒दा । क्र॒व्य॒ऽअत् । यान् । अ॒ग्नि: । अ॒न्ति॒कात् । अश्व॑:ऽइव । अ॒नु॒ऽवप॑ते । न॒डम् ॥२.५०॥
Mantra 51
येश्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते। ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा ॥
ये । अ॒श्र॒ध्दा: । ध॒न॒ऽका॒म्या । क्र॒व्य॒ऽअदा॑ । स॒म्ऽआस॑ते । ते । वै । अ॒न्येषा॑म् । कु॒म्भीम् । प॒रि॒ऽआद॑धति । स॒र्व॒दा ॥२.५१॥
Mantra 52
प्रेव॑ पिपतिषति॒ मन॑सा॒ मुहु॒रा व॑र्तते॒ पुनः॑। क्र॒व्याद्यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान्वि॒ताव॑ति ॥
प्रऽइ॑व । पि॒प॒ति॒ष॒ति॒ । मन॑सा । मुहु॑: । आ । व॒र्त॒ते॒ । पुन॑: । क्र॒व्य॒ऽअत् । यान् । अ॒ग्नि: । अ॒न्ति॒कात् । अ॒नु॒ऽवि॒द्वान् । वि॒ऽताव॑ति ॥२.५२॥
Mantra 53
अविः॑ कृ॒ष्णा भा॑ग॒धेयं॑ पशू॒नां सीसं॑ क्र॒व्यादपि॑ च॒न्द्रं त॑ आहुः। माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व ॥
अवि॑: । कृ॒ष्णा । भा॒ग॒ऽधेय॑म् । प॒शू॒नाम् । सीस॑म् । क्र॒व्य॒ऽअत् । अपि॑ । च॒न्द्रम् । ते॒ । आ॒हु॒: । माषा॑: । पि॒ष्टा: । भा॒ग॒ऽधेय॑म् । ते॒ । ह॒व्यम् । अ॒र॒ण्या॒न्या: । गह्व॑रम् । स॒च॒स्व॒ ॥२.५३॥
Mantra 54
इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्। तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ ॥
इ॒षीका॑म् । जर॑तीम् । इ॒ष्ट्वा । ति॒ल्पिञ्ज॑म् । दण्ड॑नम् । न॒डम् । तम् । इन्द्र॑: । इ॒ध्मम् । कृ॒त्वा । य॒मस्य॑ । अ॒ग्निम् । नि॒:ऽआद॑धौ ॥२.५४॥
Mantra 55
प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान्पन्थां॒ वि ह्यावि॒वेश॑। परा॒मीषा॒मसू॑न्दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि ॥
प्र॒त्यञ्च॑म् । अ॒र्कम् । प्र॒ति॒ऽअ॒र्प॒यि॒त्वा । प्र॒ऽवि॒द्वान् । पन्था॑म् । वि । हि । आ॒ऽवि॒वेश॑ । परा॑ । अ॒मीषा॑म् । असू॑न् । दि॒देश॑ । दी॒र्घेण॑ । आयु॑षा । सम् । इ॒मान् । सृ॒जा॒मि॒ ॥२.५५॥