Mantra 1
स॒त्यं बृ॒हदृ॒तमु॒ग्रं दी॒क्षा तपो॒ ब्रह्म॑ य॒ज्ञः पृ॑थि॒वीं धा॑रयन्ति। सा नो॑ भू॒तस्य॒ भव्य॑स्य॒ पत्न्यु॒रुं लो॒कं पृ॑थि॒वी नः॑ कृणोतु ॥
स॒त्यम् । बृ॒हत् । ऋ॒तम् । उ॒ग्रम् । दी॒क्षा । तप॑: । ब्रह्म॑ । य॒ज्ञ: । पृ॒थि॒वीम् । धा॒र॒य॒न्ति॒ । सा । न॒: । भू॒तस्य॑ । भव्य॑स्य । पत्नी॑ । उ॒रुम् । लो॒कम् । पृ॒थि॒वी । न॒: । कृ॒णो॒तु॒ ॥१.१॥
Mantra 2
अ॑संबा॒धं ब॑ध्य॒तो मा॑न॒वानां॒ यस्या॑ उ॒द्वतः॑ प्र॒वतः॑ स॒मं ब॒हु। नाना॑वीर्या॒ ओष॑धी॒र्या बिभ॑र्ति पृथि॒वी नः॑ प्रथतां॒ राध्य॑तां नः ॥
अ॒स॒म्ऽबा॒धम् । म॒ध्य॒त: । मा॒न॒वाना॑म् । यस्या॑: । उ॒त्ऽवत॑: । प्र॒ऽवत॑: । स॒मम् । ब॒हु । नाना॑ऽवीर्या: । ओष॑धी: । या । बिभ॑र्ति । पृ॒थि॒वी । न॒: । प्र॒थ॒ता॒म् । राध्य॑ताम् । न॒: ॥१.२॥
Mantra 3
यस्यां॑ समु॒द्र उ॒त सिन्धु॒रापो॒ यस्या॒मन्नं॑ कृ॒ष्टयः॑ संबभू॒वुः। यस्या॑मि॒दं जिन्व॑ति प्रा॒णदेज॒त्सा नो॒ भूमिः॑ पूर्व॒पेये॑ दधातु ॥
यस्या॑म् । स॒मु॒द्र: । उ॒त । सिन्धु॑: । आप॑: । यस्या॑म् । अन्न॑म् । कृ॒ष्टय॑: । स॒म्ऽब॒भू॒वु: । यस्या॑म् । इ॒दम् । जिन्व॑ति । प्रा॒णत् । एज॑त् । सा । न॒: । भूमि॑: । पू॒र्व॒ऽपेये॑ । द॒धा॒तु॒ ॥१.३॥
Mantra 4
यस्या॒श्चत॑स्रः प्र॒दिशः॑ पृथि॒व्या यस्या॒मन्नं कृ॒ष्टयः॑ संबभू॒वुः। या बिभ॑र्ति बहु॒धा प्रा॒णदेज॒त्सा नो॒ भूमि॒र्गोष्वप्यन्ने॑ दधातु ॥
यस्या॑: । चत॑स्र: । प्र॒ऽदिश॑: । पृ॒थि॒व्या: । यस्या॑म् । अन्न॑म् । कृ॒ष्टय॑: । स॒म्ऽब॒भू॒वु: । या । बिभ॑र्ति । ब॒हु॒ऽधा । प्रा॒णत् । एज॑त् । सा । न॒: । भूमि॑: । गोषु॑ । अपि॑ । अन्ने॑ । द॒धा॒तु॒ ॥१.४॥
Mantra 5
यस्यां॒ पूर्वे॑ पूर्वज॒ना वि॑चक्रि॒रे यस्यां॑ दे॒वा असु॑रान॒भ्यव॑र्तयन्। गवा॒मश्वा॑नां॒ वय॑सश्च वि॒ष्ठा भगं॒ वर्चः॑ पृथि॒वी नो॑ दधातु ॥
यस्या॑म् । पूर्वे॑ । पू॒र्व॒ऽज॒ना: । वि॒ऽच॒क्रि॒रे । यस्या॑म् । दे॒वा: । असु॑रान् । अ॒भि॒ऽअव॑र्तयन् । गवा॑म् । अश्वा॑नाम् । वय॑स: । च॒ । वि॒ऽस्था । भग॑म्। वर्च॑: । पृ॒थि॒वी । न॒: । द॒धा॒तु॒ ॥१.५॥
Mantra 6
वि॑श्वंभ॒रा व॑सु॒धानी॑ प्रति॒ष्ठा हिर॑ण्यवक्षा॒ जग॑तो नि॒वेश॑नी। वै॑श्वान॒रं बिभ्र॑ती॒ भूमि॑र॒ग्निमिन्द्रऋ॑षभा॒ द्रवि॑णे नो दधातु ॥
वि॒श्व॒म्ऽभ॒रा । व॒सु॒ऽधानी॑ । प्र॒ति॒ऽस्था । हिर॑ण्यऽवक्षा: । जग॑त: । नि॒ऽवेश॑नी । वै॒श्वा॒न॒रम् । बिभ्र॑ती । भूमि॑: । अ॒ग्निम् । इन्द्र॑ऽऋषभा । द्रवि॑णे । न॒: । द॒धा॒तु॒ ॥१.६॥
Mantra 7
यां रक्ष॑न्त्यस्व॒प्ना वि॑श्व॒दानीं॑ दे॒वा भूमिं॑ पृथि॒वीमप्र॑मादम्। सा नो॒ मधु॑ प्रि॒यं दु॑हा॒मथो॑ उक्षतु॒ वर्च॑सा ॥
याम् । रक्ष॑न्ति । अ॒स्व॒प्ना: । वि॒श्व॒ऽदानी॑म् । दे॒वा: । भूमि॑म् । पृ॒थि॒वीम् । अप्र॑ऽमादम् । सा । न॒: । मधु॑ । प्रि॒यम् । दु॒हा॒म् । अथो॒ इति॑ । उ॒क्ष॒तु॒ । वर्च॑सा ॥१.७॥
Mantra 8
यार्ण॒वेऽधि॑ सलि॒लमग्र॒ आसी॒द्यां मा॒याभि॑र॒न्वच॑रन्मनी॒षिणः॑। यस्या॒ हृद॑यं पर॒मे व्योमन्त्स॒त्येनावृ॑तम॒मृतं॑ पृथि॒व्याः। सा नो॒ भूमि॒स्त्विषिं॒ बलं॑ रा॒ष्ट्रे द॑धातूत्त॒मे ॥
या । अ॒र्ण॒वे । अधि॑ । स॒लि॒लम् । अग्ने॑ । आसी॑त् । याम् । मा॒याभि॑: । अ॒नु॒ऽअच॑रन् । म॒नी॒षिण॑: । यस्या॑: । हृद॑यम् । प॒र॒मे । विऽओ॑मन् । स॒त्येन॑ । आऽवृ॑तम् । अ॒मृत॑म् । पृ॒थि॒व्या: । सा । न॒: । भूमि॑: । त्विषि॑म् । बल॑म् । रा॒ष्ट्रे । द॒धा॒तु॒ । उ॒त्ऽत॒मे ॥१.८॥
Mantra 9
यस्या॒मापः॑ परिच॒राः स॑मा॒नीर॑होरा॒त्रे अप्र॑मादं॒ क्षर॑न्ति। सा नो॒ भूमि॒र्भूरि॑धारा॒ पयो॑ दुहा॒मथो॑ उक्षतु॒ वर्च॑सा ॥
यस्या॑म् । आप॑: । प॒रि॒ऽच॒रा: । स॒मा॒नी: । अ॒हो॒रा॒त्रे इति॑ । अप्र॑ऽमादम् । क्षर॑न्ति । सा । न॒: । भूमि॑: । भूरि॑ऽधारा । पय॑: । दु॒हा॒म् । अथो॒ इति॑ । उ॒क्ष॒तु॒ । वर्च॑सा ॥१.९॥
Mantra 10
याम॒श्विना॒वमि॑मातां॒ विष्णु॒र्यस्यां॑ विचक्र॒मे। इन्द्रो॒ यां च॒क्र आ॒त्मने॑ऽनमि॒त्रां शची॒पतिः॑। सा नो॒ भूमि॒र्वि सृ॑जतां मा॒ता पु॒त्राय॑ मे॒ पयः॑ ॥
याम् । अ॒श्विनौ॑ । अमि॑माताम् । विष्णु॑: । यस्या॑म् । वि॒ऽच॒क्र॒मे । इन्द्र॑: । याम् । च॒क्रे । आ॒त्मने॑ । अ॒न॒मि॒त्राम् । शची॒ऽपति॑: । सा । न॒: । भूमि॑: । वि । सृ॒ज॒ता॒म् । मा॒ता । पु॒त्राय॑ । मे॒ । पय॑: ॥१.१०॥
Mantra 11
गि॒रय॑स्ते॒ पर्व॑ता हि॒मव॒न्तोऽर॑ण्यं ते पृथिवि स्यो॒नम॑स्तु। ब॒भ्रुं कृ॒ष्णां रोहि॑णीं वि॒श्वरू॑पां ध्रु॒वां भूमिं॑ पृथि॒वीमिन्द्र॑गुप्ताम्। अजी॒तोऽह॑तो॒ अक्ष॒तोऽध्य॑ष्ठां पृथि॒वीमह॑म् ॥
गि॒रय॑: । ते॒ । पर्व॑ता: । हि॒मऽव॑न्त: । अर॑ण्यम् । ते॒ । पृ॒थि॒वि॒ । स्यो॒नम् । अ॒स्तु॒ । ब॒भ्रुम् । कृ॒ष्णाम् । रोहि॑णीम् । वि॒श्वऽरू॑पाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । इन्द्र॑ऽगुप्ताम् । अजी॑त: । अह॑त: । अक्ष॑त: । अधि॑ । अ॒स्था॒म् । पृ॒थि॒वीम् । अ॒हम् ॥१.११॥
Mantra 12
यत्ते॒ मध्यं॑ पृथिवि॒ यच्च॒ नभ्यं॒ यास्त॒ ऊर्ज॑स्त॒न्वः संबभू॒वुः। तासु॑ नो धेह्य॒भि नः॑ पवस्व मा॒ता भूमिः॑ पु॒त्रो अ॒हं पृ॑थि॒व्याः प॒र्जन्यः॑ पि॒ता स उ॑ नः पिपर्तु ॥
यत् । ते॒ । मध्य॑म् । पृ॒थि॒वि॒ । यत् । च॒ । नभ्य॑म् । या: । ते॒ । ऊर्ज॑: । त॒न्व: । स॒म्ऽब॒भू॒वु: । तासु॑ । न॒: । धे॒हि॒ । अ॒भि । न॒: । प॒य॒स्व॒ । मा॒ता । भूमि॑: । पु॒त्र: । अ॒हम् । पृ॒थि॒व्या: । प॒र्जन्य॑: । पि॒ता । स: । ऊं॒ इति॑ । न॒: । पि॒प॒र्तु॒ ॥१.१२॥
Mantra 13
यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः। यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥
यस्या॑म् । वेदि॑म् । प॒रि॒ऽगृ॒ह्णन्ति॑ । भूम्या॑म् । यस्या॑म् । य॒ज्ञम् । त॒न्वते॑ । वि॒श्वऽक॑र्माण: । यस्या॑म् । मी॒यन्ते॑ । स्वर॑व: । पृ॒थि॒व्याम् । ऊ॒र्ध्वा: । शु॒क्रा: । आऽहु॑त्या: । पु॒रस्ता॑त् । सा । न॒: । भूमि॑: । व॒र्ध॒य॒त् । वर्ध॑माना ॥१.१३॥
Mantra 14
यो नो॒ द्वेष॑त्पृथिवि॒ यः पृ॑त॒न्याद्योभि॒दासा॒न्मन॑सा॒ यो व॒धेन॑। तं नो॑ भूमे रन्धय पूर्वकृत्वरि ॥
य: । न॒: । द्वेष॑त् । पृ॒थि॒वि॒ । य: । पृ॒त॒न्यात् । य: । अ॒भि॒ऽदासा॑त् । मन॑सा । य: । व॒धेन॑ । तम् । न॒: । भू॒मे॒ । र॒न्ध॒य॒ । पू॒र्व॒ऽकृ॒त्व॒रि॒ ॥१.१४॥
Mantra 15
त्वज्जा॒तास्त्वयि॑ चरन्ति॒ मर्त्या॒स्त्वं बि॑भर्षि द्वि॒पद॒स्त्वं चतु॑ष्पदः। तवे॒मे पृ॑थिवि॒ पञ्च॑ मान॒वा येभ्यो॒ ज्योति॑र॒मृतं॒ मर्त्ये॑भ्य उ॒द्यन्त्सूर्यो॑ र॒श्मिभि॑रात॒नोति॑ ॥
त्वत् । जा॒ता: । त्वयि॑ । च॒र॒न्ति॒ । मर्त्या॑: । त्वम् । बि॒भ॒र्षि॒: । द्वि॒ऽपद॑: । त्वम् । चतु॑:ऽपद: । तव॑ । इ॒मे । पृ॒थि॒वि॒ । पञ्च॑ । मा॒न॒वा: । येभ्य॑: । ज्योति॑: । अ॒मृत॑म् । मर्त्ये॑भ्य: । उ॒त्ऽयन् । सूर्य॑: । र॒श्मिऽभि॑: । आ॒ऽत॒नोति॑ ॥१.१५॥
Mantra 16
ता नः॑ प्र॒जाः सं दु॑ह्रतां सम॒ग्रा वा॒चो मधु॑ पृथिवि धेहि॒ मह्य॑म् ॥
ता: । न॒: । प्र॒ऽजा: । सम् । दु॒ह्र॒ता॒म् । स॒म्ऽअ॒ग्रा: । वा॒च: । मधु॑ । पृ॒थि॒वि॒ । धे॒हि॒ । मह्य॑म् ॥१.१६॥
Mantra 17
वि॑श्व॒स्वं मा॒तर॒मोष॑धीनां ध्रु॒वां भूमिं॑ पृथि॒वीं धर्म॑णा धृ॒ताम्। शि॒वां स्यो॒नामनु॑ चरेम वि॒श्वहा॑ ॥
वि॒श्व॒ऽस्व᳡म् । मा॒तर॑म् । ओष॑धीनाम् । ध्रु॒वाम् । भूमि॑म् । पृ॒थि॒वीम् । धर्म॑णा । धृ॒ताम् । शि॒वाम् । स्यो॒नाम् । अनु॑ । च॒रे॒म॒ । वि॒श्वहा॑ ॥१.१७॥
Mantra 18
म॒हत्स॒धस्थं॑ मह॒ती ब॒भूवि॑थ म॒हान्वेग॑ ए॒जथु॑र्वे॒पथु॑ष्टे। म॒हांस्त्वेन्द्रो॑ रक्ष॒त्यप्र॑मादम्। सा नो॑ भूमे॒ प्र रो॑चय॒ हिर॑ण्यस्येव सं॒दृशि॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
म॒हत् । स॒धऽस्थ॑म् । म॒ह॒ती । ब॒भू॒वि॒थ॒ । म॒हान् । वेग॑: । ए॒जथु॑: । वे॒पथु॑: । ते॒ । म॒हान् । त्वा॒ । इन्द्र॑: । र॒क्ष॒ति॒ । अप्र॑ऽमादम् । सा । न॒: ।भू॒मे॒ । प्र । रो॒च॒य॒ । हिर॑ण्यस्यऽइव । स॒म्ऽदृशि॑ । मा । न॒: । द्वि॒क्ष॒त॒ । क: । चन ॥१.१८॥
Mantra 19
अ॒ग्निर्भूम्या॒मोष॑धीष्व॒ग्निमापो॑ बिभ्रत्य॒ग्निरश्म॑सु। अ॒ग्निर॒न्तः पुरु॑षेषु॒ गोष्वश्वे॑ष्व॒ग्नयः॑ ॥
अ॒ग्नि: । भूम्या॑म् । ओष॑धीषु । अ॒ग्निम् । आप॑: । बि॒भ्र॒ति॒ । अ॒ग्नि: । अश्म॑ऽसु । अ॒ग्नि: । अ॒न्त: । पुरु॑षेषु । गोषु॑ । अश्वे॑षु । अ॒ग्नय॑: ॥१.१९॥
Mantra 20
अ॒ग्निर्दि॒व आ त॑पत्य॒ग्नेर्दे॒वस्यो॒र्वन्तरि॑क्षम्। अ॒ग्निं मर्ता॑स इन्धते हव्य॒वाहं॑ घृत॒प्रिय॑म् ॥
अ॒ग्नि: । दि॒व: । आ । त॒प॒ति॒ । अ॒ग्ने: । दे॒वस्य॑ । उ॒रु । अ॒न्तरि॑क्षम् । अ॒ग्निम् । मर्ता॑स: । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । ह॒व्य॒ ऽवाह॑म् । घृ॒त॒ऽप्रिय॑म् ॥१.२०॥
Mantra 21
अ॒ग्निवा॑साः पृथि॒व्यसित॒ज्ञूस्त्विषी॑मन्तं॒ संशि॑तं मा कृणोतु ॥
अ॒ग्निऽवा॑सा: । पृ॒थि॒वी । अ॒सि॒त॒ऽज्ञू: । त्विषि॑ऽमन्तम् । सम्ऽशि॑तम् । मा॒ । कृ॒णो॒तु॒ ॥१.२१॥
Mantra 22
भूम्यां॑ दे॒वेभ्यो॑ ददति य॒ज्ञं ह॒व्यमरं॑कृतम्। भूम्यां॑ मनु॒ष्या॑ जीवन्ति स्व॒धयान्ने॑न॒ मर्त्याः॑। सा नो॒ भूमिः॑ प्रा॒णमायु॑र्दधातु ज॒रद॑ष्टिं मा पृथि॒वी कृ॑णोतु ॥
भूम्या॑म् । दे॒वेभ्य॑: । द॒द॒ति॒ । य॒ज्ञम् । ह॒व्यम् । अर॑म्ऽकृतम् । भूम्या॑म् । म॒नु॒ष्या᳡: । जी॒व॒न्ति॒ । स्व॒धया॑ । अन्ने॑न । मर्त्या॑: । सा । न॒: । भूमि॑: । प्रा॒णम् । आयु॑: । द॒धा॒तु॒ । ज॒रत्ऽअ॑ष्टिम् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.२२॥
Mantra 23
यस्ते॑ ग॒न्धः पृ॑थिवि संब॒भूव॒ यं बिभ्र॒त्योष॑धयो॒ यमापः॑। यं ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च भेजि॒रे तेन॑ मा सुर॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
य: । ते॒ । ग॒न्ध: । पृ॒थि॒वि॒ । स॒म्ऽब॒भूव॑ । यम् । बिभ्र॑ति । ओष॑धय: । यम् । आप॑: । यम् । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । च॒ । भे॒जि॒रे । तेन॑ । मा॒ । सु॒र॒भिम् । कृ॒णु॒ । मा । न॒: । द्वि॒क्षत । क: । चन ॥१.२३॥
Mantra 24
यस्ते॑ ग॒न्धः पुष्क॑रमावि॒वेश॒ यं सं॑ज॒भ्रुः सू॒र्याया॑ विवा॒हे। अम॑र्त्याः पृथिवि ग॒न्धमग्रे॒ तेन॒ मा सु॑र॒भिं कृ॑णु॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
य: । ते॒ । ग॒न्ध: । पुष्क॑रम् । आ॒ऽवि॒वेश॑ । यम् । स॒म्ऽज॒भ्रु: । सू॒र्याया॑: । वि॒ऽवा॒हे । अम॑र्त्या: । पृ॒थि॒वि॒ । ग॒न्धम् । अग्रे॑ । तेन॑ । मा॒ । सु॒र॒भिम् । कृ॒णु॒ । मा । न॒: । द्वि॒क्ष॒त॒ । क: । च॒न ॥१.२४॥
Mantra 25
यस्ते॑ ग॒न्धः पुरु॑षेषु स्त्री॒षु पुं॒सु भगो॒ रुचिः॑। यो अश्वे॑षु वी॒रेषु॒ यो मृ॒गेषू॒त ह॒स्तिषु॑। क॒न्यायां॒ वर्चो॒ यद्भू॑मे॒ तेना॒स्माँ अपि॒ सं सृ॑ज॒ मा नो॑ द्विक्षत॒ कश्च॒न ॥
य: । ते॒ । ग॒न्ध: । पुरु॑षेषु । स्त्री॒षु । पु॒म्ऽसु । भग॑: । रुचि॑: । य: । अश्वे॑षु । वी॒रेषु॑ । य: । मृ॒गेषु॑ । उ॒त । ह॒स्तिषु॑ । क॒न्या᳡याम् । वर्च॑: । यत् । भू॒मे॒ । तेन॑ । अ॒स्मान् । अपि । सम् । सृ॒ज॒ । मा । न॒: । द्वि॒क्ष॒त॒ । क: । च॒न ॥२.२५॥
Mantra 26
शि॒ला भूमि॒रश्मा॑ पां॒सुः सा भूमिः॒ संधृ॑ता धृ॒ता। तस्यै॒ हिर॑ण्यवक्षसे पृथि॒व्या अ॑करं॒ नमः॑ ॥
शि॒ला । भूमि॑: । अश्मा॑ । पां॒सु: । सा । भूमि॑: । सम्ऽधृ॑ता । धृ॒ता । तस्यै॑ । हिर॑ण्यऽवक्षसे । पृ॒थि॒व्यै । अ॒क॒र॒म् । नम॑: ॥२.२६॥
Mantra 27
यस्यां॑ वृ॒क्षा वा॑नस्प॒त्या ध्रु॒वास्तिष्ठ॑न्ति वि॒श्वहा॑। पृ॑थि॒वीं वि॒श्वधा॑यसं धृ॒ताम॒च्छाव॑दामसि ॥
यस्या॑म् । वृ॒क्षा: । वा॒न॒स्प॒त्या: । ध्रु॒वा: । तिष्ठ॑न्ति । वि॒श्वहा॑ । पृ॒थि॒वीम् । वि॒श्वऽधा॑यसम् । धृ॒ताम् । अ॒च्छ॒ऽआव॑दामसि ॥१.२७॥
Mantra 28
उ॒दीरा॑णा उ॒तासी॑ना॒स्तिष्ठ॑न्तः प्र॒क्राम॑न्तः। प॒द्भ्यां द॑क्षिणस॒व्याभ्यां॒ मा व्य॑थिष्महि॒ भूम्या॑म् ॥
उ॒त्ऽईरा॑णा: । उ॒त । आसी॑ना: । तिष्ठ॑न्त: । प्र॒ऽक्राम॑न्त: । प॒त्ऽभ्याम् । द॒क्षि॒ण॒ऽस॒व्याभ्या॑म् । मा । व्य॒थि॒ष्म॒हि॒ । भूम्या॑म् ॥१.२८॥
Mantra 29
वि॒मृग्व॑रीं पृथि॒वीमा व॑दामि क्ष॒मां भूमिं॒ ब्रह्म॑णा वावृधा॒नाम्। ऊर्जं॑ पु॒ष्टं बिभ्र॑तीमन्नभा॒गं घृ॒तं त्वा॑भि॒ नि षी॑देम भूमे ॥
वि॒ऽमृग्व॑रीम् । पृ॒थि॒वीम् । आ । व॒दा॒मि॒ । क्ष॒माम् । भूमि॑म् । ब्रह्म॑णा । व॒वृ॒धा॒नाम् । ऊर्ज॑म् । पु॒ष्टम् । बिभ्र॑तीम् । अ॒न्न॒ऽभा॒गम् । घृ॒तम् । त्वा॒ । अ॒भि । नि । सी॒दे॒म॒ । भू॒मे॒ ॥१.२९॥
Mantra 30
शु॒द्धा न॒ आप॑स्त॒न्वे क्षरन्तु॒ यो नः॒ सेदु॒रप्रि॑ये॒ तं नि द॑ध्मः। प॒वित्रे॑ण पृथिवि॒ मोत्पु॑नामि ॥
शु॒ध्दा: । न॒: । आप॑: । त॒न्वे᳡ । क्ष॒र॒न्तु॒ । य: । न॒: । सेदु॑: । अप्रि॑ये । तम् । नि । द॒ध्म॒: । प॒वित्रे॑ण । पृ॒थि॒वि॒ । मा॒ । उत् । पु॒ना॒मि॒ ॥१.३०॥
Mantra 31
यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद्याश्च॑ प॒श्चात्। स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः ॥
या: । ते॒ । प्राची॑: । प्र॒ऽदिश॑: । या: । उदी॑ची: । या: । ते॒ । भू॒मे॒ । अ॒ध॒रात् । या: । च॒ । प॒श्चात् । स्यो॒ना: । ता: । मह्य॑म् । चर॑ते । भ॒व॒न्तु॒ । मा । नि । प॒प्त॒म् । भुव॑ने । शि॒श्रि॒याण: ॥१.३१॥
Mantra 32
मा नः॑ प॒श्चान्मा पु॒रस्ता॑न्नुदिष्ठा॒ मोत्त॒राद॑ध॒रादु॒त। स्व॒स्ति भू॑मे नो भव॒ मा वि॑दन्परिप॒न्थिनो॒ वरी॑यो यावया व॒धम् ॥
मा । न॒: । प॒श्चात् । मा । पु॒रस्ता॑त् । नु॒दि॒ष्ठा॒: । मा । उ॒त्त॒रात् । अ॒ध॒रात् । उ॒त । स्व॒स्ति । भू॒मे॒ । न॒: । भ॒व॒ । मा । वि॒द॒न् । प॒रि॒ऽप॒न्थिन॑: । वरी॑य: । य॒व॒य॒ । व॒धम् ॥१.३२॥
Mantra 33
याव॑त्ते॒ऽभि वि॒पश्या॑मि॒ भूमे॒ सूर्ये॑ण मे॒दिना॑। ताव॑न्मे॒ चक्षु॒र्मा मे॒ष्टोत्त॑रामुत्तरां॒ समा॑म् ॥
याव॑त् । ते॒ । अ॒भि । वि॒ऽपश्या॑मि । भूमे॑ । सूर्ये॑ण । मे॒दिना॑ । ताव॑त् । मे॒ । चक्षु॑: । मा । मे॒ष्ट॒ । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥१.३३॥
Mantra 34
यच्छया॑नः प॒र्याव॑र्ते॒ दक्षि॑णं स॒ख्यम॒भि भू॑मे पा॒र्श्वम्। उ॒त्ता॒नास्त्वा॑ प्र॒तीचीं॒ यत्पृ॒ष्टीभि॑रधि॒शेम॑हे। मा हिं॑सी॒स्तत्र॑ नो भूमे॒ सर्व॑स्य प्रतिशीवरि ॥
यत् । शया॑न: । प॒रि॒ऽआव॑र्ते । दक्षि॑णम् । स॒व्यम् । अ॒भि । भू॒मे॒ । पा॒र्श्वम् । उ॒त्ता॒ना: । त्वा॒ । प्र॒तीची॑म् । यत् । पृ॒ष्टीभि॑: । अ॒धि॒ऽशेम॑हे । मा । हिं॒सी॒: । तत्र॑ । न॒: । भू॒मे॒ । सर्व॑स्य । प्र॒ति॒ऽशी॒व॒रि॒ ॥१.३४॥
Mantra 35
यत्ते॑ भूमे वि॒खना॑मि क्षि॒प्रं तदपि॑ रोहतु। मा ते॒ मर्म॑ विमृग्वरि॒ मा ते॒ हृद॑यमर्पिपम् ॥
यत् । ते॒ । भू॒मे॒ । वि॒ऽखना॑मि । क्षि॒प्रम् । तत् । अपि॑ । रो॒ह॒तु॒ । मा । ते॒ । मर्म॑ । वि॒ऽमृ॒ग्व॒रि॒ । मा । ते॒ । हृद॑यम् । अ॒र्पि॒प॒म् ॥१.३५॥
Mantra 36
ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः। ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम् ॥
ग्री॒ष्म: । ते॒ । भू॒मे॒ । व॒र्षाणि॑ । श॒रत् । हे॒म॒न्त: । शिशि॑र: । व॒स॒न्त: । ऋ॒तव॑: । ते॒ । विऽहि॑ता: । हा॒य॒नी: । अ॒हो॒रा॒त्रे इति॑ । पृ॒थि॒वि॒ । न॒: । दु॒हा॒ता॒म् ॥१.३६॥
Mantra 37
याप॑ स॒र्पं वि॒जमा॑ना वि॒मृग्व॑री॒ यस्या॒मास॑न्न॒ग्नयो॒ ये अ॒प्स्वन्तः। परा॒ दस्यू॒न्दद॑ती देवपी॒यूनिन्द्रं॑ वृणा॒ना पृ॑थि॒वी न वृ॒त्रम्। श॒क्राय॑ दध्रे वृष॒भाय॒ वृष्णे॑ ॥
या । अप॑ । स॒र्पम् । वि॒जमा॑ना । वि॒ऽमृग्व॑री । यस्या॑म् । आस॑न् । अ॒ग्नय॑: । ये । अ॒प्ऽसु । अ॒न्त: । परा॑ । दस्यू॑न् । दद॑ती । दे॒व॒ऽपी॒यून् । इन्द्र॑म् । वृ॒णा॒ना । पृ॒थि॒वी । न । वृ॒त्रम् । श॒क्राय॑ । द॒ध्रे॒ । वृ॒ष॒भाय॑ । वृष्णे॑ ॥१.३७॥
Mantra 38
यस्यां॑ सदोहविर्धा॒ने यूपो॒ यस्यां॑ निमी॒यते॑। ब्र॒ह्माणो॒ यस्या॒मर्च॑न्त्यृ॒ग्भिः साम्ना॑ यजु॒र्विदः॑। यु॒ज्यन्ते॒ यस्या॑मृ॒त्विजः॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥
यस्या॑म् । स॒दा॒ह॒वि॒र्धा॒ने इति॑ स॒द॒:ऽह॒वि॒र्धा॒ने । यूप॑: । यस्या॑म् । नि॒ऽमी॒यते॑ । ब्र॒ह्माण॑: । यस्या॑म् । अर्च॑न्ति । ऋ॒क्ऽभि: । साम्ना॑ । य॒जु॒:ऽविद॑: । यु॒ज्यन्ते॑ । यस्या॑म् । ऋ॒त्विज॑: । सोम॑म् । इन्द्रा॑य । पात॑वे ॥१.३८॥
Mantra 39
यस्यां॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यो॒ गा उदा॑नृ॒चुः। स॒प्त स॒त्रेण॑ वे॒धसो॑ य॒ज्ञेन॒ तप॑सा स॒ह ॥
यस्या॑म् । पूर्वे॑ । भू॒त॒ऽकृत॑: । ऋष॑य: । गा: । उत् । आ॒नृ॒चु: । स॒प्त । स॒त्त्रेण॑ । वे॒धस॑: । य॒ज्ञेन॑ । तप॑सा । स॒ह ॥१.३९॥
Mantra 40
सा नो॒ भूमि॒रा दि॑शतु॒ यद्धनं॑ का॒मया॑महे। भगो॑ अनु॒प्रयु॑ङ्क्ता॒मिन्द्र॑ एतु पुरोग॒वः ॥
सा । न॒: । भूमि॑: । आ । दि॒श॒तु॒ । यत् । धन॑म् । का॒मया॑महे । भग॑: । अ॒नु॒ऽप्रयु॑ङ्क्ताम् । इन्द्र॑: । ए॒तु॒ । पु॒र॒:ऽग॒व: ॥१.४०॥
Mantra 41
यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यैलबाः। यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्यां॒ वद॑ति दुन्दु॒भिः। सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु ॥
यस्या॑म् । गाय॑न्ति । नृत्य॑न्ति । भूम्या॑म् । मर्त्या॑: । विऽऐ॑लबा: । यु॒ध्यन्ते॑ । यस्या॑म् । आ॒ऽक्र॒न्द: । यस्या॑म् । वद॑ति । दु॒न्दु॒भि: । सा । न॒: । भूमि॑: । प्र । नु॒द॒ता॒म् । स॒ऽपत्ना॑न् । अ॒स॒प॒त्न॒म् । मा॒ । पृ॒थि॒वी । कृ॒णो॒तु॒ ॥१.४१॥
Mantra 42
यस्या॒मन्नं॑ व्रीहिय॒वौ यस्या॑ इ॒माः पञ्च॑ कृ॒ष्टयः॑। भूम्यै॑ प॒र्जन्य॑पत्न्यै॒ नमो॑ऽस्तु व॒र्षमे॑दसे ॥
यस्या॑म् । अन्न॑म् । व्री॒हि॒ऽय॒वौ । यस्या॑: । इ॒मा: । पञ्च॑ । कृ॒ष्टय॑: । भूम्यै॑ । प॒र्जन्य॑ऽपत्न्यै । नम॑: । अ॒स्तु॒ । व॒र्षऽमे॑दसे ॥१.४२॥
Mantra 43
यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑। प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु ॥
यस्या॑: । पुर॑: । दे॒वऽकृ॑ता: । क्षेत्रे॑ । यस्या॑: । वि॒ऽकु॒र्वते॑ । प्र॒जाऽप॑ति: । पृ॒थि॒वीम् । वि॒श्वऽग॑र्भाम् । आशा॑म्ऽआशाम् । रण्या॑म् । न॒: । कृ॒णो॒तु॒ ॥१.४३॥
Mantra 44
नि॒धिं बिभ्र॑ती बहु॒धा गुहा॒ वसु॑ म॒णिं हिर॑ण्यं पृथि॒वी द॑दातु मे। वसू॑नि नो वसु॒दा रास॑माना दे॒वी द॑धातु सुमन॒स्यमा॑ना ॥
नि॒ऽधिम् । बिभ्र॑ती । ब॒हु॒ऽधा । गुहा॑ । वसु॑ । म॒णिम् । हिर॑ण्यम् । पृ॒थि॒वी । द॒दा॒तु॒ । मे॒ । वसू॑नि । न॒: । व॒सु॒ऽदा: । रास॑माना । दे॒वी । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑ना ॥१.४४॥
Mantra 45
जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम्। स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्फुरन्ती ॥
जन॑म् । बिभ्र॑ती । ब॒हु॒ऽधा । विऽवा॑चसम् । नाना॑ऽधर्माणम् । पृ॒थि॒वी । य॒था॒ऽओ॒क॒सम् । स॒हस्र॑म् । धारा॑: । द्रवि॑णस्य । मे॒ । दु॒हा॒म् । ध्रु॒वाऽइ॑व । धे॒नु: । अन॑पऽस्फुरन्ती ॥१.४५॥
Mantra 46
यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑। क्रिमि॒र्जिन्व॑त्पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॒ तन्नः॒ सर्प॒न्मोप॑ सृप॒द्यच्छि॒वं तेन॑ नो मृड ॥
य: । ते॒ । स॒र्प: । वृश्चि॑क: । तृ॒ष्टऽदं॑श्मा । हे॒म॒न्तऽज॑ब्ध: । भृ॒म॒ल: । गुहा॑ । शये॑ । क्रिमि॑: । जिन्व॑त् । पृ॒थि॒वि॒ । यत्ऽय॑त् । एज॑ति । प्रा॒वृषि॑ । तत् । न॒: । सर्प॑त् । मा । उप॑ । सृ॒प॒त् । यत् । शि॒वम् । तेन॑ । न॒: । मृ॒ड॒ ॥१.४६॥
Mantra 47
ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे। यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड ॥
ये । ते॒ । पन्था॑न: । ब॒हव॑: । ज॒न॒ऽअय॑ना: । रथ॑स्य । वर्त्म॑ । अन॑स: । च॒ । यात॑वे । यै: । स॒म्ऽच॑रन्ति । उ॒भये॑ । भ॒द्र॒ऽपा॒पा: । तम् । पन्था॑नम् । ज॒ये॒म॒ । अ॒न॒मि॒त्रम् । अ॒त॒स्क॒रम् । यत् । शि॒वम् । तेन॑ । न॒: । मृ॒ड॒ ॥१.४७॥
Mantra 48
म॒ल्वं बिभ्र॑ती गुरु॒भृद्भ॑द्रपा॒पस्य॑ नि॒धनं॑ तिति॒क्षुः। व॑रा॒हेण॑ पृथि॒वी सं॑विदा॒ना सू॑क॒राय॒ वि जि॑हीते मृ॒गाय॑ ॥
म॒ल्वम् । बिभ्र॑ती । गु॒रु॒ऽभृत् । भ॒द्र॒ऽपा॒पस्य॑ । नि॒ऽधन॑म् । ति॒ति॒क्षु: । व॒रा॒हेण॑ । पृ॒थि॒वी । स॒म्ऽवि॒दा॒ना । सू॒क॒राय॑ । वि । जि॒ही॒ते॒ । मृ॒गाय॑ ॥१.४८॥
Mantra 49
ये त॑ आर॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ताः सिं॒हा व्या॒घ्राः पु॑रु॒षाद॒श्चर॑न्ति। उ॒लं वृकं॑ पृथिवि दु॒च्छुना॑मि॒त ऋ॒क्षीकां॒ रक्षो॒ अप॑ बाधया॒स्मत् ॥
ये । ते । आ॒र॒ण्या: । प॒शव॑: । मृ॒गा: । वने॑ । हि॒ता: । सिं॒हा: । व्या॒घ्रा । पु॒रु॒ष॒ऽअद॑: । चर॑न्ति । उ॒लम् । वृक॑म् । पृ॒थि॒वि॒ । दु॒च्छुना॑म् । इ॒त: । ऋ॒क्षीका॑म् । रक्ष॑: । अप॑ । बा॒ध॒य॒ । अ॒स्मत् ॥१.४९॥
Mantra 50
ये ग॑न्ध॒र्वा अ॑प्स॒रसो॒ ये चा॒रायाः॑ किमी॒दिनः॑। पि॑शा॒चान्त्सर्वा॒ रक्षां॑सि॒ तान॒स्मद्भू॑मे यावय ॥
ये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । ये । च॒ । अ॒राया॑: । कि॒मी॒दिन॑: । पि॒शा॒चान् । सर्वा॑ । रक्षां॑सि । तान् । अ॒स्मत् । भू॒मे॒ । य॒व॒य॒ ॥१.५०॥
Mantra 51
यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि। यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान्। वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः ॥
याम् । द्वि॒ऽपाद॑: । प॒क्षिण॑: । स॒म्ऽपत॑न्ति । हं॒सा: । सु॒ऽप॒र्णा: । श॒कु॒ना: । वयां॑सि । यस्या॑म् । वात॑: । मा॒त॒रिश्वा॑ । ईयते॑ । रजां॑सि । कृ॒ण्वन् । च्य॒वय॑न् । च॒ । वृ॒क्षान् । वात॑स्य । प्र॒ऽवाम् । उ॒प॒ऽवान् । अनु॑ । वा॒ति॒ । अ॒र्चि: ॥१.५१॥
Mantra 52
यस्यां॑ कृ॒ष्णम॑रु॒णं च॒ संहि॑ते अहोरा॒त्रे विहि॑ते॒ भूम्या॒मधि॑। व॒र्षेण॒ भूमिः॑ पृथि॒वी वृ॒तावृ॑ता॒ सा नो॑ दधातु भ॒द्रया॑ प्रि॒ये धाम॑निधामनि ॥
यस्या॑म् । कृ॒ष्णम् । अ॒रु॒णम् । च॒ । संहि॑ते इति॒ सम्ऽहि॑ते । अ॒हो॒रा॒त्रे इति॑ । विहि॑ते॒ इति॒ विऽहि॑ते । भूम्या॑म् । अधि॑ । व॒र्षेण॑ । भूमि॑: । पृ॒थि॒वी । वृ॒ता । आऽवृ॑ता । सा । न॒: । द॒धा॒तु॒ । भ॒द्रया॑ । प्रि॒ये । धाम॑निऽधामनि ॥१.५२॥
Mantra 53
द्यौश्च॑ म इ॒दं पृ॑थि॒वी चा॒न्तरि॑क्षं च मे॒ व्यचः॑। अ॒ग्निः सूर्य॒ आपो॑ मे॒धां विश्वे॑ दे॒वाश्च॒ सं द॑दुः ॥
द्यौ: । च॒ । मे॒ । इ॒दम् । पृ॒थि॒वी । च॒ । अ॒न्तरि॑क्षम् । च॒ । मे॒ । व्यच॑: । अ॒ग्नि: । सूर्य॑: । आप॑: । मे॒धाम् । विश्वे॑ । दे॒वा: । च॒ । सम् । द॒दु॒: ॥१.५३॥
Mantra 54
अ॒हम॑स्मि॒ सह॑मान॒ उत्त॑रो॒ नाम॒ भूम्या॑म्। अ॑भी॒षाड॑स्मि विश्वा॒षाडाशा॑माशां विषास॒हिः ॥
अ॒हम् । अ॒स्मि॒ । सह॑मान: । उत्त॑र: । नाम॑ । भूम्या॑म् । अ॒भी॒षाट् । अ॒स्मि॒ । वि॒श्वा॒षाट् । आशा॑म्ऽआशाम् । वि॒ऽस॒स॒हि: ॥१.५४॥
Mantra 55
अ॒दो यद्दे॑वि॒ प्रथ॑माना पु॒रस्ता॑द्दे॒वैरु॒क्ता व्यस॑र्पो महि॒त्वम्। आ त्वा॑ सुभू॒तम॑विशत्त॒दानी॒मक॑ल्पयथाः प्र॒दिश॒श्चत॑स्रः ॥
अ॒द: । यत् । दे॒वि॒ । प्रथ॑माना । पु॒रस्ता॑त् । दे॒वै: । उ॒क्ता । वि॒ऽअस॑र्प: । म॒हि॒ऽत्वम् । आ । त्वा॒ । सु॒ऽभू॒तम् । अ॒वि॒श॒त् । त॒दानी॑म् । अक॑ल्पयथा: । प्र॒ऽदिश॑: । चत॑स्र: ॥१.५५॥
Mantra 56
ये ग्रामा॒ यदर॑ण्यं॒ याः स॒भा अधि॒ भूम्या॑म्। ये सं॑ग्रा॒माः समि॑तय॒स्तेषु॒ चारु॑ वदेम ते ॥
ये । ग्रामा॑: । यत् । अर॑ण्यम् । या: । स॒भा: । अधि॑ । भूम्या॑म् । ये । स॒म्ऽग्रा॒मा: । सम्ऽइ॑तय: । तेषु॑ । चारु॑ । व॒दे॒म॒ । ते॒ ॥१.५६॥
Mantra 57
अश्व॑ इव॒ रजो॑ दुधुवे॒ वि ताञ्जना॒न्य आक्षि॑यन्पृथि॒वीं यादजा॑यत। म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम् ॥
अश्व॑:ऽइव । रज॑: । दु॒धु॒वे॒ । वि । तान् । जना॑न् । ये । आ॒ऽअक्षि॑यन् । पृ॒थि॒वीम् । यात् । आजा॑यत । म॒न्द्रा । अ॒ग्र॒ऽइत्व॑री । भुव॑नस्य । गो॒पा: । वन॒स्पती॑नाम् । गृभि॑: । ओष॑धीनाम् ॥१.५७॥
Mantra 58
यद्वदा॑मि॒ मधु॑म॒त्तद्व॑दामि॒ यदीक्षे॒ तद्व॑नन्ति मा। त्विषी॑मानस्मि जूति॒मानवा॒न्यान्ह॑न्मि॒ दोध॑तः ॥
यत् । वदा॑मि । मधु॑ऽमत् । तत् । व॒दा॒मि॒ । यत् । ईक्षे॑ । तत् । व॒न॒न्ति॒ । मा॒ । त्विषि॑ऽमान् । अ॒स्मि॒ । जू॒ति॒ऽमान् । अव॑ । अ॒न्यान् । ह॒न्मि॒ । दोध॑त: ॥१.५८॥
Mantra 59
श॑न्ति॒वा सु॑र॒भिः स्यो॒ना की॒लालो॑ध्नी॒ पय॑स्वती। भूमि॒रधि॑ ब्रवीतु मे पृथि॒वी पय॑सा स॒ह ॥
श॒न्ति॒ऽवा । सु॒र॒भि: । स्यो॒ना । की॒लाल॑ऽऊध्नी । पय॑स्वती । भूमि॑: । अधि॑ । ब्र॒वी॒तु॒ । मे॒ । पृ॒थि॒वी॒ । पय॑सा । स॒ह ॥१.५९॥
Mantra 60
याम॒न्वैच्छ॑द्ध॒विषा॑ वि॒श्वक॑र्मा॒न्तर॑र्ण॒वे रज॑सि॒ प्रवि॑ष्टाम्। भु॑जि॒ष्यं पात्रं॒ निहि॑तं॒ गुहा॒ यदा॒विर्भोगे॑ अभवन्मातृ॒मद्भ्यः॑ ॥
याम् । अ॒नु॒ऽऐच्छ॑त् । ह॒विषा॑ । वि॒श्वऽक॑र्मा । अ॒न्त: । अ॒र्ण॒वे । रज॑सि । प्रऽवि॑ष्टाम् । भु॒मि॒ष्य᳡म् । पात्र॑म् । निऽहि॑तम् । गुहा॑ । यत् । आ॒वि: । भोगे॑ । अ॒भ॒व॒त् । मा॒तृ॒मत्ऽभ्य॑: ॥१.६०॥
Mantra 61
त्वम॑स्या॒वप॑नी॒ जना॑ना॒मदि॑तिः काम॒दुघा॑ पप्रथा॒ना। यत्त॑ ऊ॒नं तत्त॒ आ पू॑रयाति प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥
त्वम् । अ॒सि॒ । आ॒ऽवप॑नी । जना॑नाम् । अदि॑ति: । का॒म॒ऽदुघा॑ । प॒प्र॒था॒ना । यत् । ते॒ । ऊ॒नम् । तत् । ते॒ । आ । पू॒र॒य॒ति॒ । प्र॒जाऽप॑ति: । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ ॥१.६१॥
Mantra 62
उ॑प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः। दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ॥
उ॒प॒ऽस्था: । ते॒ । अ॒न॒मी॒वा: । अ॒य॒क्ष्मा: । अ॒स्मभ्य॑म् । स॒न्तु॒ । पृ॒थि॒वि॒ । प्रऽसू॑ता: । दी॒र्घम् । न॒: । आयु॑: । प्र॒ति॒ऽबुध्य॑माना: । व॒यम् । तुभ्य॑म् । ब॒लि॒ऽहृत॑: । स्या॒म॒ ॥१.६२॥
Mantra 63
भूमे॑ मात॒र्नि धे॑हि मा भ॒द्रया॒ सुप्र॑तिष्ठितम्। सं॑विदा॒ना दि॒वा क॑वे श्रि॒यां मा॑ धेहि॒ भूत्या॑म् ॥
भूमे॑ । मा॒त॒: । नि । धे॒हि॒ । मा॒ । भ॒द्रया॑ । सुऽप्र॑तिस्थितम् । स॒म्ऽवि॒दा॒ना । दि॒वा । क॒वे॒ । श्रि॒याम् । मा॒ । धे॒हि॒ । भूत्या॑म् ॥१.६३॥