Mantra 1
ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याणि च। अ॒सीन्प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि। सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥
ये । बा॒हव॑: । या: । इष॑व: । धन्व॑नाम् । वी॒र्या᳡णि । च॒ । अ॒सीन् । प॒र॒शून् । आयु॑धम् । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । सर्व॑म् । तत् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.१॥
Mantra 2
उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ॥
उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । सम्ऽदृ॑ष्टा । गु॒प्ता । व॒: । स॒न्तु॒ । या । न॒: । मि॒त्राणि॑ । अ॒र्बु॒दे॒ ॥११.२॥
Mantra 3
उत्ति॑ष्ठत॒मा र॑भेथामादानसंदा॒नाभ्या॑म्। अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे ॥
उत् । ति॒ष्ठ॒त॒म् । आ । र॒भे॒था॒म् । आ॒दा॒न॒ऽसं॒दा॒नाभ्या॑म् । अ॒मित्रा॑णाम् । सेना॑: । अ॒भि । ध॒त्त॒म् । अ॒र्बु॒दे॒ ॥११.३॥
Mantra 4
अर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्यर्बुदिः। याभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही। ताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या ॥
अर्बु॑दि: । नाम॑ । य: । दे॒व: । ईशा॑न: । च॒ । निऽअ॑र्बुदि : । याभ्या॑म् । अ॒न्तरि॑क्षम् । आऽवृ॑तम् । इ॒यम् । च॒ । पृ॒थि॒वी । म॒ही । ताभ्या॑म् । इन्द्र॑मेदिऽभ्याम् । अ॒हम् । जि॒तम् । अनु॑ । ए॒मि॒ । सेन॑या ॥११.४॥
Mantra 5
उत्ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह। भ॒ञ्जन्न॒मित्रा॑णां॒ सेनां॑ भो॒गेभिः॒ परि॑ वारय ॥
उत् । ति॒ष्ठ॒ । त्वम् । दे॒व॒ऽज॒न॒ । अर्बु॑दे । सेन॑या । स॒ह । भ॒ञ्जन् । अ॒मित्रा॑णाम् । सेना॑म् । भो॒गेभि॑: । परि॑ । वा॒र॒य॒ ॥११.५॥
Mantra 6
स॒प्त जा॒तान्न्यर्बुद उदा॒राणां॑ समी॒क्षय॑न्। तेभि॒ष्ट्वमाज्ये॑ हु॒ते सर्वै॒रुत्ति॑ष्ठ॒ सेन॑या ॥
स॒प्त । जा॒तान् । नि॒ऽअ॒र्बु॒दे॒ । उ॒त्ऽआ॒राणा॑म् । स॒म्ऽई॒क्षय॑न् । तेभि॑: । त्वम् । आज्ये॑ । हु॒ते । सर्वै॑: । उत् । ति॒ष्ठ॒ । सेन॑या ॥११.६॥
Mantra 7
प्र॑तिघ्ना॒नाश्रु॑मु॒खी कृ॑धुक॒र्णी च॑ क्रोशतु। वि॑के॒शी पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
प्र॒ति॒ऽघ्ना॒ना । अ॒श्रु॒ऽमु॒खी । कृ॒धु॒ऽक॒र्णी । च॒ । क्रो॒श॒तु॒ । वि॒ऽके॒शी । पुरु॑षे । ह॒ते । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.७॥
Mantra 8
सं॒कर्ष॑न्ती क॒रूक॑रं॒ मन॑सा पु॒त्रमि॒च्छन्ती॑। पतिं॒ भ्रात॑र॒मात्स्वान्र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
स॒म्ऽकर्ष॑न्ती । क॒रूक॑रम् । मन॑सा । पु॒त्रम् । इ॒च्छन्ती॑ । पति॑म् । भ्रात॑रम् । आत् । स्वान् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.८॥
Mantra 9
अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्त्रिणः॑। ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
अ॒लिक्ल॑वा: । जा॒ष्क॒म॒दा: । गृध्रा॑: । श्ये॒ना: । प॒त॒त्रिण॑: । ध्वाङ्क्षा॑: । श॒कुन॑य: । तृ॒प्य॒न्तु॒ । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.९॥
Mantra 10
अथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑। पौरु॑षे॒येऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑ ॥
अथो॒ इति॑ । सर्व॑म् । श्वाप॑दम् । मक्षि॑का । तृ॒प्य॒तु॒ । क्रिमि॑: । पौरु॑षेये । अधि॑ । कुण॑पे । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१०॥
Mantra 11
आ गृ॑ह्णीतं॒ सं बृ॑हतं प्राणापा॒नान्न्य॑र्बुदे। नि॑वा॒शा घोषाः॒ सं य॑न्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
नि॒ऽवा॒शा: । घोषा॑: । सम् । य॒न्तु॒ । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥१.११॥
Mantra 12
उद्वे॑पय॒ सं वि॑जन्तां भिया॒मित्रा॒न्त्सं सृ॑ज। उ॑रुग्रा॒हैर्बा॑ह्व॒ङ्कैर्विध्या॑मित्रान्न्यर्बुदे ॥
उत् । वे॒प॒य॒ । सम् । वि॒ज॒न्ता॒म् । भि॒या । अ॒मित्रा॑न् । सम् । सृ॒ज॒ । उ॒रु॒ऽग्रा॒है: । बा॒हु॒ऽअ॒ङ्कै: । विध्य॑ । अ॒मित्रा॑न् । नि॒ऽअ॒र्बु॒दे॒ ॥११.१२॥
Mantra 13
मुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि। मैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
मुह्य॑न्तु । ए॒षा॒म् । बा॒हव॑: । चि॒त्त॒ऽआ॒कू॒तम् । च॒ । यत् । हृ॒दि । मा । ए॒षा॒म् । उत् । शे॒षि॒ । किम् । च॒न । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१३॥
Mantra 14
प्र॑तिघ्ना॒नाः सं धा॑व॒न्तूरः॑ पटू॒रावा॑घ्ना॒नाः। अ॑घा॒रिणी॑र्विके॒श्यो रुद॒त्यः पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
प्र॒ति॒ऽघ्ना॒ना: । सम् । धा॒व॒न्तु॒ । उर॑: । प॒टू॒रौ । आ॒ऽघ्ना॒ना: । अ॒घा॒रिणी॑: । वि॒ऽके॒श्य᳡: । रु॒द॒त्य᳡: । पुरु॑षे । ह॒ते । र॒दि॒ते ।अ॒र्बु॒दे॒ । तव॑ ॥११.१४॥
Mantra 15
श्वन्वतीरप्स॒रसो॑ रूपका उ॒तार्बु॑दे। अ॑न्तःपा॒त्रे रेरि॑हतीं रि॒शां दु॑र्णिहितै॒षिणी॑म्। सर्वा॒स्ता अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥
श्व᳡न्ऽवती: । अ॒प्स॒रस॑: । रूप॑का: । उ॒त । अ॒र्बु॒दे॒ । अ॒न्त॒:ऽपा॒त्रे । रेरि॑हतीम् । रि॒शाम् । दु॒र्नि॒हि॒त॒ऽए॒षिणी॑म् । सर्वा॑: । ता: । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.१५॥
Mantra 16
ख॒डूरे॑ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म्। य उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये स॒र्पा इ॑तरज॒ना रक्षां॑सि ॥
ख॒डूरे॑ । अ॒धि॒ऽच॒ङ्क॒माम् । खर्वि॑काम् । ख॒र्व॒ऽवा॒सिनी॑म् । ये । उ॒त्ऽआ॒रा: । अ॒न्त:ऽहि॑ता: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । च॒ । ये । स॒र्पा: । इ॒त॒र॒ऽज॒ना: । रक्षां॑सि ॥११.१६॥
Mantra 17
चतु॑र्दंष्ट्राञ्छ्या॒वद॑तः कु॒म्भमु॑ष्काँ॒ असृ॑ङ्मुखान्। स्व॑भ्य॒सा ये चो॑द्भ्य॒साः ॥
चतु॑:ऽदंष्ट्रान् । श्या॒वऽद॑त: । कु॒म्भऽमु॑ष्कान् । असृ॑क्ऽमुखान् । स्व॒ऽभ्य॒सा: । ये । चे॒ । उ॒त्ऽभ्य॒सा: ॥११.१७॥
Mantra 18
उद्वे॑पय॒ त्वम॑र्बुदे॒ऽमित्रा॑णाम॒मूः सिचः॑। जयां॑श्च जि॒ष्णुश्चा॒मित्राँ॒ जय॑ता॒मिन्द्र॑मेदिनौ ॥
उत् । वे॒प॒य॒ । त्वम् । अ॒र्बु॒दे॒ । अ॒मित्रा॑णाम् । अ॒मू: । सिच॑: । जय॑न् । च॒ । जि॒ष्णु: । च॒ । अ॒मित्रा॑न् । जय॑ताम् । इन्द्र॑ऽमेदिनौ ॥११.१८॥
Mantra 19
प्रब्ली॑नो मृदि॒तः श॑यां ह॒तोऽमित्रो॑ न्यर्बुदे। अ॑ग्निजि॒ह्वा धू॑मशि॒खा जय॑न्तीर्यन्तु॒ सेन॑या ॥
प्रऽब्ली॑न: । मृ॒दि॒त: । श॒या॒म् । ह॒त: । अ॒मित्र॑: । नि॒ऽअ॒र्बु॒दे॒ । अ॒ग्नि॒ऽजि॒ह्वा: । धू॒म॒ऽशि॒खा: । जय॑न्ती: । य॒न्तु॒ । सेन॑या ॥११.१९॥
Mantra 20
तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्। अ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न ॥
तया॑ । अ॒र्बु॒दे॒ । प्रऽनु॑त्तानाम् । इन्द्र॑: । ह॒न्तु॒ । वर॑म्ऽवरम् । अ॒मित्रा॑णाम् । श॒ची॒ऽपति॑: । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥११.२०॥
Mantra 21
उत्क॑सन्तु॒ हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु। शौ॑ष्का॒स्यमनु॑ वर्तताम॒मित्रा॒न्मोत मि॒त्रिणः॑ ॥
उत् । क॒स॒न्तु॒ । हृद॑यानि । ऊ॒र्ध्व: । प्रा॒ण: । उत् । ई॒ष॒तु॒ । शौ॒ष्क॒ऽआ॒स्यम् । अनु॑ । व॒र्त॒ता॒म् । अ॒मित्रा॑न् । मा । उ॒त । मि॒त्रिण॑: ॥१९.२१॥
Mantra 22
ये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये। त॑म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥
ये । च॒ । धीरा॑: । ये । च॒ । अधी॑रा: । परा॑ञ्च: । ब॒धि॒रा: । च॒ । ये । त॒म॒सा: । ये । च॒ । तू॒प॒रा: । अथो॒ इति॑ । ब॒स्त॒ऽअ॒भि॒वा॒सिन॑:। सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२२॥
Mantra 23
अर्बु॑दिश्च॒ त्रिष॑न्धिश्चा॒मित्रा॑न्नो॒ वि वि॑ध्यताम्। यथै॑षामिन्द्र वृत्रह॒न्हना॑म शचीपते॒ऽमित्रा॑णां सहस्र॒शः ॥
अर्बु॑दि: । च॒ । त्रिऽसं॑धि: । च॒ । अ॒मित्रा॑न् । न॒: । वि । वि॒ध्य॒ता॒म् । यथा॑ । ए॒षा॒म् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । हना॑म । श॒ची॒ऽप॒ते॒ । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥११.२३॥
Mantra 24
वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑। ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥
वन॒स्पती॑न् । वा॒न॒स्प॒त्यान् । ओष॑धी: । उ॒त । वी॒रुध॑: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । स॒र्पान् । दे॒वान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ ।उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२४॥
Mantra 25
ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑। ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः। ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
ई॒शाम् । व॒: । म॒रुत॑: । दे॒व: । आ॒दि॒त्य: । ब्रह्म॑ण: । पति॑: । ई॒शाम् । व॒: । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । धा॒ता । मि॒त्र: । प्र॒जाऽप॑ति: । ई॒शाम् । व॒: । ऋष॑य: । च॒क्रु॒: । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.२५॥
Mantra 26
तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ॥
तेषा॑म् । सर्वे॑षाम् । ईशा॑ना: । उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । इ॒मम् । स॒म्ऽग्रा॒मम् । स॒म्ऽजित्य॑ । य॒था॒ऽलो॒कम् । वि । ति॒ष्ठ॒ध्व॒म् ॥११.२६॥