Mantra 1
यन्म॒न्युर्जा॒यामाव॑हत्संक॒ल्पस्य॑ गृ॒हादधि॑। क आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रोभ॑वत् ॥
यत् । म॒न्यु: । जा॒याम् । आ॒ऽअव॑हत् । स॒म्ऽक॒ल्पस्य॑ । गृ॒हात् । अधि॑ । के । आ॒स॒न् । जन्या॑: । के । व॒रा: । क: । ऊं॒ इति॑ । ज्ये॒ष्ठ॒ऽव॒र: । अ॒भ॒व॒त् ॥१०.१॥
Mantra 2
तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे। त आ॑सं॒ जन्या॑स्ते व॒रा ब्रह्म॑ ज्येष्ठव॒रोभ॑वत् ॥
तप॑: । च॒ । ए॒व । आ॒स्ता॒म् । कर्म॑ । च॒ । अ॒न्त: । म॒ह॒ति । अ॒र्ण॒वे । ते । आ॒स॒न् । जन्या॑: । ते । व॒रा: । ब्रह्म॑ । ज्ये॒ष्ठ॒ऽव॒र: । अ॒भ॒व॒त् ॥१०.२॥
Mantra 3
दश॑ सा॒कम॑जायन्त दे॒वा दे॒वेभ्यः॑ पु॒रा। यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स वा अ॒द्य म॒हद्व॑देत् ॥
दश॑ । सा॒कम् । अ॒जा॒य॒न्त॒ । दे॒वा: । दे॒वेभ्य॑: । पु॒रा । य: । वै । तान् । वि॒द्यात् । प्र॒ति॒ऽअक्ष॑म् । स: । वै । अ॒द्य । म॒हत् । व॒दे॒त् ॥१०.३॥
Mantra 4
प्रा॑णापा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या। व्या॑नोदा॒नौ वाङ्मन॒स्ते वा आकू॑ति॒माव॑हन् ॥
प्रा॒णा॒पा॒नौ । चक्षु॑: । श्रोत्र॑म् । अक्षि॑ति: । च॒ । क्षिति॑: । च॒ । या । व्या॒न॒ऽउ॒दा॒नौ । वाक् । मन॑: । ते । वै । आऽकू॑तिम् । आ । अ॒व॒ह॒न् ॥१०.४॥
Mantra 5
अजा॑ता आसन्नृ॒तवोऽथो॑ धा॒ता बृह॒स्पतिः॑। इ॑न्द्रा॒ग्नी अ॒श्विना॒ तर्हि॒ कं ते ज्ये॒ष्ठमुपा॑सत ॥
अजा॑ता: । आ॒स॒न् । ऋ॒तव॑: । अथो॒ इति॑ । धा॒ता । बृह॒स्पति॑: । इ॒न्द्रा॒ग्नी इति॑ । अ॒श्विना॑ । तर्हि॑ । कम् । ते । ज्ये॒ष्ठम् । उप॑ । आ॒स॒त॒ ॥१०.५॥
Mantra 6
तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे। तपो॑ ह जज्ञे॒ कर्म॑ण॒स्तत्ते ज्ये॒ष्ठमुपा॑सत ॥
तप॑: । च॒ । ए॒व । आ॒स्ता॒म् । कर्म॑ । च॒ । अ॒न्त: । म॒ह॒ति । अ॒र्ण॒वे । तप॑: । ह॒ । ज॒ज्ञे॒ । कर्म॑ण: । तत् । ते । ज्ये॒ष्ठम् । उप॑ । आ॒स॒त॒ ॥१०.६॥
Mantra 7
येत आसी॒द्भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद्वि॒दुः। यो वै तां॑ वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित् ॥
या । इत॒: । आसी॑त् । भूमि॑: । पूर्वा॑ । याम् । अ॒ध्दा॒तय॑: । इत् । वि॒दु: । य: । वै । ताम् । वि॒द्यात् । ना॒मऽथा॑ । स: । म॒न्ये॒त॒ । पु॒रा॒ण॒ऽवित् ॥१०.७॥
Mantra 8
कुत॒ इन्द्रः॒ कुतः॒ सोमः॒ कुतो॑ अ॒ग्निर॑जायत। कुत॒स्त्वष्टा॒ सम॑भव॒त्कुतो॑ धा॒ताजा॑यत ॥
कुत॑: । इन्द्र॑: । कुत॑: । सोम॑: । कुत॑: । अ॒ग्नि: । अ॒जा॒य॒त॒ । कुत॑: । त्वष्टा॑ । सम् । अ॒भ॒व॒त् । कुत॑: । धा॒ता । अ॒जा॒य॒त॒ ॥१०.८॥
Mantra 9
इन्द्रा॒दिन्द्रः॒ सोमा॒त्सोमो॑ अ॒ग्नेर॒ग्निर॑जायत। त्वष्टा॑ ह जज्ञे॒ त्वष्टु॑र्धा॒तुर्धा॒ताजा॑यत ॥
इन्द्रा॑त् । इन्द्र॑: । सोमा॑त् । सोम॑: । अ॒ग्ने: । अ॒ग्नि: । अ॒जा॒य॒त॒ । त्वष्टा॑ । ह॒ । ज॒ज्ञे॒ । त्वष्टु॑: । धा॒तु: । धा॒ता । अ॒जा॒य॒त॒ ॥१०.९॥
Mantra 10
ये त आस॒न्दश॑ जा॒ता दे॒वा दे॒वेभ्यः॑ पु॒रा। पु॒त्रेभ्यो॑ लो॒कं द॒त्त्वा कस्मिं॒स्ते लो॒क आ॑सते ॥
ये । ते । आस॑न् । दश॑ । जा॒ता: । दे॒वा: । दे॒वेभ्य॑: । पु॒रा । पु॒त्रेभ्य॑: । लो॒कम् । द॒त्त्वा । कस्मि॑न् । ते । लो॒के । आ॒स॒ते॒ ॥१०.१०॥
Mantra 11
य॒दा केशा॒नस्थि॒ स्नाव॑ मां॒सं म॒ज्जान॒माभ॑रत्। शरी॑रं कृ॒त्वा पाद॑व॒त्कं लो॒कमनु॒ प्रावि॑शत् ॥
य॒दा । केशा॑न् । अस्थि॑ । स्नाव॑ । मां॒सम् । म॒ज्जान॑म् । आ॒ऽअभ॑रत् । शरी॑रम् । कृ॒त्वा । पाद॑ऽवत् । कम् । लो॒कम् । अनु॑ । प्र । अ॒वि॒श॒त् ॥१०.११॥
Mantra 12
कुतः॒ केशा॒न्कुतः॒ स्नाव॒ कुतो॒ अस्थी॒न्याभ॑रत्। अङ्गा॒ पर्वा॑णि म॒ज्जानं॒ को मां॒सं कुत॒ आभ॑रत् ॥
कुत॑: । केशा॑न् । कुत॑: । स्नाव॑: । कुत॑: । अस्थी॑नि । आ । अ॒भ॒र॒त् । अङ्गा॑ । पर्वा॑णि । म॒ज्जान॑म् । क: । मां॒सम् । कुत॑: । आ । अ॒भ॒र॒त् ॥१०.१२॥
Mantra 13
सं॒सिचो॒ नाम॒ ते दे॒वा ये सं॑भा॒रान्त्स॒मभ॑रन्। सर्वं॑ सं॒सिच्य॒ मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥
स॒म्ऽसिच॑: । नाम॑ । ते । दे॒वा: । ये । स॒म्ऽभा॒रान् । स॒म्ऽअभ॑रन् । सर्व॑म् । स॒म्ऽसिच्य॑ । मर्त्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.१३॥
Mantra 14
ऊ॒रू पादा॑वष्ठी॒वन्तौ॒ शिरो॒ हस्ता॒वथो॒ मुख॑म्। पृ॒ष्टीर्ब॑र्जह्ये पा॒र्श्वे कस्तत्सम॑दधा॒दृषिः॑ ॥
ऊ॒रू इति॑ । पादौ॑ । अ॒ष्ठी॒वन्तौ॑ । शिर॑: । हस्तौ॑ । अथो॒ इति॑ । मुख॑म् । पृ॒ष्टी: । ब॒र्ज॒ह्ये॒३॑ इति॑ । पा॒र्श्वे इति॑ । क: । तत् । सम् । अ॒द॒धा॒त् । ऋषि॑: ॥१०.१४॥
Mantra 15
शिरो॒ हस्ता॒वथो॒ मुखं॑ जि॒ह्वां ग्री॒वाश्च॒ कीक॑साः। त्व॒चा प्रा॒वृत्य॒ सर्वं॒ तत्सं॒धा सम॑दधान्म॒ही ॥
शिर॑: । हस्तौ॑ । अथो॒ इति॑ । मुख॑म् । जि॒ह्वाम् । ग्री॒वा: । च॒ । कीक॑सा: । त्व॒चा । प्र॒ऽआ॒वृत्य॑ । सर्व॑म् । तत् । स॒म्ऽधा । सम् । अ॒द॒धा॒त् । म॒ही ॥१०.१५॥
Mantra 16
यत्तच्छरी॑र॒मश॑यत्सं॒धया॒ संहि॑तं म॒हत्। येने॒दम॒द्य रोच॑ते॒ को अ॑स्मि॒न्वर्ण॒माभ॑रत् ॥
यत् । तत् । शरी॑रम् । अश॑यत् । स॒म्ऽधया॑ । सम्ऽहि॑तम् । म॒हत् । येन॑ । इ॒दम् । अ॒द्य । रोच॑ते । क: । अ॒स्मि॒न् । वर्ण॑म् । आ । अ॒भ॒र॒त् ॥१०.१६॥
Mantra 17
सर्वे॑ दे॒वा उपा॑शिक्ष॒न्तद॑जानाद्व॒धूः स॒ती। ई॒शा वश॑स्य॒ या जा॒या सास्मि॒न्वर्ण॒माभ॑रत् ॥
सर्वे॑ । दे॒वा: । उप॑ । अ॒शि॒क्ष॒न् । तत् । अ॒जा॒ना॒त् । व॒धू: । स॒ती । ई॒शा । वश॑स्य । या । जा॒या । सा । अ॒स्मि॒न् । वर्ण॑म् । आ । अ॒भ॒र॒त् ॥१०.१७॥
Mantra 18
य॒दा त्वष्टा॒ व्यतृ॑णत्पि॒ता त्वष्टु॒र्य उत्त॑रः। गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥
य॒दा । त्वष्टा॑ । वि॒ऽअतृ॑णत् । पि॒ता । त्वष्टु॑: । य: । उत्त॑र: । गृ॒हम् । कृ॒त्वा । मर्त्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.१८॥
Mantra 19
स्वप्नो॒ वै त॒न्द्रीर्निरृ॑तिः पा॒प्मानो॒ नाम॑ दे॒वताः॑। ज॒रा खाल॑त्यं॒ पालि॑त्यं॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
स्वप्न॑: । वै । त॒न्द्री: । नि:ऽऋ॑ति: । पा॒प्मान॑: । नाम॑ । दे॒वता॑: । ज॒रा । खाल॑त्यम् । पालि॑त्यम् । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.१९॥
Mantra 20
स्तेयं॑ दुष्कृ॒तं वृ॑जि॒नं स॒त्यं य॒ज्ञो यशो॑ बृ॒हत्। बलं॑ च क्ष॒त्रमोज॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
स्तेय॑म् । दु॒:ऽकृ॒तम् । वृ॒जि॒नम् । स॒त्यम् । य॒ज्ञ: । यश॑: । बृ॒हत् । बल॑म् । च॒ । क्ष॒त्रम् । ओज॑: । च॒ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२०॥
Mantra 21
भूति॑श्च॒ वा अभू॑तिश्च रा॒तयोऽरा॑तयश्च॒ याः। क्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
भूति॑: । च॒ । वै । अभू॑ति: । च॒ । रा॒तय॑: । अरा॑तय: । च॒ । या: । क्षुध॑: । च॒ । सर्वा॑: । तृष्णा॑ । च॒ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२१॥
Mantra 22
नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च। शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् ॥
नि॒न्दा: । च॒ । वै । अनि॑न्दा: । च॒ । यत् । च॒ । हन्त॑ । इति॑ । न । इति॑ । च॒ । शरी॑रम् । श्र॒ध्दा । दक्षि॑णा । अश्र॑ध्दा । च॒ । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२२॥
Mantra 23
वि॒द्याश्च॒ वा अवि॑द्याश्च॒ यच्चा॒न्यदु॑पदे॒श्यम्। शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒दृचः॒ सामाथो॒ यजुः॑ ॥
वि॒द्या: । च॒ । वै । अवि॑द्या: । च॒ । यत् । च॒ । अ॒न्यत् । उ॒प॒ऽदे॒श्य᳡म् । शरी॑रम् । ब्रह्म॑ । प्र । अ॒वि॒श॒त् । ऋच॑: । साम॑ । अथो॒ इति॑ । यजु॑: ॥१०.२३॥
Mantra 24
आ॑न॒न्दा मोदाः॑ प्र॒मुदो॑ऽभिमोद॒मुद॑श्च॒ ये। ह॒सो न॑रिष्टा नृ॒त्तानि॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
आ॒ऽन॒न्दा: । मोदा॑: । प्र॒ऽमुद॑: । अ॒भि॒मो॒द॒ऽमुद॑: । च॒ । ये । ह॒स: । न॒रिष्टा॑ । नृ॒त्तानि॑ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२४॥
Mantra 25
आ॑ला॒पाश्च॑ प्रला॒पाश्चा॑भीलाप॒लप॑श्च॒ ये। शरी॑रं॒ सर्वे॒ प्रावि॑शन्ना॒युजः॑ प्र॒युजो॒ युजः॑ ॥
आ॒ऽला॒पा: । च॒ । प्र॒ऽला॒पा: ।च॒ । अ॒भि॒ला॒प॒ऽलप॑: । च॒ । ये । शरी॑रम् । सर्वे॑ । प्र । अ॒वि॒श॒न् । आ॒ऽयुज॑: । प्र॒ऽयुज॑: । युज॑: ॥१०.२५॥
Mantra 26
प्रा॑णापा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या। व्या॑नोदा॒नौ वाङ्मनः॒ शरी॑रेण॒ त ई॑यन्ते ॥
प्रा॒णा॒पा॒नौ । चक्षु॑: । श्रोत्र॑म् । अक्षि॑ति: । च॒ । क्षिति॑: । च॒ । या । व्या॒न॒ऽउ॒दा॒नौ । वाक् । मन॑: । शरी॑रेण । ते । ई॒य॒न्ते॒ ॥१०.२६॥
Mantra 27
आ॒शिष॑श्च प्र॒शिष॑श्च सं॒शिषो॑ वि॒शिष॑श्च॒ याः। चि॒त्तानि॒ सर्वे॑ संक॒ल्पाः शरी॑र॒मनु॒ प्रावि॑शन् ॥
आ॒ऽशिष॑: । च॒ । प्र॒ऽशिष॑: । च॒ । स॒म्ऽशिष॑: । वि॒ऽशिष॑: । च॒ । या: । चि॒त्तानि॑ । सर्वे॑ । स॒म्ऽक॒ल्पा: । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२७॥
Mantra 28
आस्ते॑यीश्च॒ वास्ते॑यीश्च त्वर॒णाः कृ॑प॒णाश्च॒ याः। गुह्याः॑ शु॒क्रा स्थू॒ला अ॒पस्ता बी॑भ॒त्साव॑सादयन् ॥
आस्ते॑यी: । च॒ । वास्ते॑यी: । च॒ । त्व॒र॒णा: । कृ॒प॒णा: । च॒ । या: । गुह्या॑: । शु॒क्रा: । स्थू॒ला: । अ॒प: । ता: । बी॒भ॒त्सौ । अ॒सा॒द॒य॒न् ॥१०.२८॥
Mantra 29
अस्थि॑ कृ॒त्वा स॒मिधं॒ तद॒ष्टापो॑ असादयन्। रेतः॑ कृत्वाज्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥
अस्थि॑ । कृ॒त्वा । स॒म्ऽइध॑म् । तत् । अ॒ष्ट । आप॑: । अ॒सा॒द॒य॒न् । रेत॑: । कृ॒त्वा । आज्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.२९॥
Mantra 30
या आपो॒ याश्च॑ दे॒वता॒ या वि॒राड्ब्रह्म॑णा स॒ह। शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒च्छरी॒रेऽधि॑ प्र॒जाप॑तिः ॥
या: । आप॑: । या: । च॒ । दे॒वता॑: । या । वि॒ऽराट् । ब्रह्म॑णा । स॒ह । शरी॑रम् । ब्रह्म॑ । प्र । अ॒वि॒श॒त् । शरी॑रे । अधि॑ । प्र॒जाऽप॑ति: ॥१०.३०॥
Mantra 31
सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे। अथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑च्छन्न॒ग्नये॑ ॥
सूर्य॑: । चक्षु॑: । वात॑: । प्रा॒णम् । पुरु॑षस्य । वि । भे॒जि॒रे॒ । अथ॑ । अ॒स्य॒ । इत॑रम् । आ॒त्मान॑म् । दे॒वा: । प्र । अ॒य॒च्छ॒न् । अ॒ग्नये॑ ॥१०.३१॥
Mantra 32
तस्मा॒द्वै वि॒द्वान्पुरु॑षमि॒दं ब्रह्मेति॑ मन्यते। सर्वा॒ ह्यस्मिन्दे॒वता॒ गावो॑ गो॒ष्ठ इ॒वास॑ते ॥
तस्मा॑त् । वै । वि॒द्वान् । पुरु॑षम् । इ॒दम् । ब्रह्म॑ । इति॑ । म॒न्य॒ते॒ । सर्वा॑: । हि । अ॒स्मि॒न् । दे॒वता॑: । गाव॑: । गो॒स्थेऽइ॑व । आस॑ते ॥१०.३२॥
Mantra 33
प्र॑थ॒मेन॑ प्रमा॒रेण॑ त्रे॒धा विष्व॒ङ्वि ग॑च्छति। अ॒द एके॑न॒ गच्छ॑त्य॒द एके॑न गच्छती॒हैके॑न॒ नि षे॑वते ॥
प्र॒थ॒मेन॑ । प्र॒ऽभा॒रेण॑ । त्रे॒धा । विष्व॑ङ् । वि । ग॒च्छ॒ति॒ । अ॒द: । एके॑न । गच्छ॑ति । अ॒द: । एके॑न । ग॒च्छ॒ति॒ । इ॒ह । एके॑न । नि । से॒व॒ते॒ ॥१०.३३॥
Mantra 34
अ॒प्सु स्ती॒मासु॑ वृ॒द्धासु॒ शरी॑रमन्त॒रा हि॒तम्। तस्मि॒ञ्छवोऽध्य॑न्त॒रा तस्मा॒च्छवोऽध्यु॑च्यते ॥
अ॒प्ऽसु । स्ती॒मासु॑ । वृ॒ध्दासु॑ । शरी॑रम् । अ॒न्त॒रा । हि॒तम् । तस्मि॑न् । शव॑: । अधि॑ । अ॒न्त॒रा । तस्मा॑त् । शव॑: । अधि॑ । उ॒च्य॒ते॒ ॥१०.३४॥