Mantra 1
अ॒ग्निं ब्रू॑मो॒ वन॒स्पती॒नोष॑धीरु॒त वी॒रुधः॑। इन्द्रं॒ बृह॒स्पतिं॒ सूर्यं॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
अ॒ग्निम् । ब्रू॒म॒: । वन॒स्पती॑न् । ओष॑धी: । उ॒त । वी॒रुध॑: । इन्द्र॑म् । बृह॒स्पति॑म् । सूर्य॑म् । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१॥
Mantra 2
ब्रू॒मो राजा॑नं॒ वरु॑णं मि॒त्रं विष्णु॒मथो॒ भग॑म्। अंशं॒ विव॑स्वन्तं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ब्रू॒म: । राजा॑नम् । वरु॑णम् । मि॒त्रम् । विष्णु॑म् । अथो॒ इति॑ । भग॑म् । अंश॑म् । विव॑स्वन्तम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.२॥
Mantra 3
ब्रू॒मो दे॒वं स॑वि॒तारं॑ धा॒तार॑मु॒त पू॒षण॑म्। त्वष्टा॑रमग्रि॒यं ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ब्रू॒म: । दे॒वम् । स॒वि॒तार॑म् । धा॒तार॑म् । उ॒त । पू॒षण॑म् । त्वष्टा॑रम् । अ॒ग्रि॒यम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.३॥
Mantra 4
ग॑न्धर्वाप्स॒रसो॑ ब्रूमो अ॒श्विना॒ ब्रह्म॑ण॒स्पति॑म्। अ॑र्य॒मा नाम॒ यो दे॒वस्ते॑ नो मुञ्च॒न्त्वंह॑सः ॥
ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । ब्रू॒म॒: । अ॒श्विना॑ । ब्रह्म॑ण: । पति॑म् । अ॒र्य॒मा । नाम॑ । य: । दे॒व: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.४॥
Mantra 5
अ॑होरा॒त्रे इ॒दं ब्रू॑मः सूर्याचन्द्र॒मसा॑वु॒भा। विश्वा॑नादि॒त्यान्ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
अ॒हो॒रा॒त्रे इति॑ । इ॒दम् । ब्रू॒म॒: । सू॒र्या॒च॒न्द्र॒मसौ॑ । उ॒भा । विश्वा॑न् । आ॒दि॒त्यान् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.५॥
Mantra 6
वातं॑ ब्रूमः प॒र्जन्य॑म॒न्तरि॑क्ष॒मथो॒ दिशः॑। आशा॑श्च॒ सर्वा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
वात॑म् । ब्रू॒म॒: । प॒र्जन्य॑म् । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । दिश॑: । आशा॑: । च । सर्वा॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.६॥
Mantra 7
मु॒ञ्चन्तु॑ मा शप॒थ्यादहोरा॒त्रे अथो॑ उ॒षाः। सोमो॑ मा दे॒वो मु॑ञ्चतु॒ यमा॒हुश्च॒न्द्रमा॒ इति॑ ॥
मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अ॒हो॒रा॒त्रे इति॑ । अथो॒ इति॑ । उ॒षा: । सोम॑: । मा॒ । दे॒व: । मु॒ञ्च॒तु॒ । यम् । आ॒हु: । च॒न्द्रमा॑: । इति॑ ॥८.७॥
Mantra 8
पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः। श॒कुन्ता॑न्प॒क्षिणो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
पार्थि॑वा: । दि॒व्या: । प॒शव॑: । आ॒र॒ण्या: । उ॒त । ये । मृ॒गा: । श॒कुन्ता॑न् । प॒क्षिण॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.८॥
Mantra 9
भ॑वाश॒र्वावि॒दं ब्रू॑मो रु॒द्रं प॑शु॒पति॑श्च॒ यः। इषू॒र्या ए॑षां संवि॒द्म ता नः॑ सन्तु॒ सदा॑ शि॒वाः ॥
भ॒वा॒श॒र्वौ । इ॒दम् । ब्रू॒म॒: । रु॒द्रम् । प॒शु॒ऽपति॑: । च॒ । य: । इषू॑: । या: । ए॒षा॒म् । स॒म्ऽवि॒द्म । ता: । न॒: । स॒न्तु॒ । सदा॑ । शि॒वा: ॥८.९॥
Mantra 10
दिवं॑ ब्रूमो॒ नक्ष॑त्राणि॒ भूमिं॑ य॒क्षाणि॒ पर्व॑तान्। स॑मु॒द्रा न॒द्यो वेश॒न्तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
दिव॑म् । ब्रू॒म॒: । नक्ष॑त्राणि । भूमि॑म् । य॒क्षाणि॑ । पर्व॑तान् । स॒मु॒द्रा: । न॒द्य᳡: । वे॒श॒न्ता: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१०॥
Mantra 11
सप्त॒र्षीन्वा इ॒दं ब्रू॑मो॒ऽपो दे॒वीः प्र॒जाप॑तिम्। पि॒तॄन्य॒मश्रे॑ष्ठान्ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स॒प्त॒ऽऋ॒षीन् । वै । इ॒दम् । ब्रू॒म॒: । अ॒प: । दे॒वी: । प्र॒जाऽप॑तिम् । पि॒तॄन् । य॒मऽश्रे॑ष्ठान् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.११॥
Mantra 12
ये दे॒वा दि॑वि॒षदो॑ अन्तरिक्ष॒सद॑श्च॒ ये। पृ॑थि॒व्यां श॒क्रा ये श्रि॒तास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ये । दे॒वा: । दि॒वि॒ऽसद॑:। अ॒न्त॒रि॒क्ष॒ऽसद॑: । च॒ । ये । पृ॒थि॒व्याम् । श॒क्रा: । ये । श्रि॒ता: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१२॥
Mantra 13
आ॑दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वाणः। अङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
आ॒दि॒त्या: । रु॒द्रा: । वस॑व: । दि॒वि । दे॒वा: । अथ॑र्वाण: । अङ्गि॑रस: । म॒नी॒षिण॑: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१३॥
Mantra 14
य॒ज्ञं ब्रू॑मो॒ यज॑मान॒मृचः॒ सामा॑नि भेष॒जा। यजूं॑षि॒ होत्रा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
य॒ज्ञम् । ब्रू॒म॒:। यज॑मानम् । ऋच॑: । सामा॑नि । भे॒ष॒जा । यजूं॑षि । होत्रा॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१४॥
Mantra 15
पञ्च॑ रा॒ज्यानि॑ वी॒रुधां॒ सोम॑श्रेष्ठानि ब्रूमः। द॒र्भो भ॒ङ्गो यवः॒ सह॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
पञ्च॑ । रा॒ज्यानि॑ । वी॒रुधा॑म् । सोम॑ऽश्रेष्ठानि । ब्रू॒म॒: । द॒र्भ: । भ॒ङ्ग: । यव॑: । सह॑: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१५॥
Mantra 16
अ॒राया॑न्ब्रूमो॒ रक्षां॑सि स॒र्पान्पु॑ण्यज॒नान्पि॒तॄन्। मृ॒त्यूनेक॑शतं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
अ॒राया॑न् । ब्रू॒म॒: । रक्षां॑सि । स॒र्पान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । मृ॒त्यून् । एक॑ऽशतम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१६॥
Mantra 17
ऋ॒तून्ब्रू॑म ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्। समाः॑ संवत्स॒रान्मासां॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
ऋ॒तून् । ब्रू॒म॒: । ऋ॒तु॒ऽपती॑न् । आ॒र्त॒वान् । उ॒त । हा॒य॒नान् । समा॑: । स॒म्ऽव॒त्स॒रान् । मासा॑न् । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१७॥
Mantra 18
एत॑ देवा दक्षिण॒तः प॒श्चात्प्राञ्च॑ उ॒देत॑। पु॒रस्ता॑दुत्त॒राच्छ॒क्रा विश्वे॑ दे॒वाः स॒मेत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
आ । इ॒त॒ । दे॒वा॒: । द॒क्षि॒ण॒त: । प॒श्चात् । प्राञ्च॑: । उ॒त्ऽएत॑ । पु॒रस्ता॑त् । उ॒त्त॒रात् । श॒क्रा: । विश्वे॑ । दे॒वा: । स॒म्ऽएत्य॑ । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१८॥
Mantra 19
विश्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑। विश्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
विश्वा॑न् । दे॒वान् । इ॒दम् । ब्रू॒म॒: । स॒त्यऽसं॑धान् । ऋ॒त॒ऽवृध॑: । विश्वा॑भि: । पत्नी॑भि: । स॒ह । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१९॥
Mantra 20
सर्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑। सर्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
सर्वा॑न् । दे॒वान् । इ॒दम् । ब्रू॒म॒: । स॒त्यऽसं॑धान् । ऋ॒त॒ऽवृध॑: । सर्वा॑भि: । पत्नी॑भि: । स॒ह । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.२०॥
Mantra 21
भू॒तं ब्रू॑मो भूत॒पतिं॑ भू॒ताना॑मु॒त यो व॒शी। भू॒तानि॒ सर्वा॑ सं॒गत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
भू॒तम् । ब्रू॒म॒: । भू॒त॒ऽपति॑म् । भू॒ताना॑म् । उ॒त । य: । व॒शी । भू॒तानि॑ । सर्वा॑ । स॒म्ऽगत्य॑ । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.२१॥
Mantra 22
या दे॒वीः पञ्च॑ प्र॒दिशो॒ ये दे॒वा द्वाद॑श॒र्तवः॑। सं॑वत्स॒रस्य॒ ये दंष्ट्रा॒स्ते नः॑ सन्तु॒ सदा॑ शि॒वाः ॥
या: । दे॒वी: । पञ्च॑ । प्र॒ऽदिश॑: । ये । दे॒वा: । द्वाद॑श । ऋ॒तव॑: । स॒म्ऽव॒त्स॒रस्य॑ । ये । दंष्ट्रा॑ । ते । न॒: । स॒न्तु॒ । सदा॑ । शि॒वा: ॥८.२२॥
Mantra 23
यन्मात॑ली रथक्री॒तम॒मृतं॒ वेद॑ भेष॒जम्। तदिन्द्रो॑ अ॒प्सु प्रावे॑शय॒त्तदा॑पो दत्त भेष॒जम् ॥
यत् । मात॑ली । र॒थ॒ऽक्री॒तम् । अ॒मृत॑म् । वेद॑ । भे॒ष॒जम् । तत् । इन्द्र॑: । अ॒प्ऽसु । प्र । अ॒वे॒श॒य॒त् । तत् । आप॑: । द॒त्त॒ । भे॒ष॒जम् ॥८.२३॥